मोक्षोपाय · अध्याय 1.10
एवं चेत् तन् महाप्राज्ञं भवन्तो रघुनन्दनम् ।
इहानयन्तु त्वरितं हरिणं हरिणा इव ॥
एष मोहो रघुपतेर् नापद्भ्यो न च रागतः ।
विवेकवैराग्यकृतो बोध एष महोदयः ॥
इहायातु क्षणाद् रामस् तद् इहैव वयं क्षणात् ।
मोहं तस्यापनेष्यामो मरुतो ऽद्रेर् घनं यथा ॥
एतस्मिन् मार्जिते युक्त्या मोहे च रघुनन्दनः ।
विश्रान्तिम् एष्यति पदे तस्मिन् वयम् इवोत्तमे ॥
सत्यतां मुदितां प्रज्ञां विश्रान्तिं च समेत्य सः ।
पीनतां वरवर्णत्वं पीतामृत इवैष्यति ॥
निजां च प्रकृताम् एव व्यवहारपरम्पराम् ।
परिपूर्णमना मान्य आचरिष्यत्य् अखण्डिताम् ॥
भविष्यति महासत्त्वो ज्ञातलोकपरावरः ।
सुखदुःखदशाहीनस् समलोष्टाश्मकाञ्चनः ॥
इत्य् उक्ते मुनिनाथेन राजा सम्पूर्णमानसः ।
प्राहिणोद् रामम् आनेतुं भूयो दूतपरम्पराम् ॥
एतावता च कालेन रामो निजगृहासनात् ।
पितुस् सकाशम् आगन्तुम् उत्थितो ऽर्क इवाचलात् ॥
वृतः कतिपयैर् भृत्यैर् भ्रातृभ्यां चाजगाम ह ।
तत् पुण्यं पितुर् आस्थानं स्वर्गं सुरपतेर् इव ॥
दूराद् एव ददर्शासौ रामो दशरथं तदा ।
वृतं राजसमूहेन देवौघेनेव वासवम् ॥
वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर् द्वयोः ।
सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन पालितम् ॥
चारुचामरहस्ताभिः कान्ताभिस् समुपासितम् ।
ककुब्भिर् इव मूर्ताभिस् संस्थिताभिर् यथोचितम् ॥
वसिष्ठविश्वामित्राद्यास् तथा दशरथादयः ।
ददृशू राघवं दूराद् उपायान्तं गुहोपमम् ॥
सत्त्वावष्टम्भगर्वेण शैत्येनेव हिमालयम् ।
श्रितं सकलसेव्येन गम्भीरेण स्वरेण च ॥
सौम्यं समशुभाकारं विनयोदारम् ऊर्जितम् ।
कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ॥
समुद्यद्यौवनारम्भम् उद्योगशमशोभितम् ।
अनुद्विग्नम् अनायासं पूर्णप्रायमनोरथम् ॥
विचारितजगद्यात्रं पवित्रगुणगोचरम् ।
महासत्त्वैकलोभेन गुणैर् इव समाश्रितम् ॥
उदारसारम् आपूर्णम् अन्तःकरणकोटरम् ।
अविक्षुभितया वृत्त्या दर्शयन्तम् अनुत्तमम् ॥
एवं गुणगणाकीर्णो दूराद् एव रघूद्वहः ।
परिमेयसिताच्छाच्छस्वहाराम्बरपल्लवः ॥
प्रणनाम चलच्चारुचूडामणिमरीचिना ।
शिरसा वसुधाकम्पलोलमानाचलश्रिया ॥
प्रथमं पितरं पश्चान् मुनीन् मान्यैकम् आनतः ।
ततो विप्रांस् ततो बन्धूंस् ततो ऽधिकगुणान् गुरून् ॥
जग्राह चात्मना दृष्ट्वा मनाक् स्वादुगिरा तथा ।
राजलोकेन विहितां स प्रणामपरम्पराम् ॥
विहिताशीर् मुनिभ्यां तु रामस् स शममानसः ।
आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥
पादाभिवन्दनरतं तम् अथासौ महीपतिः ।
शिरस्य् अभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥
शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा ।
आलिलिङ्ग घनस्नेहं राजहंसो ऽम्बुजं यथा ॥
उत्सङ्गे वत्स तिष्ठेति वदत्य् अथ महीपतौ ।
भूमौ परिजनास्तीर्णे सो ऽंशुके ऽथ न्यविक्षत ॥
पुत्र प्राप्तविवेकस् त्वं कल्याणानां च भाजनम् ।
जनवज् जीर्णया बुद्ध्या खेदायात्मा न दीयते ॥
वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता ।
पदम् आसाद्यते पुण्यं न मोहम् अनुधावता ॥
तावद् एवापदो दूरे तिष्ठन्ति परिपेलवाः ।
यावद् एव न मोहस्य प्रसरः पुत्र दीयते ॥
राजपुत्र महाबाहो शूरस् त्वं विजितास् त्वया ।
दुरुच्छेदा दुरारम्भा अप्य् अमी विषयारयः ॥
किम् अतज्ज्ञ इवाज्ञानां योग्ये वा मोहसागरे ।
विनिमज्जसि कल्लोलगहने जाड्यशालिनि ॥
चलन्नीलोत्पलव्यूहसमलोचन लोलताम् ।
ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि ॥
किंनिष्ठाः कियता केन कियन्तः कारणेन ते ।
आधयो नु विलुम्पन्ति मनो गेहम् इवाखवः ॥
मन्ये नानुचितानां त्वम् आधीनां पदम् उत्तमः ।
आपत्सु चाप्तो यो धीरो निर्जितास् तेन चाधयः ॥
यथाभिमतम् आशु त्वं ब्रूहि प्राप्स्यसि चानघम् ।
सर्वम् एव पुनर् येन तव भेत्स्यन्ति नाधयः ॥
इत्य् उत्तमस्य स मुने रघुवंशकेतुर् आकर्ण्य वाक्यम् उचितार्थविलासगर्भम् ।
तत्याज खेदम् अभिगर्जति वारिवाहे बर्ही यथाभ्यनुमिताभिमतार्थसिद्धिः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0