भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.8

1.8.1

तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥

1.8.2

करिष्यामीति संश्रुत्य प्रतिज्ञां हातुम् इच्छसि ।
सत्त्ववान् केसरी भूत्वा मृगताम् अभिवाञ्छसि ॥

1.8.3

राघवानाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः ।
न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः ॥

1.8.4

यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः ।
हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥

1.8.5

तस्मिन् कोपपरीते ऽथ विश्वामित्रे महात्मनि ।
चचाल वसुधा कृत्स्ना सुराश् च भयम् आविशन् ॥

1.8.6

क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् ।
धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यम् अब्रवीत् ॥

1.8.7

इक्ष्वाकूणां कुले जातस् साक्षाद् धर्म इवापरः ।
भवान् दशरथश् श्रीमांस् त्रैलोक्ये गुणभूषितः ॥

1.8.8

नीतिमान् सुव्रतो भूत्वा न धर्मं हातुम् अर्हसि ।
मुनेस् त्रिभुवनेशस्य वचनं कर्तुम् अर्हसि ॥

1.8.9

त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ।
स्वधर्मं प्रतिपद्यस्व न धर्मं हातुम् अर्हसि ॥

1.8.10

करिष्यामीति संश्रुत्य तत् ते राजन्न् अकुर्वतः ।
इष्टापूर्तः पतेद् धर्मस् तस्माद् रामं विसर्जय ॥

1.8.11

गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा ।
कृतास्त्रम् अकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः ॥

1.8.12

इक्ष्वाकुवंशजातो ऽपि स्वयं दशरथो ऽपि सन् ।
न पालयसि चेद् वाक्यं को ऽपरः पालयिष्यति ॥

1.8.13

युष्मदादिप्रणीतेन व्यवहारेण जन्तवः ।
मर्यादां न विमुञ्चन्ति तां न हातुम् इहार्हसि ॥

1.8.14

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष बुद्ध्याधिको लोके तपसां च परायणः ॥

1.8.15

एषो ऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।
नैतद् अन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन ॥

1.8.16

न च देवर्षयः केचिन् नामरा न च राक्षसाः ।
न नागयक्षगन्धर्वा अनेन सदृशा नृप ॥

1.8.17

अस्त्रम् अस्मै भृशाश्वेन परैः परमदुर्जयम् ।
कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात् ॥

1.8.18

ते हि पुत्राः भृशाश्वस्य प्रजापतिसुतोपमाः ।
एनम् अन्वचरन् वीरा दीप्तिमन्तो महौजसः ॥

1.8.19

जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे ।
तयोस् तु यान्य् अपत्यानि शतं परमदुर्जयम् ॥

1.8.20

पञ्चाशतस् सुताञ् जज्ञे जया लब्धवरा पुरा ।
वधायासुरसैन्यानां ते ऽक्षयाः कामरूपिणः ॥

1.8.21

सुप्रभा जनयाम् आस पुत्रान् पञ्चाशतः परान् ।
सङ्घर्षान् नाम दुर्धर्षान् दुराक्रोशान् बलीयसः ॥

1.8.22

एवंवीर्यो महातेजा विश्वामित्रो महामुनिः ।
न रामगमने बुद्धिं विक्लवां कर्तुम् अर्हसि ॥

1.8.23

अस्मिन् महासत्त्वमये मुनीन्द्रे स्थिते समीपे पुरुषस् तु साधुः ।
प्राप्ते ऽपि मृत्याव् अमरत्वम् एति मा दीनतां गच्छ यथा विमूढः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc