भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 2.9

2.9.1

भगवन् सर्वधर्मज्ञ प्रतिष्ठाम् अलम् आगतम् ।
यल् लोके तद् वद ब्रह्मन् दैवम् एवं किम् उच्यते ॥

2.9.2

पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् ।
फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥

2.9.3

दैवं न किञ्चित् कुरुते न च भुङ्क्ते न विद्यते ।
न दृश्यते नाद्रियते केवलं कल्पनेदृशी ॥

2.9.4

सिद्धस्य पौरुषेणेह फलस्य फलशालिनाम् ।
शुभाशुभा वा सम्पत्तिर् दैवशब्देन कथ्यते ॥

2.9.5

पौरुषोपनता नित्यम् इष्टानिष्टस्य वस्तुनः ।
प्राप्तिर् इष्टाप्य् अनिष्टा वा दैवशब्देन कथ्यते ॥

2.9.6

भावी त्व् अवश्यम् एवार्थः पुरुषार्थैकसाधनः ।
यस् सो ऽस्मिंल् लोकसङ्घाते दैवशब्देन कथ्यते ॥

2.9.7

न तु राघव लोकस्य कस्यचित् किञ्चिद् एव हि ।
दैवम् आकाशकल्पं हि करोति न करोति वा ॥

2.9.8

पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये ।
इदम् इत्थं स्थितिर् इति योक्तिस् तद् दैवम् उच्यते ॥

2.9.9

इत्थं ममाभवद् बुद्धिर् इत्थं मे निश्चयो ह्य् अभूत् ।
इति कर्मफलावाप्तिर् योक्तिस् तद् दैवम् उच्यते ॥

2.9.10

इष्टानिष्टफलावाप्ताव् एवम् इत्यर्थवाचकम् ।
आश्वासनामात्रवचो दैवम् इत्य् एव कथ्यते ॥

2.9.11

भगवन् सर्वधर्मज्ञ प्राग् यत् कर्मोपसञ्चितम् ।
तद् एतद् दैवम् इत्य् उक्तम् अपमृष्टं कथं त्वया ॥

2.9.12

साधु राघव जानासि शृणु वक्ष्यामि ते ऽखिलम् ।
दैवं नास्तीति ते येन स्थिरा बुद्धिर् भविष्यति ॥

2.9.13

या मग्ना वासना पूर्वं बभूव किल भूरिशः ।
सैवेयं कर्मभावेन नॄणां परिणतिं गता ॥

2.9.14

जन्तुर् यद्वासनो नाम तत्कर्मा भवति क्षणात् ।
अन्यकर्मान्यभावश् चेत्य् एतन् नैवोपपद्यते ॥

2.9.15

ग्रामगो ग्रामम् आप्नोति पत्तनार्थी च पत्तनम् ।
यो यो यद्वासनस् तत् तत् स स प्रयतते तथा ॥

2.9.16

यद् एव तीव्रसंवेगाद् इह कर्म कृतं पुरा ।
तद् एव दैवशब्देन पर्यायेण हि कथ्यते ॥

2.9.17

एवं दैवं स्वकर्माणि कर्म प्रौढा स्ववासना ।
वासना मनसो नान्या मनो हि पुरुषस् स्मृतः ॥

2.9.18

यद् दैवं तानि कर्माणि कर्म साधो मनो हि तत् ।
मनो हि पुरुषस् तस्माद् दैवं नास्तीति निश्चयः ॥

2.9.19

एकम् एव मनो जन्तोर् यथा प्रयतते हि यत् ।
नूनं तत् तद् अवाप्नोति स्वत एव न दैवतः ॥

2.9.20

मनश् चित्तं वासना च कर्म दैवं स्वनिश्चयः ।
राम पुंनिश्चयस्यैतास् सञ्ज्ञास् सद्भिर् उदाहृताः ॥

2.9.21

एवंनामा हि पुरुषो दृढभावनया यथा ।
नित्यं प्रयतते राम फलम् आप्नोत्य् अलं तथा ॥

2.9.22

एवं पुरुषकारेण सर्वम् एव रघूद्वह ।
प्राप्यते नेतरेणेह तस्मात् स शुभदो ऽस्तु ते ॥

2.9.23

प्राक्तनं वासनाजालं नियोजयति मां यथा ।
मुने तथैव तिष्ठामि कृपणः किं करोम्य् अहम् ॥

2.9.24

अत एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् ।
स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥

2.9.25

द्विविधो वासनाव्यूहश् शुभश् चैवाशुभश् च ते ।
प्राक्तनो विद्यते राम द्वयोर् एकतरो ऽथ वा ॥

2.9.26

वासनौघेन शुद्धेन तत्र चेद् अद्य नीयसे ।
तत् क्रमेण शुभेनैव पदं प्राप्नोषि शाश्वतम् ॥

2.9.27

अथ चेद् अशुभो भावस् त्वां योजयति सङ्कटे ।
प्राक्तनस् तद् असौ यत्नाज् जेतव्यो भवता बलात् ॥

2.9.28

प्राज्ञ चेतनमात्रं त्वं न देहस् त्वं जडात्मकः ।
तद् एव चेतस्य् अन्येन चेत् तत् त्वं क्वेव विद्यसे ॥

2.9.29

अन्यस् त्वां चेतयति चेत् तत् त्वय्य् असति को ऽपरः ।
कम् इमं चेतयेत् तस्माद् अनवस्था न वास्तवी ॥

2.9.30

शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥

2.9.31

अशुभेषु समाविष्टं शुभेष्व् एवावतारयेत् ।
स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥

2.9.32

अशुभाच् चलितं याति शुभं तस्माद् अपीतरत् ।
जन्तोश् चित्तं तु पशुवत् तस्मात् तत् पालयेत् सदा ॥

2.9.33

समतासान्त्वनेनाशु न द्रागिति शनैश् शनैः ।
पौरुषेण प्रयत्नेन पालयेच् चित्तबालकम् ॥

2.9.34

वासनौघस् त्वया पूर्वम् अभ्यासेन घनीकृतः ।
शुभो वाप्य् अशुभो राम शुभम् अद्य घनीकुरु ॥

2.9.35

प्रागभ्यासवशाद् याता यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वम् अरिमर्दन ॥

2.9.36

इदानीम् अपि ते याति घनतां वासनानघ ।
अभ्यासवशतस् तस्माच् छुभाभ्यासम् उपाहर ॥

2.9.37

पूर्वं चेद् घनतां याता नाभ्यासात् तव वासना ।
वर्धिष्यते तु नेदानीम् अपि तात सुखी भव ॥

2.9.38

सन्दिग्धायाम् अपि भृशं शुभम् एव समाहर ।
अस्यां तु वासनावृद्धौ शुभाद् दोषो न कश्चन ॥

2.9.39

यद् यद् अभ्यस्यते लोके तन्मयेनैव भूयते ।
इत्य् आकुमारं प्राज्ञेषु दृष्टं सन्देहवर्जितम् ॥

2.9.40

शुभवासनया युक्तस् तद् अत्र भव भूतये ।
परं पौरुषम् आश्रित्य विजित्येन्द्रियपञ्चकम् ॥

2.9.41

अव्युत्पन्नमना यावद् भवान् अज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस् तु निर्णीतं तावद् आचर ॥

2.9.42

ततः कषायपाकेन नूनं विज्ञातवस्तुना ।
शुभो ऽप्य् असौ त्वया त्याज्यो भावनौघो निराधिना ॥

2.9.43

यद् अतिसुभगम् आर्यसेवितं तच् छुभम् अनुसृत्य मनोज्ञभावबुद्ध्या ।
अधिगमय पदं सदा विशोकं तद् अनु तद् अप्य् अवमुच्य साधु तिष्ठ ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc