मोक्षोपाय · अध्याय 1.5
इत्य् उक्ते मुनिनाथेन सन्देहवति पार्थिवे ।
खेदवत्य् आस्थिते मौनं कञ्चित् कालं प्रतीक्षिणि ॥
परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु ।
स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥
एतस्मिन्न् एव काले तु विश्वामित्र इति श्रुतः ।
महर्षिर् आगमद् द्रष्टुं तम् अयोध्यां नराधिपम् ॥
तस्य यज्ञो ऽथ रक्षोभिस् तदा विलुलुपे किल ।
मायावीर्यबलोन्मत्तैर् धर्मकामस्य धीमतः ॥
रक्षार्थं तस्य यज्ञस्य द्रष्टुम् ऐच्छत् स पार्थिवम् ।
न हि शक्तो ह्य् अविघ्नेन तम् आप्तुं स मुनिः क्रतुम् ॥
ततस् तेषां विनाशार्थम् उद्यतस् तपसां निधिः ।
विश्वामित्रो महातेजा अयोध्याम् अभ्ययात् पुरीम् ॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह ।
शीघ्रम् आख्यात मां प्राप्तं कौशिकं गाधिनस् सुतम् ॥
तस्य तद् वचनं श्रुत्वा द्वास्स्था राजगृहं ययुः ।
सम्भ्रान्तमनसस् सर्वे तेन वाक्येन चोदिताः ॥
ते गत्वा राजभवनं विश्वामित्रम् ऋषिं ततः ।
प्राप्तम् आवेदयाम् आसुः प्रतीहारपतिं तदा ॥
अथास्थानगतं भूपं राजमण्डलमालितम् ।
समुपेत्य त्वरायुक्तो याष्टीको ऽसौ व्यजिज्ञपत् ॥
देव द्वारि महातेजा बालभास्करभास्वरः ।
ज्वालारुणजटाजूटः पुमाञ् श्रीमान् अवस्थितः ॥
सचामरपताकाढ्यं साश्वेभपुरुषायुधम् ।
कृतवांस् तं प्रदेशं यस् तेजोभिः कीर्णकाञ्चनम् ॥
वक्त्य् अस्मान् आशु याष्टीका निवेदयत राजनि ।
विश्वामित्रो मुनिः प्राप्त इत्य् अनुद्धतया गिरा ॥
इति याष्टीकवचनम् आकर्ण्य नृपसत्तमः ।
स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात् ॥
पदातिर् एव महतां राज्ञां वृन्देन पालितः ।
वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥
जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।
ददर्श मुनिशार्दूलं द्वारभूमाव् अधिष्ठितम् ॥
केनापि कारणेनोर्वीतलम् अर्कम् इवागतम् ।
ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥
जराजरढया नित्यं तपःप्रसररूक्षया ।
जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रम् इवाचलम् ॥
उपशान्तं च कान्तं च दीप्तम् अप्रतिघं तथा ।
निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।
गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम् ॥
अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् ।
धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम् ॥
करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः ।
ईक्षणैर् अमृतेनेव संसिञ्चन्तम् इमाः प्रजाः ॥
सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् ।
आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः ॥
मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः ।
प्रणनाम गलन्मौलिमणिमालितभूतलम् ॥
मुनिर् अप्य् अवनेर् ईशं भास्वान् इव शतक्रतुम् ।
तत्राभिवादयां चक्रे मधुरोदारया गिरा ॥
ततो वसिष्ठप्रमुखास् सर्व एव द्विजातयः ।
स्वागतादिक्रमेणैनं पूजयाम् आसुर् आदृताः ॥
अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।
साधो स्वनुगृहीतास् स्मो रविणेवाम्बुजाकराः ॥
यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् ।
तद् आनन्दसुखं प्राप्ता अद्य त्वद्दर्शनान् मुने ॥
अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः ।
भवदागमनस्येमे यद् वयं लक्ष्यतां गताः ॥
एवं प्रकथयन्तो ऽत्र राजानो ऽथ महर्षयः ।
आसनेषु सभास्थानम् आस्थाय समुपाविशन् ॥
स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस् तम् ऋषिम् आगतम् ।
प्रहृष्टवदनो राजा स्वयम् अर्घ्यं न्यवेदयत् ॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।
प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥
स राज्ञा पूजितस् तेन प्रहृष्टवदनस् तदा ।
कुशलं चाप्ययं चैव पर्यपृच्छन् नराधिपम् ॥
वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः ।
यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥
क्षणं यथार्हम् अन्योऽन्यं पूजयित्वा समेत्य च ।
ते सर्वे हृष्टमनसो महाराजनिवेशने ॥
यथोचितासनगता मिथस् संवृद्धतेजसः ।
परस्परेण पप्रच्छुस् सर्वे ऽनामयम् आदरात् ॥
उपविष्टाय तस्मै स विश्वामित्राय धीमते ।
पाद्यम् अर्घ्यं च गाश् चैव भूयो भूयो न्यवेदयत् ॥
अर्चयित्वा च विधिवद् विश्वामित्रम् अभाषत ।
प्राञ्जलिः प्रयतो वाक्यम् इदं प्रीतमना नृपः ॥
यथामृतस्य सम्प्राप्तिर् यथा वर्षम् अवर्षके ।
यथान्धस्येक्षणप्राप्तिर् भवदागमनं तथा ॥
यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः ।
स्वप्नदृष्टार्थलाभश् च भवदागमनं तथा ॥
यथेप्सितेन संयोग इष्टस्यागमनं यथा ।
प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥
यथा हर्षो नभोगत्या मृतस्य पुनर् आगमात् ।
तथा त्वदागमाद् ब्रह्मन् स्वागतं ते महामुने ॥
ब्रह्मलोकनिवासो हि कस्य न प्रीतिम् आवहेत् ।
मुने तवागमस् तद्वत् सत्यम् एव ब्रवीमि ते ॥
कश् च ते परमः कामः किं च ते करवाण्य् अहम् ।
पात्रभूतो ऽसि मे विप्र प्राप्तः परमधार्मिकः ॥
पूज्यो राजर्षिशब्देन तपसा द्योतितप्रजः ।
ब्रह्मर्षित्वम् अनु प्राप्तः पूज्यो ऽसि भगवन् मम ॥
गङ्गाजलाभिषेकेण यथा प्रीतिर् भवेन् मम ।
तथा त्वद्दर्शनात् प्रीतिर् अन्तश् शीतयतीव माम् ॥
विगतेच्छाभयक्रोधो वीतरागो निरामयः ।
इदम् अत्यद्भुतं ब्रह्मन् यद् भवान् माम् उपागतः ॥
शुभक्षेत्रगतं चाहम् आत्मानम् अपकल्मषम् ।
चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर ॥
साक्षाद् इव ब्रह्मणो मे तवाभ्यागमनं मतम् ।
पूतो ऽस्म्य् अनुगृहीतो ऽस्मि तवाभ्यागमनान् मुने ॥
त्वदागमनपुण्येन साधो यद् अनुरञ्जितम् ।
अद्य मे सफलं जन्म जीवितं तत् सुजीवितम् ॥
त्वाम् इहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।
आत्मन्य् एव नमाम्य् अन्तर् दृष्टेन्दुर् जलधिर् यथा ॥
यत् कार्यं येन चार्थेन प्राप्तो ऽसि मुनिपुङ्गव ।
कृतम् इत्य् एव तद् विद्धि मान्यो ऽसि हि भृशं मम ॥
स्वकार्येण विमर्शं त्वं कर्तुम् अर्हसि कौशिक ।
भगवन् नास्त्य् अदेयं हि त्वयि यत् प्रतिपद्यते ॥
कार्यस्य च विचारं त्वं कर्तुम् अर्हसि धर्मतः ।
कर्ता चाहम् अशेषं ते दैवतं परमं भवान् ॥
इदम् अतिमधुरं निशम्य वाक्यं श्रुतिसुखम् अर्थविदा विनीतम् उक्तम् ।
प्रथितगुणवशाद् गुणैर् विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0