मोक्षोपाय · अध्याय 2.15
सन्तोषो हि परं श्रेयस् सन्तोषस् सुखम् उच्यते ।
सन्तुष्टः परम् अभ्येति विश्रामम् अरिसूदन ॥
सन्तोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् ।
साम्राज्यम् अपि साधूनां जरत्तृणलवायते ॥
सन्तोषशालिनी बुद्धी राम संसारवृत्तिषु ।
विषमास्व् अप्य् अनुद्विग्ना न कदाचन दूयते ॥
सन्तोषामृतपानेन ये परां तृप्तिम् आगताः ।
भोगश्रीर् अतुला तेषाम् एषा प्रतिविषायते ॥
न तथा तर्पयन्त्य् एताः पीयूषरसवीचयः ।
यथा हि मधुरास्वादस् सन्तोषो दोषनाशनः ॥
अप्राप्तवाञ्छाम् उत्सृज्य सम्प्राप्ते समतां गतः ।
अदृष्टखेदाखेदो ऽन्तस् स सन्तुष्ट इहोच्यते ॥
आत्मनात्मनि सन्तोषं यावद् याति न मानसम् ।
उद्भवन्त्य् आपदस् तावल् लता इव मनोवनात् ॥
सन्तोषशीतलं चेतश् शुद्धविज्ञानदृष्टिभिः ।
भृशं विकासम् आयाति सूर्यांशुभिर् इवाम्बुजम् ॥
आशावैवश्यविवशे चित्ते सन्तोषवर्जिते ।
म्लाने वक्त्रम् इवादर्शे न ज्ञानं प्रतिबिम्बति ॥
अज्ञानघनयामिन्या सङ्कोचं न नराम्बुजम् ।
यात्य् असाव् उदितो यस्य नित्यं सन्तोषभास्करः ॥
अकिञ्चनो ऽप्य् असौ जन्तुस् साम्राज्यसुखम् अश्नुते ।
आधिव्याधिविनिर्मुक्तं सन्तुष्टं यस्य मानसम् ॥
नाभिवाञ्छत्य् असम्प्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् ।
यस् स सोम्यस् सदाचारस् सन्तुष्ट इति कथ्यते ॥
सन्तोषपरितृप्तस्य महतः पूर्णचेतसः ।
क्षीराब्धेर् इव शुद्धस्य मुखे लक्ष्मीर् विराजते ॥
पूर्णताम् अलम् आश्रित्य स्वात्मन्य् एवात्मना स्वयम् ।
पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥
सन्तोषामृतपूर्णस्य स्वान्तश् शीतलता स्वयम् ।
स्थैर्यम् आयात्य् अरिक्तस्य शीतांशोर् इव शाश्वतम् ॥
सन्तोषपुष्टमनसं भृत्या इव महर्द्धयः ।
राजानम् उपतिष्ठन्ते किङ्करत्वम् उपागताः ॥
आत्मनैवात्मनि स्वच्छे सन्तुष्टे पुरुषे स्थिते ।
प्रशाम्यन्त्य् आधयस् सर्वे प्रावृषीवाशु पांसवः ॥
नित्यं शीतलया नाम कलङ्कपरिहीनया ।
पुरुषश् शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥
समतासुन्दरं वक्त्रं पुरुषस्यावलोकयन् ।
तोषम् एति यथा लोको न तथा धनसङ्गमैः ॥
समतया मतया गुणशालिनां पुरुषराड् इह यस् समलङ्कृतः ।
तम् अमलं प्रणमन्ति नभश्चरा अपि महामुनयो रघुनन्दन ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0