मोक्षोपाय · अध्याय 1.4
अथोनषोडशे वर्षे वर्तमाने रघूद्वहे ।
रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणे ऽपि च ॥
भरते संस्थिते नित्यं मातामहगृहे सुखम् ।
पालयत्य् अवनिं राज्ञि यथावद् अखिलाम् इमाम् ॥
जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः ।
कृतमन्त्रे महाप्रज्ञे तज्ज्ञे दशरथे नृपे ॥
कृतायां तीर्थयात्रायां रामो निजगृहस्थितः ।
जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥
क्रमाद् अस्य विशालाक्षं पाण्डुतां मुखम् आदधे ।
पाकफुल्लदलं शुक्लं सालिमालम् इवाम्बुजम् ॥
कपोलतलसंलीनपाणिः पद्मासनस्थितः ।
चिन्तापरवशस् तूष्णीम् अव्यापारो बभूव सः ॥
कृशाङ्गश् चिन्तया युक्तः खेदी परमदुर्मनाः ।
नोवाच कस्यचित् किञ्चिल् लिपिकर्मार्पितोपमः ॥
खेदात् परिजनेनासौ प्रार्थ्यमानः पुनः पुनः ।
चकाराह्निकम् आचारं परिम्लानमुखाम्बुजः ॥
एवं मुनिविशिष्टं तं रामं गुणगणाकरम् ।
आलोक्य भ्रातराव् अस्य ताम् एवाययतुर् दशाम् ॥
तथा तेषु तनूजेषु खेदवत्सु कृशेषु च ।
सपत्नीको महीपालश् चिन्ताविवशतां ययौ ॥
का ते पुत्र घना चिन्तेत्य् एवं रामं पुनः पुनः ।
अपृच्छत् स्निग्धया वाचा न चाकथयद् अस्य सः ॥
न किञ्चित् तात मे दुःखम् इत्य् उक्त्वा पितुर् अङ्कगः ।
रामो राजीवपत्राक्षस् तूष्णीम् एव स्म तिष्ठति ॥
ततो दशरथो राजा रामः किं खेदवान् इति ।
अपृच्छत् सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥
अस्त्य् अत्र कारणं श्रीमन् मा राजन् दुःखम् अस्तु ते ।
इत्य् उक्तश् चिन्तया युक्तो वसिष्ठमुनिना नृपः ॥
कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति सन्तः ।
सर्गेण संहतिजवेन विना जगत्यां भूतानि भूप न महान्ति विकारयन्ति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0