भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 2.13

2.13.1

एतां दृष्टिम् अवष्टभ्य पुष्टात्मानस् सुबुद्धयः ।
विचरन्त्य् असमुन्नद्धा महान्तो ऽभ्युदिता इव ॥

2.13.2

न शोचन्ति न याचन्ते न वाञ्छन्ति शुभाशुभम् ।
सर्वम् एव च कुर्वन्ति कुर्वन्ति न च किञ्चन ॥

2.13.3

स्वस्थम् एवावतिष्ठन्ति स्वस्थं कुर्वन्ति यान्ति च ।
हेयोपादेयतापक्षरहितास् स्वात्मनि स्थिताः ॥

2.13.4

आयान्ति च न चायान्ति वनं यान्ति न यान्ति च ।
न कुर्वन्त्य् अपि कुर्वन्ति न वदन्ति वदन्ति च ॥

2.13.5

ये केचन समारम्भा याश् च काश्चन दृष्टयः ।
हेयादेयदृशो यास् ताः क्षीयन्ते ऽधिगते पदे ॥

2.13.6

परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् ।
सर्वतस् सुखम् अभ्येति चन्द्रबिम्ब इव स्थितम् ॥

2.13.7

अपि निर्मननारम्भम् अप्य् अस्ताखिलकौतुकम् ।
आत्मन्य् एव न मात्य् अन्तर् इन्दाव् इव रसायनम् ॥

2.13.8

न करोतीन्द्रजालानि नानुधावति वासनाम् ।
बालचापलम् उत्सृज्य पूर्णम् एव विराजते ॥

2.13.10

स्वानुभूतेस् सुशास्त्रस्य गुरोश् चैवैकवाक्यता ।
यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥

2.13.11

अवहेलितशास्त्रार्थैर् अवज्ञातमहाजनैः ।
कष्टाम् अप्य् आपदं प्राप्तो न मूढैस् समताम् इयात् ॥

2.13.12

न व्याधिर् न विषं नापत् तथा नामास्ति भूतले ।
खेदाय स्वशरीरस्थं मौर्ख्यम् एव यथा नृणाम् ॥

2.13.13

किञ्चित्संस्कृतबुद्धीनां श्रव्यं शास्त्रम् इदं यथा ।
मौर्ख्यापहं तथा शास्त्रम् अन्यद् अस्ति न किञ्चन ॥

2.13.14

इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् ।
अविरुद्धम् अशेषेण शास्त्रवाक्यार्थबन्धुना ॥

2.13.15

आपदो या दुरुत्तारा याश् च तुच्छाः कुयोनयः ।
तास् ता मौर्ख्यात् प्रसूयन्ते खदिरात् कण्टका इव ॥

2.13.16

वरं शरावहस्तस्य चण्डालागारवीथिषु ।
भिक्षार्थम् अटनं राम न मौर्ख्यहतजीवितम् ॥

2.13.17

इमम् आलोकम् आसाद्य मोक्षोपायमयं जनः ।
अन्धताम् एति न पुनः कश्चिन् मोहतमस्य् अपि ॥

2.13.18

तावन् नयति सङ्कोचं तृष्णाश्यामा नराम्बुजम् ।
यावद् विवेकसूर्यस्य नोदिता विमला प्रभा ॥

2.13.19

संसारदुःखमोक्षार्थं मादृशैस् सह बन्धुभिः ।
स्वरूपम् आत्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥

2.13.20

जीवन्मुक्ताश् चरन्तीह यथा हरिहरादयः ।
यथा ब्रह्मर्षयश् चान्ये तथा विहर राघव ॥

2.13.21

अनन्तानीह दुःखानि सुखं क्षणलवोपमम् ।
नातस् सुखेषु बध्नीयाद् दृष्टिं दुःखानुबन्धिषु ॥

2.13.22

यद् अनन्तम् अनायासं तत् पदं सारसिद्धये ।
साधनीयं प्रयत्नेन पुरुषेण विजानता ॥

2.13.23

त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।
अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥

2.13.24

सम्भोगाशनमात्रेषु राज्यादिषु सुखेषु ये ।
सन्तुष्टा दुष्टमनसो विद्धि तान् अन्धडुण्डुभान् ॥

2.13.25

ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।
द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥

2.13.26

ते यान्ति दुर्गमाद् दुर्गं दुःखाद् दुःखं भयाद् भयम् ।
नरकान् नरकं मूढा मोहमन्थरबुद्धयः ॥

2.13.27

परस्परविनाशोत्के श्रेयस्यौ न कदाचन ।
सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥

2.13.28

ये विरक्ता महात्मानस् सुविविक्ता भवादृशः ।
पुरुषान् विद्धि तान् वन्द्यान् भोगमोक्षैकभागिनः ॥

2.13.29

विवेकं परम् आश्रित्य वैराग्याभ्यासयोगतः ।
संसारसरितं घोराम् इमाम् आपदम् उत्तरेत् ॥

2.13.30

न स्वप्तव्यं तु संसारमायास्व् इह विजानता ।
विषमूर्छनसम्मोहदायिनीषु विवेकिना ॥

2.13.31

संसारम् इमम् आसाद्य यस् तिष्ठत्य् अवहेलया ।
ज्वलितस्य गृहस्योच्चैश् शेते तार्णस्य सो ऽन्तरे ॥

2.13.32

यत् प्राप्य न निवर्तन्ते यद् आसाद्य न शोच्यते ।
तत् पदं शेमुषीलभ्यम् अस्त्य् एवात्र न संशयः ॥

2.13.33

नास्ति चेत् तद् विचारेण दोषः को भवतां भवेत् ।
अस्ति चेत् तत् समुत्तीर्णा भविष्यथ भवार्णवात् ॥

2.13.34

प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।
यदा भवत्य् आशु तदा मोक्षभागी स उच्यते ॥

2.13.35

अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।
न विना केवलीभावं विद्यते भुवनत्रये ॥

2.13.36

तत्प्राप्ताव् उत्तमप्राप्तौ न क्लेश उपयुज्यते ।
न मित्राण्य् उपकुर्वन्ति न धनानि न बन्धवः ॥

2.13.37

न हस्तपादचलनं न देशान्तरसङ्गमः ।
क्लेशातिशयसाध्यो वा न तीर्थायतनाश्रयः ॥

2.13.38

पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।
केवलं तन् मनोमात्रजयेनासाद्यते पदम् ॥

2.13.39

विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।
त्यजता दुःखजालानि नरेण तद् अवाप्यते ॥

2.13.40

सुखसेव्यासनस्थेन तद् विचारयता स्वयम् ।
न शोच्यते पदं प्राप्य न च भूयो ऽभिजायते ॥

2.13.41

तत् समस्तसुखासारसीमान्तं साधवो विदुः ।
तद् अनुत्तमनिष्ष्यन्दं परम् आहू रसायनम् ॥

2.13.42

क्षयित्वात् सर्वभावानां स्वर्गमानुष्ययोर् द्वयोः ।
सुखं नास्त्य् एव सलिलं मृगतृष्णास्व् इवैतयोः ॥

2.13.43

अतो मनोजयश् चिन्त्यश् शमस् सन्तोषसाधनः ।
अनन्तशमसम्भोगस् तस्माद् आनन्द आप्यते ॥

2.13.44

जीवता गच्छता चैव भ्रमता पतता तथा ।
रक्षसा दानवेनापि देवेन पुरुषेण वा ॥

2.13.45

मनःप्रशमनोद्भूतं तत् प्राप्य परमं सुखम् ।
विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥

2.13.46

व्यवहारपरेणापि कार्यवृन्दम् अचिन्वता ।
भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छ्यते ॥

2.13.47

मनः प्रशान्तम् अत्यच्छं विश्रान्तं गतविभ्रमम् ।
अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥

2.13.48

मोक्षद्वारे द्वारपालान् इमाञ् शृणु यथाक्रमम् ।
येषाम् एकतमासक्त्या मोक्षद्वारे प्रविश्यते ॥

2.13.49

दुःखदोषदशा दीर्घा संसारमरुमण्डली ।
जन्तोश् शीतलताम् एति शीतलेन शमाम्बुना ॥

2.13.50

शमेनासाद्यते श्रेयश् शमो हि परमं पदम् ।
शमश् शिवं शमश् शान्तिश् शमो भ्रान्तिनिवारणम् ॥

2.13.51

पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।
शमतोषितचित्तस्य शत्रुर् अप्य् एति मित्रताम् ॥

2.13.52

शमचन्द्रमसा येषाम् आशयस् समलङ्कृतः ।
क्षीराब्धीनाम् इवोदेति तेषां परमशुद्धता ॥

2.13.53

हृत्कुशेशयकोशेषु येषां शमकुशेशयम् ।
सतां विकसितं ते हि द्विहृत्पद्मास् समा हरेः ॥

2.13.54

शमश्रीश् शोभते येषां मुखेन्दाव् अकलङ्किते ।
ते ऽमी कुलेन्दवो वन्द्यास् सौन्दर्यविजितेन्दवः ॥

2.13.55

त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।
साम्राज्यसम्पत्प्रतिमा यथा शमविभूतयः ॥

2.13.56

यानि दुःखानि यास् तृष्णा दुस्सहा ये दुराधयः ।
तत् सर्वं शान्तचेतस्सु तमो ऽर्केष्व् इव नश्यति ॥

2.13.57

मनो हि सर्वभूतानां प्रसादम् अनुगच्छति ।
न तथेन्दौ यथा शान्ते जने जनितकौतुकम् ॥

2.13.58

शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।
सुजने परमं तत्त्वं स्वयम् एव प्रसीदति ॥

2.13.59

मातरीव परं यान्ति विषमाणि मृदूनि च ।
विश्वासम् इह भूतानि सर्वाणि शमशालिनि ॥

2.13.60

न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।
तथा सुखम् अवाप्नोति शमेनान्तर् यथा जनः ॥

2.13.61

सर्वाधिव्याधिवलितं क्रान्तं तृष्णावरत्रया ।
मनश् शमामृतासेकैस् समाश्वासय राघव ॥

2.13.62

यत् करोषि यद् अश्नासि शमशीतलया धिया ।
तत् ते ऽतिस्वदते स्वादु नेतरत् तात मानसे ॥

2.13.63

शमामृतरसस्नातं मनो याम् एति निर्वृतिम् ।
छिन्नान्य् अपि तयाङ्गानि मन्ये रोहन्ति राघव ॥

2.13.64

न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।
न च व्याघ्रभुजङ्गाद्या द्विषन्ति शमशालिनम् ॥

2.13.65

सुसन्नद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।
वेधयन्ति न दुःखानि शरा वज्रशिलाम् इव ॥

2.13.66

न तथा राजते राजामात्यान्तःपुरसंस्थितः ।
समया स्वस्थया वृत्त्या यथोपशमशोभितः ॥

2.13.67

प्राणात् प्रियतरं दृष्ट्वा तुष्टिम् एति न तां जनः ।
याम् आयाति जनं शान्तम् अवलोक्य समाशयम् ॥

2.13.68

समया शमशालिन्या वृत्त्या यस् साधु वर्तते ।
अभिनन्दितया लोके जीवतीह स नेतरः ॥

2.13.69

अनुद्धतमनाश् शान्तस् साधु कर्म करोति यत् ।
तत् सर्वम् अभिनन्दन्ति तस्येमा भूतजातयः ॥

2.13.70

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
न हृष्यति ग्लायति यस् स शान्त इति कथ्यते ॥

2.13.71

यस् समस् सर्वभावेषु नाभिवाञ्छति नोज्झति ।
जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥

2.13.72

तुषारकरबिम्बाच्छं मनो यस्य निराकुलम् ।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥

2.13.73

स्थितो ऽपि न स्थित इव न हृष्यति न कुप्यति ।
यस् सुषुप्तमनास् स्वस्थस् स शान्त इति कथ्यते ॥

2.13.74

अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।
दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥

2.13.75

स्पष्टावदातया बुद्ध्या यथैवान्तस् तथा बहिः ।
दृश्यन्ते यस्य कार्याणि स शान्त इति कथ्यते ॥

2.13.76

अप्य् आपत्सु दुरन्तासु कल्पान्तेषु दहत्स्व् अपि ।
तुच्छेहं न मनो यस्य स शान्त इति कथ्यते ॥

2.13.77

अन्तश्शीतलतां यातो यो भावेषु न मज्जति ।
व्यवहारी न सम्मूढस् स शान्त इति कथ्यते ॥

2.13.78

आकाशसदृशी यस्य नित्यं स्वव्यवहारिणः ।
कलङ्कम् एति न मतिस् स शान्त इति कथ्यते ॥

2.13.79

तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
बलवत्सु गुणाढ्येषु शमवान् एव राजते ॥

2.13.80

शमसंसक्तमनसां महतां गुणशालिनाम् ।
उदेति निर्वृतिश् चित्ताज् ज्योत्स्नेव हिमरोचिषः ॥

2.13.81

सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।
सङ्कटेष्व् अभयस्थानं शमश् श्रीमान् विराजते ॥

2.13.82

शमम् अमृतम् अहार्यम् आर्यजुष्टं परम् अवलम्ब्य पदं परं प्रयाताः ।
रघुतनय यथा महानुभावाः क्रमम् अनुपालय सिद्धये तम् एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc