मोक्षोपाय · अध्याय 1.30
प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुकणभङ्गुरे ।
आयुषीशानशीतांशुकलामृदुनि देहके ॥
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।
वागुरावलये जन्तोस् सुहृत्स्वजनसङ्गमे ॥
वासनावातवलितकदाशातडिति स्फुटे ।
मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति ॥
नृत्यत्य् उत्ताण्डवं चण्डे लोले लोभकलापिनि ।
सुविकासिनि सस्फोटम् अनर्थकुटजद्रुमे ॥
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।
अश्रुतस्पन्दसञ्चारे कुतो ऽप्य् उपरिपातिनि ॥
क उपायो गतिः का वा का चिन्ता कस् समाश्रयः ।
केनेयम् अशुभोदर्का न भवेज् जीविताटवी ॥
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
सुधियस् तुच्छम् अप्य् एतद् यन् न याति नरम्यताम् ॥
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः ।
कथं सुस्वादुताम् एति नीरसो मूर्खतां विना ॥
आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् ।
उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी ॥
अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।
मनश्चन्द्रमसः केन तेन कामकलङ्किनः ॥
दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।
केन वा व्यवहर्तव्यं संसारवनवीथिषु ॥
रागद्वेषमहारोगा भोगपूर्वातिपूतयः ।
कथं जन्तोर् न बाधन्ते संसारारण्यचारिणः ॥
कथं च वीरवैराग्नौ पततापि न दह्यते ।
पावके पारतेनेव रसेन रसशालिना ॥
यस्मात् किल जगत्य् अस्मिन् व्यवहारक्रियां विना ।
न स्थितिस् सम्भवत्य् अब्धौ पतितस्याजला यथा ॥
रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।
कृशानोर् दाहहीनेव शिखा नास्तीह सत्क्रिया ॥
मनोमननमानिन्यास् सतापाभुवनत्रये ।
क्षयो युक्तिं विना नास्ति ब्रूत ताम् अलम् उत्तमाः ॥
व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।
अथ वाव्यवहारस्य ब्रूत तां गतिम् उत्तमाम् ॥
तत् कथं केन वा किं वा कृतम् उत्तमचेतसा ।
पूर्वं येनैति विश्रामं परमं पावनं मनः ॥
यथा जानासि भगवंस् तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन यूयं निर्दुःखतां गताः ॥
अथ वा तादृशी ब्रह्मन् युक्तिर् यदि न विद्यते ।
न वक्ति मम वा कश्चिद् विद्यमानाम् अपि स्फुटम् ॥
स्वयं चैव न चाप्नोमि तां विश्रान्तिम् अनुत्तमाम् ।
तद् अहं त्यक्तसर्वेहो निरहङ्कारतां गतः ॥
न भोक्ष्ये न पिबाम्य् अम्बु नाहं परिदधे ऽम्बरम् ।
करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥
न च तिष्ठामि कार्येषु सम्पत्स्व् आपद्दशासु च ।
न किञ्चिद् अभिवाञ्छामि देहत्यागाद् ऋते मुने ॥
केवलं विगताशङ्को निर्ममो गतमत्सरः ।
मौनम् एवेह तिष्ठामि लिपिकर्मस्व् इवार्पितः ॥
अथ क्रमेण सन्त्यज्य सश्वासोच्छ्वाससंविदम् ।
सन्निवेशं त्यजामीमम् अनर्थं देहनामकम् ॥
नाहम् अस्य न मे देहश् शाम्याम्य् अस्नेहदीपवत् ।
सर्वम् एव परित्यज्य त्यजामीदं कलेवरम् ॥
इत्य् उक्तवान् अमलशीतकराभिरामो रामो महत्तरविवेकविकासिचेताः ।
तूष्णीं बभूव पुरतो महतां घनानां केकारवश्रमवशाद् इव नीलकण्ठः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0