मोक्षोपाय · अध्याय 1.6
तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत ॥
सदृशं राजशार्दूल तवैवैतन् महीतले ।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥
यत् तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।
कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥
अहं नियमम् आतिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥
यदा यदा तु यज्ञेन यजे ऽहं विबुधव्रजम् ।
तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः ॥
बहुशो विहिते तस्मिन् मम राक्षसनायकाः ।
अकिरंस् ते महीं यागे मांसेन रुधिरेण च ॥
अवधूते तथाभूते तस्मिन् यागकदम्बके ।
कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपागमम् ॥
न च मे क्रोधम् उत्स्रष्टुं बुद्धिर् भवति पार्थिव ।
तथाभूतं हि तत् कर्म न शापस् तस्य विद्यते ॥
ईदृशी च क्षमा राजन् मम तस्मिन् महाक्रतौ ।
त्वत्प्रसादाद् अविघ्नेन प्रापयेयं महाफलम् ॥
त्रातुम् अर्हसि माम् आर्तं शरणार्थिनम् आगतम् ।
अर्थिनां यन् निराशत्वं सताम् अभिभवो हि सः ॥
तवास्ति तनयश् श्रीमान् दृप्तशार्दूलविक्रमः ।
महेन्द्रसदृशो वीरो रामो रक्षोविदारणः ॥
तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठं मे दातुम् अर्हसि ॥
शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा ये ऽपकर्तारस् तेषां मूर्धविनिग्रहे ॥
श्रेयश् चास्मै करिष्यामि बहुरूपम् अनन्तकम् ।
त्रयाणाम् अपि लोकानां येन पूज्यो भविष्यति ॥
न च तेन समासाद्य स्थातुं शक्ता निशाचराः ।
क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः ॥
तेषां नान्यश् च काकुत्स्थाद् योद्धुम् उत्सहते पुमान् ।
ऋते केसरिणः क्रुद्धान् मत्तानां करिणाम् इव ॥
वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
खरदूषणयोर् भृत्याः कृतान्ताः कुपिता इव ॥
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
अनारतागता धारा जलदस्येव पांसवः ॥
न च पुत्रगतं स्नेहं कर्तुम् अर्हसि पार्थिव ।
न तद् अस्ति जगत्य् अस्मिन् यन् न देयं महात्मनः ॥
हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् ।
न ह्य् अस्मदादयः प्राज्ञास् सन्दिग्धे सम्प्रवृत्तयः ॥
अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।
वसिष्ठश् च महातेजा ये चान्ये दीर्घदर्शिनः ॥
यदि धर्मो महत्त्वं च यशस् ते मनसि स्थितम् ।
तन् मह्यं स्वम् अभिप्रेतम् आत्मजं दातुम् अर्हसि ॥
दशरात्रश् च मे यज्ञो यस्मिन् रामेण राक्षसाः ।
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥
अत्राभ्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।
वसिष्ठप्रमुखास् सर्वे तेन रामं विसर्जय ॥
नात्येति कालः कालज्ञ यथायं मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥
कार्यम् अण्व् अपि काले तु कृतम् एत्य् उपकारताम् ।
महद् अप्य् उपकारेण रिक्तताम् एत्य् अकालतः ॥
इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥
श्रुत्वा वचो मुनिवरस्य महाप्रभावस् तूष्णीम् अतिष्ठद् उपपन्नम् इदं स वक्तुम् ।
नो युक्तियुक्तकथनेन विनैति तोषं धीमान् अपूरितमनोऽभिमतश् च लोकः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0