भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 2.10

2.10.1

अतः पौरुषम् आश्रित्य श्रेयसे नित्यबान्धवम् ।
एकाग्रं कुरु चित्तं त्वं शृणु चेदं वचो मम ॥

2.10.2

अवान्तराभिपातीनि स्वारूढानि मनोरथम् ।
पौरुषेणेन्द्रियाण्य् आशु संयम्य समतां नय ॥

2.10.3

इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् ।
मोक्षोपायमयीं वक्ष्ये संहितां सारसम्मिताम् ॥

2.10.4

अपुनर्ग्रहणायान्तस् त्यक्त्वा संसारवासनाम् ।
सम्पूर्णौ शमसन्तोषाव् आदायोदारया धिया ॥

2.10.5

सपूर्वापरवाक्यार्थविचारविषयादृतम् ।
मनस् समरसं कृत्वा सानुसन्धानम् आत्मनि ॥

2.10.6

सुखदुःखक्षयकरं महानन्दैकसाधनम् ।
मोक्षोपायम् इतो राम वक्ष्यमाणं इमं शृणु ॥

2.10.7

इमां मोक्षकथां श्रुत्वा सह सर्वैर् विवेकिभिः ।
पदं यास्यसि निर्दुःखं नाशो यत्र न विद्यते ॥

2.10.8

इदम् उक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना ।
सर्वदुःखक्षयकरं परमाश्वासनं धियः ॥

2.10.9

केनोक्तं कारणेनेदं ब्रह्मन् पूर्वं स्वयम्भुवा ।
कथं च भवता प्राप्तम् एतत् कथय मे प्रभो ॥

2.10.10

अस्त्य् अनन्तविलासात्मा सर्वगस् सर्वसंश्रयः ।
चिदाकाशो ऽविनाशात्मा प्रदीपस् सर्ववस्तुषु ॥

2.10.11

स्पन्दास्पन्दसमाकारात् ततो विष्णुर् अजायत ।
स्पन्दमानरसापूरात् तरङ्गस् सागराद् इव ॥

2.10.12

सुमेरुकर्णिकात् तस्य दिग्दलाद् धृदयाम्बुजात् ।
तारकाकेसरवतः परमेष्ठी व्यजायत ॥

2.10.13

वेदवेदार्थदेवेशमुनिमण्डलमालितम् ।
सो ऽसृजत् सकलं सर्गं विकल्पौघं यथा मनः ॥

2.10.14

जम्बुद्वीपस्य कोणे ऽस्मिन् वर्षे भारतनामनि ।
स ससर्ज जनं पुत्रैर् आधिव्याधिपरिप्लुतम् ॥

2.10.15

भावाभावविषण्णार्थम् उत्पातध्वंसतत्परम् ।
सर्गे ऽस्मिन् भूतजातीनाम् आप्यायनकरं परम् ॥

2.10.16

जनस्य तस्य दुःखं स दृष्ट्वा सकललोककृत् ।
जगाम करुणाम् ईशः पुत्रदुःखाद् यथा पिता ॥

2.10.17

क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् ।
स्याद् इति क्षणम् एकाग्रश् चिन्तयाम् आस भूतपः ॥

2.10.18

इति सञ्चिन्त्य भगवान् ससर्ज पुनर् ईश्वरः ।
तपो धर्मं च दानं च सत्यं तीर्थानि चैव ह ॥

2.10.19

एतत् सृष्ट्वा पुनर् देवश् चिन्तयाम् आस भूतकृत् ।
पुंसां नानेन सर्वस्य दुःखस्यान्त इति स्वयम् ॥

2.10.20

निर्वाणं नाम परमं सुखं येन पुनर् जनः ।
न जायते न म्रियते तज् ज्ञानाद् एव लभ्यते ॥

2.10.21

संसारोत्तरणे जन्तोर् उपायो ज्ञानम् एव हि ।
तपो दानं तथा तीर्थम् अणूपायः प्रकीर्तितः ॥

2.10.22

तत् तावद् दुःखमोक्षार्थं जनस्यास्य महात्मनः ।
प्रत्यग्रं तरणोपायम् आशु प्रकटयाम्य् अहम् ॥

2.10.23

इति सञ्चिन्त्य भगवान् ब्रह्मा कमलसंस्थितः ।
मनसा परिसङ्कल्प्य माम् उत्पादितवान् इमम् ॥

2.10.24

कुतो ऽप्य् उत्पन्न एवाशु ततो ऽहं समुपस्थितः ।
पितुस् तस्य पुरश् शीघ्रम् ऊर्मेर् ऊर्मिर् इवानघ ॥

2.10.25

कमण्डलुधरो नाथस् सकमण्डलुना मया ।
साक्षमालस् साक्षमालं स प्रणम्याभिवादितः ॥

2.10.26

एहि पुत्रेति माम् उक्त्वा स स्वाब्जस्योत्तरे दले ।
शुक्ले ऽभ्र इव शीतांशुं योजयाम् आस पाणिना ॥

2.10.27

मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् ।
माम् उवाच पिता ब्रह्मा स हंसस् सारसं यथा ॥

2.10.28

मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् ।
अज्ञानम् अभ्याविशतु शशश् शशधरं यथा ॥

2.10.29

इति तेनाशु शप्तस् सन् विचारसमनन्तरम् ।
अहं विस्मृतवान् सर्वं स्वरूपम् अमलं द्विजः ॥

2.10.30

अथाहं दीनतां यातस् स्थितस् सम्बुद्धया धिया ।
दुःखशोकाभिसन्तप्तो जातो जन इवाधमः ॥

2.10.31

कष्टं संसारनामायं दोषः कथम् इवागतः ।
इति चिन्तितवान् अन्तस् तूष्णीम् एव व्यवस्थितः ॥

2.10.32

अथाभ्यधात् स मां तातः पुत्र किं दुःखवान् असि ।
दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥

2.10.33

ततः पृष्टस् स भगवान् मया सकललोककृत् ।
हैमपद्मदलस्थेन संसारव्याधिभेषजम् ॥

2.10.34

कथं नाम महद् दुःखम् अयं संसार आगतः ।
कथं च क्षीयते जन्तोर् इति पृष्टेन तेन मे ॥

2.10.35

तज् ज्ञानं सुबहु प्रोक्तं यज् ज्ञात्वा पावनं परम् ।
अहं पितुर् अपि प्रायः किलाधिक इव स्थितः ॥

2.10.36

ततो विदितवेद्यं मां निजप्रकृतिम् आस्थितम् ।
स उवाच जगत्कर्ता वक्ता सकलकारणम् ॥

2.10.37

शापेनाज्ञपदं नीत्वा पृच्छकस् त्वं मया कृतः ।
पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ॥

2.10.38

इदानीं शान्तशापस् त्वं परं बोधम् उपागतः ।
संस्थितो ऽहम् इवैकात्मा कनकं कनकाद् इव ॥

2.10.39

गच्छेदानीं महीपीठे जम्बुद्वीपान्तरस्थितम् ।
साधो भारतवर्षं त्वं लोकानुग्रहहेतुना ॥

2.10.40

तत्र क्रियाकाण्डपरास् त्वया पुत्र महाधियः ।
उपदेश्याः क्रियाकाण्डक्रमेण क्रमशालिनः ॥

2.10.41

विरक्तचित्ताश् च तथा महाप्रज्ञा विरागिणः ।
उपदेश्यास् त्वया साधो ज्ञानेनानन्ददायिना ॥

2.10.42

इति तेन नियुक्तो ऽहं पित्रा कमलयोनिना ।
इह राघव तिष्ठामि यावद् भूतपरम्परा ॥

2.10.43

कर्तव्यम् अस्ति मम नेह हि किञ्चिद् एव स्थातव्यम् इत्य् अभिमना भुवि संस्थितो ऽस्मि ।
संशान्तया सततसुप्तधियेव वृत्त्या कार्यं करोमि न च किञ्चिद् अहं करोमि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc