भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 2.17

2.17.1

एवम् आत्तविवेको यस् स भवान् इव राघव ।
योग्यो ज्ञानगिरश् श्रोतुं राजेव नयभारतीः ॥

2.17.2

अवदातो ऽवदातस्य विज्ञानस्य महाशयः ।
जडसङ्गोज्झितो योग्यश् शरदीन्दोर् यथा नभः ॥

2.17.3

त्वम् एतयाखण्डितया गुणलक्ष्म्या समाश्रितः ।
मनोमोहहरं वाक्यं वक्ष्यमाणम् इदं शृणु ॥

2.17.4

पुण्यकल्पद्रुमो यस्य फलभारानतस् स्थितः ।
मुक्तये जायते जन्तोस् तस्येदं श्रोतुम् उद्यमः ॥

2.17.5

पावनानाम् उदाराणां परबोधैकदायिनाम् ।
वचसां भाजनं भूत्यै भव्यो भवति नाधमः ॥

2.17.6

मोक्षोपायाभिधानेयं संहिता सारसम्मिता ।
त्रिंशद् द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी ॥

2.17.7

दीपे यथा विनिद्रस्य ज्वलिते सम्प्रवर्तते ।
आलोको ऽनिच्छतो ऽप्य् एवं निर्वाणम् अनया भवेत् ॥

2.17.8

स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैव सौख्यदा ।
आप्तोक्तिवर्णिता सद्यो यथामृततरङ्गिणी ॥

2.17.9

यथा रज्ज्वाम् अहिभ्रान्तिर् विनश्यत्य् अवलोकनात् ।
तथैतत्प्रेक्षणाच् छान्तिम् एति संसारदुःखिता ॥

2.17.10

युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक् पृथक् ।
दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट् ॥

2.17.11

वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् ।
वैराग्यं वर्धते येन सेकेनेव मरौ तरुः ॥

2.17.12

सार्धं सहस्रं ग्रन्थस्य यस्मिन् हृदि विचारिते ।
प्रकाशा शुद्धतोदेति मणाव् इव विमार्जिते ॥

2.17.13

मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम् ।
सहस्रमात्रं ग्रन्थस्य सूक्तिग्रन्थेन सुन्दरम् ॥

2.17.14

स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते ।
एवंस्वभावो मोक्षस्य योग्य इत्य् अवगम्यते ॥

2.17.15

अथोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् ।
पञ्चग्रन्थसहस्राणि विज्ञानप्रतिपादनम् ॥

2.17.16

जागती द्रष्टृदृश्यश्रीर् अहं त्वम् इतिरूपिणी ।
अनुत्थितैवोत्थितेव यत्रेति परिवर्ण्यते ॥

2.17.17

यस्मिञ् श्रुते जगद् इदं श्रोत्रान्तर् बुध्यते ऽखिलम् ।
सास्मद्युष्मत् सविस्तारं सलोकाकाशपर्वतम् ॥

2.17.18

पिण्डग्रहविनिर्मुक्तं निर्भित्तिकम् अपर्वतम् ।
पृथ्व्यादिभूतरहितं सङ्कल्प इव पत्तनम् ॥

2.17.19

स्वप्नोपलब्धभावाभं मनोराज्यवद् आततम् ।
गन्धर्वनगरप्रख्यम् अर्थशून्योपलम्भनम् ॥

2.17.20

द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवत् ततम् ।
नौयानलोलशैलाभं सत्यलाभविवर्जितम् ॥

2.17.21

चित्तभ्रमपिशाचाभं निर्बीजम् अपि भास्वरम् ।
कथार्थप्रतिभानाभं व्योममुक्तावलीनिभम् ॥

2.17.22

कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ।
यथा नभसि नीलत्वम् असद् एवोत्थितं तथा ॥

2.17.23

अभित्ति रङ्गरहितम् उपलब्धिमनोहरम् ।
स्वप्ने वा व्योम्नि वा चित्रम् अकर्म चिरभासुरम् ॥

2.17.24

अवह्निर् एव वह्नित्वं धत्ते चित्रानलो यथा ।
तथा दधज् जगच्छब्दरूपार्थम् असदात्मकम् ॥

2.17.25

तरङ्गोत्पलमालाढ्यदृषत्पत्त्रम् इवोत्थितम् ।
चक्रशूत्कारचूर्णस्य मलराशिम् इवोदितम् ॥

2.17.26

शीर्णपत्त्रं भ्रष्टनष्टं ग्रीष्मे वनम् इवारसम् ।
मरणव्यग्रनृत्ताभं शिलास्त्रीहास्यहासदम् ॥

2.17.27

अन्धकारगृहैकैकनृत्तम् उन्मत्तचेष्टितम् ।
प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् ॥

2.17.28

समुत्कीर्णम् इव स्तम्भे चित्रभित्ताव् इवेहितम् ।
पङ्काद् इवाभिरचितं सचेतनम् अचेतनम् ॥

2.17.29

ततस् स्थितिप्रकरणं चतुर्थं परिकल्पितम् ।
त्रीणि ग्रन्थसहस्राणि स्वाख्यानाख्यायिकामयम् ॥

2.17.30

इत्थं जगद् अहम्भावरूपं स्थितिम् उपागतम् ।
द्रष्टृदृश्यक्रमप्रौढम् इत्य् अत्र परिवर्णितम् ॥

2.17.31

दशदिङ्मण्डलाभोगभासुरो ऽयं जगद्भ्रमः ।
इत्थम् अभ्यागतो वृद्धिम् इति तत्रोच्यते चिरम् ॥

2.17.32

उपशान्तिप्रकरणं ततः पञ्चसहस्रिकम् ।
पञ्चमं पावनं प्रोक्तं मुनिसन्ततिसुन्दरम् ॥

2.17.33

इदं जगद् अहं त्वं च स इति भ्रान्तिर् उत्थिता ।
इत्य् असौ शाम्यतीत्य् अस्मिन् कथ्यते श्लोकसङ्ग्रहे ॥

2.17.34

उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः ।
प्रस्पष्टा विभ्रमेणैव किञ्चिल्लभ्योपलम्भना ॥

2.17.35

शतांशशिष्टा भवति संशान्तभ्रान्तिरूपिणी ।
अन्यसङ्कल्पचित्तस्था नगरश्रीर् इवासती ॥

2.17.36

अलभ्यैव स्वपार्श्वस्थस्वप्नयुद्धविराववत् ।
शान्तसङ्कल्पमत्ताभ्रभीषणाशनिशब्दवत् ॥

2.17.37

विस्मृतस्वप्नसङ्कल्पनिर्माणनगरोपमा ।
भविष्यन्नगरोद्यानसोत्सवश्यामलाङ्गिका ॥

2.17.38

नश्यज्जिह्वोच्यमानोग्रकथार्थानुभवोपमा ।
अनुल्लिखितचित्तस्थचित्रव्याप्तेव भित्तिभूः ॥

2.17.39

परिविस्मर्यमाणाच्छकल्पनानगरीनिभा ।
सर्वर्तुमदनुत्पन्नवरमर्दास्फुटाकृतिः ॥

2.17.40

भाविपुष्पवराकारवसन्तरसरञ्जना ।
अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा ॥

2.17.41

निर्वाणाख्यं प्रकरणं ततष् षष्ठम् उदाहृतम् ।
शिष्टो ग्रन्थः परीमाणं तस्य ज्ञेयं महार्थदम् ॥

2.17.42

बुद्धे तस्मिन् भवेच् छ्रोता निर्वाणश् शान्तकल्पनः ।
अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः ॥

2.17.43

परमाकाशकोशाच्छश् शान्तसर्वभवभ्रमः ।
निर्वाहितजगद्यात्रः कृतकर्तव्यसुस्थितः ॥

2.17.44

समस्तविततारम्भवज्रस्तम्भो नभोनिभः ।
विनिगीर्णयथासंस्थजगज्जालातितृप्तिमान् ॥

2.17.45

आकाशीभूतनिश्शेषरूपालोकमनस्कृतिः ।
कार्यकारणकर्तृत्वहेयादेयदशोज्झितः ॥

2.17.46

सदेह एव निर्देहस् ससंसारो ऽप्य् असंसृतिः ।
चिन्मयो घनपाषाणजठराजठरोपमः ॥

2.17.47

चिदादित्यस् तपंल् लोके ऽप्य् अन्धकारोदरोपमः ।
परप्रकाशरूपो ऽपि परम् आन्ध्यम् इवागतः ॥

2.17.48

रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकः ।
नष्टाहङ्कारवेतालो देहवान् अकलेवरः ॥

2.17.49

कस्मिंश्चिद् रोमकोट्यग्रे तस्येयम् अवतिष्ठते ।
जगल्लक्ष्मीर् महामेरोः पुष्पे क्वचिद् इवालिनी ॥

2.17.50

परमाणौ परमाणौ चिदाकाशस्य कोटरे ।
जगल्लक्ष्मीसहस्राणि धत्ते कृत्वा च पश्यति ॥

2.17.51

प्रवितता हृदयस्य महामते हरिहराब्जजलक्षशतैर् अपि ।
तुलनम् एति न मुक्तिमतो बत प्रविततास्ति न नूनम् अवस्तुनः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc