मोक्षोपाय · अध्याय 1.3
लाजपुष्पाञ्जलिव्रातैर् विकीर्णः पौरवासिभिः ।
स विवेश गृहं श्रीमाञ् जयन्तो विष्टपं यथा ॥
प्रणनामाथ पितरं वसिष्ठं मातृबान्धवान् ।
ब्राह्मणान् गुरुवृद्धांश् च राघवः प्रथमागतः ॥
सुहृद्भिर् मातृभिश् चैव पित्रा द्विजगणेन च ।
मुहुरालिङ्गनाचारै राघवो न ममौ तदा ॥
तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः ।
जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव ॥
बहून्य् आस दिनान्य् अत्र रामागमनम् उत्सवः ।
महानन्दे जनान् मुञ्चन् केलिकोलाहलाकुलः ॥
उवास स सुखं गेहे ततः प्रभृति राघवः ।
वर्णयन् विविधाचारान् देशाचारान् इतस् ततः ॥
प्रातर् उत्थाय रामो ऽसौ कृत्वा सन्ध्यां यथाविधि ।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा ॥
कथाभिस् सुविचित्राभिस् स वसिष्ठादिभिस् सह ।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिर् आदृतः ॥
जगाम पित्रनुज्ञातो महत्या सेनयावृतः ।
वराहमहिषाकीर्णं वनम् आखेटकेच्छया ॥
तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् ।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन् निशाम् ॥
एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः ।
आगत्य तीर्थयात्रायास् समुवास पितुर् गृहे ॥
नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकया तथा ।
परिनिनाय दिनानि स चेष्टया श्रुतसुधारसपेशलयानघः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0