भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.9

1.9.1

तथा वसिष्ठे ब्रुवति राजा दशरथस् सुतम् ।
समुत्स्रष्टुमना रामम् आजुहाव सलक्ष्मणम् ॥

1.9.2

प्रतीहार महाबाहुं रामं सत्यपराक्रमम् ।
सलक्ष्मणम् अविघ्नेन मुन्यर्थं शीघ्रम् आनय ॥

1.9.3

इति राज्ञा विसृष्टो ऽसौ गत्वान्तःपुरमन्दिरम् ।
मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥

1.9.4

देव दोर्दलिताशेषरिपो रामस् स्वमन्दिरे ।
विमनास् संस्थितो रात्रौ षट्पदः कमले यथा ॥

1.9.5

आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः ।
न कस्यचित् स निकटे स्थातुम् इच्छति खिन्नधीः ॥

1.9.6

इत्य् उक्ते तेन भूपालस् तं रामानुचरं जनम् ।
सर्वम् आश्वासयाम् आस पप्रच्छ च यथाक्रमम् ॥

1.9.7

कथं कीदृक् स्थितो राम इति पृष्टो महीभृता ।
रामभृत्यजनः खिन्नो वाक्यम् आह महीपतिम् ॥

1.9.8

देहयष्टिम् इमां देव धारयन्त इमे वयम् ।
खिन्नाः खेदपरिम्लाने विभो रामे सुते तव ॥

1.9.9

रामो राजीवपत्त्राक्षो यतः प्रभृति चागतः ।
सविप्रस् तीर्थयात्रायास् ततः प्रभृति दुर्मनाः ॥

1.9.10

यत्नप्रार्थनयास्माकं निजव्यापारम् आह्निकम् ।
सायम् अम्लानवदनः करोति न करोति वा ॥

1.9.11

स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् ।
प्रार्थितो ऽपि हि ना तृप्तेर् अश्नात्य् अशनम् ईश्वरः ॥

1.9.12

लोलान्तःपुरनारीभिः कृतदोलाभिर् अङ्गने ।
न च क्रीडति लीलाभिर् धराद्भिर् इव चातकः ॥

1.9.13

माणिक्यमुक्तासम्प्रोता केयूरकटकावली ।
नानन्दयति तं राजन् द्यौः पातविवशं यथा ॥

1.9.14

क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु ।
लतावलयगेहेषु भवत्य् अतिविषादवान् ॥

1.9.15

यद् रम्यम् उचितं स्वादु पेशलं चित्तहारि वा ।
बाष्पपूरेक्षण इव तेनैव परिखिद्यते ॥

1.9.16

किम् इमा दुःखदायिन्यः प्रस्फुरन्ति पुरोगताः ।
इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥

1.9.17

भोजनं शयनं स्नानं विलासं पानम् आसनम् ।
उन्मत्तचेष्टितम् इव नाभिनन्दति निन्दितम् ॥

1.9.18

किं सम्पदा किं विपदा किं गेहेन किम् ईहितैः ।
सर्वम् एवासद् इत्य् उक्त्वा तूष्णीम् एको ऽवतिष्ठते ॥

1.9.19

नोदेति परिहासेषु न भोगेषु निमज्जति ।
न च तिष्ठति कार्येषु मौनम् एवावलम्बते ॥

1.9.20

विलोलालकवल्लर्यो हेलावलितलोचनाः ।
नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥

1.9.21

एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।
रतिम् आयात्य् अरण्येषु विक्रीतवद् अजन्तुषु ॥

1.9.22

वस्त्रपानाशनादानपराङ्मुखतया तया ।
परिव्राड्धर्मिणां राजन् सो ऽनुयाति तपस्विनाम् ॥

1.9.23

एक एव वसन् देशे जनशून्ये जनेश्वर ।
न हसत्य् एकया बुद्ध्या न गायति न रोदिति ॥

1.9.24

बद्धपद्मासनश् शून्यमना वामकरस्थले ।
कपोलतलम् आदाय केवलं परितिष्ठति ॥

1.9.25

नाभिमानम् उपादत्ते नाभिवाञ्छति राजताम् ।
नोदेति नास्तम् आयाति सुखदुःखानुवृत्तिषु ॥

1.9.26

न विद्मः किम् असौ जातः किं करोति किम् ईहते ।
किं ध्यायति किम् आयाति कथं किम् अनुधावति ॥

1.9.27

प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् ।
विरागं प्रत्यहं याति शरदन्त इव द्रुमः ॥

1.9.28

अनुयातौ तम् एवैतौ राजञ् शत्रुघ्नलक्ष्मणौ ।
तादृशाव् एव तस्यैव प्रतिबिम्बाव् इवोत्थितौ ॥

1.9.29

भृत्यै राजभिर् अम्बाभिस् स पृष्टो ऽपि पुनः पुनः ।
उक्त्वा न किञ्चिद् एवेति तूष्णीम् आस्ते निरीहितः ॥

1.9.30

आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।
इति पार्श्वगतं भव्यम् अनुशास्ति सुहृज्जनम् ॥

1.9.31

नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च ।
पुरस्स्थितम् इवास्नेहो नाशम् एवानुपश्यति ॥

1.9.32

रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः ।
चेष्टितैर् एव काकल्या भूयो भूयः प्रगायति ॥

1.9.33

सम्राड् भवेति पार्श्वस्थं वदन्तम् अनुजीविनम् ।
प्रलपन्तम् इवोन्मत्तं हसत्य् अन्यमना मुनिः ॥

1.9.34

न प्रोक्तम् आकर्णयति प्रेक्षते न पुरोगतम् ।
करोत्य् अवज्ञां सर्वत्र सुमहत्य् अपि वस्तुनि ॥

1.9.35

अप्य् आकाशसरोजिन्याम् अप्य् आकाशमहावने ।
इत्थम् एतत् कथम् इति विस्मयो ऽस्य न जायते ॥

1.9.36

कान्तामध्यगतस्यापि मनो ऽस्य मदनेषवः ।
न भेदयन्ति दुर्भेदं धारा इव महोपलम् ॥

1.9.37

आपदाम् एकम् आवासम् अभिवाञ्छसि किं धनम् ।
अनुशास्येति सर्वस्वम् अर्थिने स प्रयच्छति ॥

1.9.38

इयम् आपद् इयं सम्पद् इत्य् अयं कल्पनामयः ।
मनस्य् अभ्युदितो मोह इति शोकात् प्रगायति ॥

1.9.39

हा हतो ऽहम् अनाथो ऽहम् इत्य् आक्रन्दपरो ऽपि सन् ।
न जनो याति वैराग्यं चित्रम् इत्य् एव वक्त्य् असौ ॥

1.9.40

रघुकाननसालेन रामेण रिपुघातिना ।
भृशम् इत्थं स्थितेनैव वयं खेदम् उपागताः ॥

1.9.41

न विद्मः किं महाबाहो तस्य तादृशचेतसः ।
कुर्मः कमलपत्त्राक्ष गतिर् अत्र हि नो भवान् ॥

1.9.42

राजानम् अथ वा विप्रम् उपदेष्टारम् अग्रगम् ।
हसन् पशुम् इवाव्यग्रस् सो ऽवधीरयति प्रभो ॥

1.9.43

प्रपञ्चो ऽयम् इह स्फारं जगन्नाम यद् उत्थितम् ।
नैतद् वस्तु न चैवाहम् इति निर्णीय संस्थितः ॥

1.9.44

नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।
न सम्पदापदोर् नान्तस् तस्यास्था न विभोर् बहिः ॥

1.9.45

निरस्तास्थो निराशो ऽसौ निरीहो ऽसौ निरास्पदः ।
मोहेन च विमुक्तो ऽसौ तेन तप्यामहे वयम् ॥

1.9.46

किं धनेन किम् अम्बाभिः किं राज्येन किम् ईहया ।
इति निश्चयवान् अन्तः प्राणत्यागमनास् स्थितः ॥

1.9.47

भोगेष्व् आयुषि राज्ये च मित्रे पितरि मातरि ।
परम् उद्वेगम् आयातश् चातको ऽवग्रहे यथा ॥

1.9.48

तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।
संसारजालम् आभोगि प्रभो प्रतिविषायते ॥

1.9.49

तादृशस् स्यान् महासत्त्वः क इवास्मिन् महीतले ।
प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥

1.9.50

इति नो येयम् आयाता शाखाप्रसरशालिनी ।
आपत् ताम् अलम् उद्धर्तुं समुदेतु दयापरः ॥

1.9.51

मनसि मोहम् अपास्य महामनास् सकलम् आर्तिमतः किल साधुताम् ।
सफलतां नयतीह तमोहरन् दिनकरो भुवि भास्करताम् इव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc