भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 2.14

2.14.1

शास्त्रावबोधामलया धिया परमपूतया ।
कर्तव्यः कारणज्ञेन विचारो नियतात्मना ॥

2.14.2

विचारात् तीक्ष्णताम् एत्य धीः पश्यति परं पदम् ।
दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥

2.14.3

आपद्वनम् अनन्तेहापरिपल्लविताकृति ।
विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥

2.14.4

मोहेषु बन्धुनाशेषु सङ्कटेषु भ्रमेषु च ।
सर्वेष्व् एव महाप्राज्ञ विचारो हि सतां गतिः ॥

2.14.5

न विचारं विना कश्चिद् उपायो ऽस्ति विपच्छमे ।
विचाराद् अशुभं त्यक्त्वा शुभम् आयाति धीस् सताम् ॥

2.14.6

बलं बुद्धिश् च तेजश् च प्रतिपत्तिः क्रियाफलम् ।
फलन्त्य् एतानि सर्वाणि विचारेणैव धीमतः ॥

2.14.7

युक्तायुक्तमहादीपम् अभिवाञ्छितसाधकम् ।
स्फारं विचारम् आश्रित्य संसारजलधिं तरेत् ॥

2.14.8

आलूनहृदयाम्भोजं महामोहमतङ्गजम् ।
विदारयति शुद्धात्मा विचारोदारकेसरी ॥

2.14.9

मूढाः कालवशेनेह यद् गताः परमं पदम् ।
तद् विचारप्रदीपस्य विजृम्भितम् अनुत्तमम् ॥

2.14.10

राज्यानि सम्पदस् स्फारो भोगो मोक्षश् च शाश्वतः ।
विचारकल्पवृक्षस्य फलान्य् एतानि राघव ॥

2.14.11

या विवेकविलासिन्यो मतयो महताम् इह ।
न ता विपदि मज्जन्ति तुम्बकानीव वारिणि ॥

2.14.12

विचारोदयहारिण्या धिया व्यवहरन्ति ये ।
फलानाम् अत्युदाराणां भाजनं हि भवन्ति ते ॥

2.14.13

मूर्खहृत्काननस्थानाम् आशाप्रसररोधिनाम् ।
अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः ॥

2.14.14

कज्जलक्षोदमलिना मदिरामोदधर्मिणी ।
अविचारमयी निद्रा यातु ते राघव क्षयम् ॥

2.14.15

महापद्य् अपि दीर्घेषु सद्विचारपरो नरः ।
न निमज्जति मोहेषु तेजोराशिस् तमस्स्व् इव ॥

2.14.16

मानसे सरसि स्वच्छे विचारकमलोत्करः ।
नूनं विकसितो यस्य हिमवान् इव भाति सः ॥

2.14.17

विचारविकला यस्य मतिर् मान्द्यम् उपेयुषः ।
तस्योदेत्य् अशनिश् चन्द्रान् मुधा यक्षश् शिशोर् इव ॥

2.14.18

दुःखषण्डकवल्मीकं विपन्नवलतामधुः ।
राम दूरे परित्याज्यो निर्विवेको नराधमः ॥

2.14.19

ये केचन दुरारम्भा दुराचारा दुराधयः ।
अविचारेण ते भान्ति वेतालास् तमसा यथा ॥

2.14.20

अविचारिणम् एकान्तजरद्द्रुमसधर्मिणम् ।
अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह ॥

2.14.21

विविक्तं हि मनो जन्तोर् आशावैवश्यवर्जितम् ।
परां निर्वृतिम् अभ्येति पूर्णश् चन्द्र इवात्मनि ॥

2.14.22

विवेकितोदिता देहं सर्वं शीतलयत्य् अलम् ।
अलङ्करोति चात्यन्तं ज्योत्स्नेव भुवनम् नवा ॥

2.14.23

परमार्थपताकाया धियो धवलचामरम् ।
विचारो राजते जन्तो रजन्याम् इव चन्द्रमाः ॥

2.14.24

विचारचारवो भावा भासयन्तो दिशो दश ।
भान्ति भास्करवद् भग्नभूयोभवभयामयाः ॥

2.14.25

बालस्य स्वमनोमोहकल्पितः प्राणहारकः ।
रात्रौ तमसि वेतालो विचारेण विलीयते ॥

2.14.26

सर्व एव जगद्भावा अविचारणचारवः ।
अविद्यमानसद्भावा विचारविशरारवः ॥

2.14.27

पुंसो निजमनोमोहकल्पितो ऽनल्पदुःखदः ।
संसारचिरवेतालो विचारेण विलीयते ॥

2.14.28

समस्वच्छं निराबाधम् अनन्तम् अनपाश्रयम् ।
विद्धीमं केवलीभावं विचारोग्रतरोः फलम् ॥

2.14.29

अचलस्थितिनोदारप्रकटाभोगतेजसा ।
तेन निष्कामतोदेति शीततेवोदितेन्दुना ॥

2.14.30

चिन्ताज्वरमहौषध्या साधुचित्तनिषण्णया ।
तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति ॥

2.14.31

तत् सदालम्बनं चेतस् स्फारम् आभासम् आगतम् ।
नास्तम् एति न चोदेति खम् इवातिततान्तरम् ॥

2.14.32

न जहाति न चादत्ते न ताम्यति न शाम्यति ।
केवलं साक्षिवत् पश्यञ् जगद् आत्मनि तिष्ठति ॥

2.14.33

न च शाम्यति नाप्य् अन्तर् नापि बाह्ये ऽवतिष्ठति ।
न च नैष्कर्म्यम् आदत्ते न च कर्मणि मज्जति ॥

2.14.34

उपेक्षते गतं वस्तु सम्प्राप्तम् अनुवर्तते ।
न क्षुब्धो नाति चाक्षुब्धो भाति पूर्ण इवार्णवः ॥

2.14.35

एवंरूपेण मनसा महात्मानो महाशयाः ।
जीवन्मुक्ता जगत्य् अस्मिन् विहरन्ति हि योगिनः ॥

2.14.36

उषित्वा सुचिरं कालं धीरास् ते यावदीप्सितम् ।
तनुम् अन्ते परित्यज्य यान्ति केवलतां तताम् ॥

2.14.37

को ऽहं कस्य च संसार इत्य् आपद्य् अपि धीमता ।
चिन्तनीयं प्रयत्नेन सप्रतीकारम् आत्मना ॥

2.14.38

कार्यसङ्कटसन्देहं राजा जानाति राघव ।
निष्फलं सफलं वापि विचारेणैव नान्यथा ॥

2.14.39

वेदवेदान्तसिद्धान्तस्थितयस् स्थितिकारणम् ।
निर्णीयन्ते विचारेण दीपेनेव भुवो निशि ॥

2.14.40

अनष्टम् अन्धकारेषु बहुतेजस्स्व् अजिह्मितम् ।
पश्यत्य् अपि व्यवहितं विचारच् चारुलोचनम् ॥

2.14.41

विवेकान्धो हि जात्यन्धश् शोच्यश् सर्वस्य दुर्मतिः ।
दिव्यचक्षुर् विवेकात्मा जयत्य् अखिलवस्तुषु ॥

2.14.42

परमात्ममयी पाल्या महानन्दैकसाधनी ।
क्षणम् एकं परित्याज्या न विचारचमत्कृतिः ॥

2.14.43

विचारचारुः पुरुषो महताम् अपि रोचते ।
परिपक्वं चमत्कारि सहकारफलं यथा ॥

2.14.44

विचारकान्तमतयो नानेकेषु पुनः पुनः ।
पतन्ति दुःखगर्तेषु ज्ञातोर्ध्वगतयो नराः ॥

2.14.45

न विरौति तथा रोगी नानर्थशतजर्जरः ।
अविचारविनष्टात्मा यथाज्ञः परिरोदिति ॥

2.14.46

वरं कर्दमकीटत्वं श्वभ्रकण्टकता वरम् ।
वरम् अन्धगुहाहित्वं न नरस्याविचारिता ॥

2.14.47

सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् ।
सर्वदौस्स्थित्यसीमान्तम् अविचारं परित्यजेत् ॥

2.14.48

नित्यं विचारयुक्तेन भवितव्यं महात्मना ।
भवान्धकूपे पततां विचारो ह्य् अवलम्बनम् ॥

2.14.49

स्वयम् एवात्मनात्मानम् अवष्टभ्य विचारतः ।
संसारमोहजलधेस् तारयेत् स्वमनोमृगम् ॥

2.14.50

को ऽहं कथम् अयं दोषस् संसाराख्य उपागतः ।
न्यायेनेति परामर्शो विचार इति कथ्यते ॥

2.14.51

अन्धान्धमोहमुखरं चिरं दुःखाय केवलम् ।
कृतं शिलाया हृदयं दुर्मतेश् चाविचारिणः ॥

2.14.52

भावाभावग्रहोत्सर्गदृशाम् इह हि राघव ।
न विचाराद् ऋते तत्त्वं ज्ञायते साधु किञ्चन ॥

2.14.53

विचाराज् ज्ञायते तत्त्वं तत्त्वाद् विश्रान्तिर् आत्मनि ।
ततो मनसि शान्ते तु सर्वदुःखपरिक्षयः ॥

2.14.54

सफलता फलते भुवि कर्मणां प्रकटतां किल गच्छत उत्तमात् ।
स्फुटविचारदृशैव विचारिता शमवते भवते ऽपि विरोचताम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc