भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 2.11

2.11.1

एतत् ते कथितं सर्वं ज्ञानावतरणं भुवि ।
मया स्वम् ईहितं चैव कमलोद्भवकल्पितम् ॥

2.11.2

तद् इदं परमं ज्ञानं श्रोतुम् अद्य तवानघ ।
भृशम् उत्कण्ठितं चेतो महतस् सुकृतोदयात् ॥

2.11.3

कथं ब्रह्मन् भगवतो लोके ज्ञानावतारणे ।
सर्गाद् अनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥

2.11.4

परमे ब्रह्मणि ब्रह्मा स्वभाववशतस् स्वयम् ।
जातस् स्पन्दमयो नित्यम् ऊर्मिर् अम्बुनिधाव् इव ॥

2.11.5

सृष्ट्वैवम् आततं सर्गं सर्गस्य सकला गतीः ।
भूतभव्यभविष्यत्स्था ददर्श परमेश्वरः ॥

2.11.6

सत्क्रियाक्रमकालस्य कृतादेः क्षय आगते ।
मोहम् आलोक्य लोकानां कारुण्यम् अगमत् प्रभुः ॥

2.11.7

ततो माम् ईश्वरस् सृष्ट्वा ज्ञानेनायोज्य चासकृत् ।
विससर्ज महीपीठे लोकस्याज्ञानशान्तये ॥

2.11.8

यथाहं प्रहितस् तेन तथान्ये ऽपि महर्षयः ।
सनत्कुमारप्रमुखा नारदाद्याश् च भूरिशः ॥

2.11.9

क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।
मनोमहामयोत्तब्धम् उद्धर्तुं लोकम् ईरिताः ॥

2.11.10

महर्षिभिस् ततस् तैस् तु क्षीणे कृतयुगे पुरा ।
क्रमात् क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते ॥

2.11.11

क्रियाक्रमविधानार्थं मर्यादानियमाय च ।
पृथग्देशविभागेन भूपालाः परिकल्पिताः ॥

2.11.12

बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।
धर्मकामार्थसिद्ध्यर्थं कल्पितान्य् उदितान्य् अथ ॥

2.11.13

कालचक्रे वहत्य् अस्मिंस् ततो विगलिते क्रमे ।
प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ॥

2.11.14

द्वन्द्वानि सम्प्रवृत्तानि विषयार्थं महीभुजाम् ।
दण्ड्यतां सम्प्रयातानि भूतानि भुवि भूरिशः ॥

2.11.15

ततो युद्धं विना भूपा महीं पालयितुं क्रमात् ।
असमर्थास् तद् आयाताः प्रजाभिस् सह दीनताम् ॥

2.11.16

तेषां दैन्यापनोदार्थं सम्यक्सृष्टिक्रमाय च ।
ततो ऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ॥

2.11.17

अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता ।
तदनु प्रसृता लोके राजविद्येत्य् उदाहृता ॥

2.11.18

राजविद्या राजगुह्यम् अध्यात्मग्रन्थम् उत्तमम् ।
ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ॥

2.11.19

अथ राजस्व् अतीतेषु बहुष्व् अमलकीर्तिषु ।
अस्माद् दशरथाद् राम जातो ऽद्य त्वम् इहावनौ ॥

2.11.20

तव चातिप्रसन्ने ऽस्मिञ् जातं मनसि पावनम् ।
निर्निमित्तम् इदं चारु वैराग्यम् अरिमर्दन ॥

2.11.21

सर्वस्यैव हि भव्यस्य साधोर् अपि विवेकिनः ।
निमित्तपूर्वं वैराग्यं जायते राम राजसम् ॥

2.11.22

इदं त्व् अपूर्वम् उत्पन्नं चमत्कारकरं सताम् ।
तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ॥

2.11.23

बीभत्सं विषमं दृष्ट्वा को नाम न विरज्यते ।
सतां तूत्तमवैराग्यं विवेकाद् एव जायते ॥

2.11.24

ते महान्तो महाप्रज्ञा निमित्तेन विनैव हि ।
वैराग्यं जायते येषां त एवामलमानसाः ॥

2.11.25

स्वविवेकचमत्कारपरामर्शविरक्तया ।
राजते हि धिया जन्तुर् युवेव वनमालया ॥

2.11.26

परामृश्य विवेकेन संसाररचनाम् इमाम् ।
विरागं ये ऽधिगच्छन्ति त एव पुरुषोत्तमाः ॥

2.11.27

स्वविवेकवशाद् एव विचार्येदं पुनः पुनः ।
इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ॥

2.11.28

श्मशानम् आपदं दैन्यं दृष्ट्वा को न विरज्यते ।
तद् वैराग्यं परं श्रेयस् स्वतो यद् अभिजायते ॥

2.11.29

अकृत्रिमविरागस् त्वं महत्ताम् अलम् आगतः ।
योग्यो ऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् ॥

2.11.30

प्रसादात् परमेशस्य नाथस्य परमात्मनः ।
त्वादृशस्य शुभा बुद्धिर् विवेकम् अनुधावति ॥

2.11.31

क्रियाक्रमेण महता तपसा नियमेन च ।
दानेन तीर्थयात्राभिश् चिरकालविवेकतः ॥

2.11.32

दुष्कृते क्षयम् आपन्ने परमार्थविचारणे ।
काकतालीययोगेन बुद्धिर् जन्तोः प्रवर्तते ॥

2.11.33

क्रियापरास् तावद् अलं चक्रावृत्तिभिर् आदृताः ।
भ्रमन्तीह जना यावन् न पश्यन्ति परं पदम् ॥

2.11.34

यथाभूतम् इमं दृष्ट्वा संसारं तन्मयीं धियम् ।
परित्यज्य परं यान्ति निरालाना गजा इव ॥

2.11.35

विषमेयम् अनन्तेहा राम संसारसंसृतिः ।
देहमुक्ता महातन्तुर् विना ज्ञानं न नश्यति ॥

2.11.36

ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् ।
महाधियस् समुत्तीर्णा नेतरेण रघूद्वह ॥

2.11.37

ताम् इमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् ।
शृणुष्वावहितो बुद्ध्या नित्यावहितयानया ॥

2.11.38

यस्माद् अनन्तसंरम्भा जगतो दुःखरीतयः ।
चिरायान्तर् दहन्त्य् एता विना युक्तिम् अनिन्दित ॥

2.11.39

शीतवातातपादीनि द्वन्द्वदुःखानि राघव ।
ज्ञानयुक्तिं विना केन सह्यतां यान्ति साधुषु ॥

2.11.40

आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।
दुःखचिन्ता नरं मूढं तृणम् अग्निशिखा इव ॥

2.11.41

प्राज्ञं विज्ञातविज्ञानं सम्यग्दर्शिनम् आधयः ।
न दहन्ति वनं वर्षदब्दम् अग्निशिखा इव ॥

2.11.42

आधिव्याधिपरावर्ते संसारमरुमारुते ।
क्षुभिते ऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥

2.11.43

तत्त्वं ज्ञातुम् अतो यत्नाद् धीमान् एव हि धीमता ।
प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितं ॥

2.11.44

प्रामाणिकस्य पृष्टस्य वक्तुर् उत्तमचेतसा ।
यत्नेन वचनं ग्राह्यम् अंशुकेनेव कुङ्कुमम् ॥

2.11.45

अतत्त्वज्ञम् अनादेयवचनं वाग्विदां वर ।
यः पृच्छति नरं तस्मान् नास्ति मूढतरो ऽपरः ॥

2.11.46

प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।
नानुतिष्ठति यो वाक्यं नान्यस् तस्मान् नराधमः ॥

2.11.47

तज्ज्ञतातज्ज्ञते पूर्वं वक्तुर् निर्णीय कार्यतः ।
यः करोति नरः प्रश्नं पृच्छकस् स महामतिः ॥

2.11.48

अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।
अधमः पृच्छकस् स स्यान् न महार्थस्य भाजनम् ॥

2.11.49

पूर्वापरसमाधानक्षमबुद्धाव् अनिन्दिते ।
पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥

2.11.50

प्रामाणिकार्थयोग्यत्वं पृच्छकस्याविचार्य वा ।
यो वक्ति तम् इह प्राज्ञाः प्राहुर् मूढतमं नरम् ॥

2.11.51

त्वम् अतीव गुणाधारः पृच्छको रघुनन्दन ।
अहं च वक्तुं जानामि स च योगो ऽयम् आवयोः ॥

2.11.52

यद् अहं वच्मि तद् यत्नात् त्वया शब्दार्थकोविद ।
एतद् वस्त्व् इति निर्णीय हृदि कार्यम् अखण्डितं ॥

2.11.53

महान् असि विरक्तो ऽसि तज्ज्ञो ऽसि जनतास्थितौ ।
त्वयि वस्तु लगत्य् अन्तः कुङ्कुमाम्बु यथांशुके ॥

2.11.54

उक्तावधानपरमा परमार्थविवेचनी ।
विशत्य् अर्थं तव प्रज्ञा जलमध्यम् इवार्कभा ॥

2.11.55

यद् यद् वच्मि तवादेयं हृदि कार्यं प्रयत्नतः ।
न चेत् प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥

2.11.56

मनो हि चपलं राम संसारवनमर्कटम् ।
संरोध्य हृदि यत्नेन श्रोतव्या परमार्थधीः ॥

2.11.57

अविवेकिनम् अज्ञानम् असज्जनरतिं जनम् ।
चिरं दूरतरं कृत्वा पूजनीया हि साधवः ॥

2.11.58

नित्यं सज्जनसम्पर्काद् विवेक उपजायते ।
विवेकपादपस्यैते भोगमोक्षौ फले स्मृते ॥

2.11.59

मोक्षद्वारे द्वारपालाश् चत्वारः परिकीर्तिताः ।
शमो विचारस् सन्तोषश् चतुर्थस् साधुसङ्गमः ॥

2.11.60

एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयो ऽथ वा ।
द्वारम् उद्घाटयन्त्य् एते मोक्षराजगृहे बलात् ॥

2.11.61

एकं वा सर्वयत्नेन प्राणांस् त्यक्त्वा समाश्रयेत् ।
एतस्मिन् वशगे यान्ति चत्वारो ऽपि वशं यतः ॥

2.11.62

सविवेको हि शास्त्रस्य ज्ञानस्य तपसो द्युतेः ।
भाजनं भूषणाकारो भास्करस् तेजसाम् इव ॥

2.11.63

घनताम् उपयातं हि प्रज्ञामान्द्यम् अचेतसाम् ।
याति स्थावरताम् अम्बु जाड्यात् पाषाणताम् इव ॥

2.11.64

त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।
विकासितान्तःकरणस् स्थितः पद्म इवोदये ॥

2.11.65

इमां ज्ञानदृशं श्रोतुम् अवबोद्धुं च सन्मते ।
अर्हस्य् उद्धृतकर्णस् तु जन्तुर् वीणाध्वनिं यथा ॥

2.11.66

वैराग्याभ्यासयोगेन समसौजन्यसम्पदा ।
तत् पदं प्राप्यते राम यत्र नाशो न विद्यते ॥

2.11.67

शास्त्रैस् सुजनसम्पर्कपूर्वकैस् सुतपोदमैः ।
आदौ संसारमुक्त्यर्थं प्रज्ञाम् एवाभिवर्धयेत् ॥

2.11.68

संसारविषवृक्षोग्रसेकम् आस्पदम् आपदाम् ।
अञ्जनं मोहयामिन्या मौर्ख्यं यत्नेन नाशयेत् ॥

2.11.69

एतद् एव च मौर्ख्यस्य परमं विद्धि नाशनम् ।
यद् इदं प्रेक्ष्यते शास्त्रं किञ्चित्संस्कृतया धिया ॥

2.11.70

दुराशासर्पगर्तेन मौर्ख्येण हृदि वल्गता ।
चेतस् सञ्कोचम् आयाति चर्माग्नाव् इव योजितम् ॥

2.11.71

प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।
दृग् इवेन्दौ निरम्भोदसकलामलमण्डले ॥

2.11.72

पूर्वापरविचारार्थचारुचातुर्यशालिनी ।
सविकासा मतिर् यस्य स पुमान् इति कथ्यते ॥

2.11.73

विकसितेन सितेन मनोमुषा वरविचारणशीतलरोचिषा ।
गुणवता हृदयेन विराजसे त्वम् अमलेन नभश् शशिना यथा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc