मोक्षोपाय · अध्याय 1.29
एवम् अभ्युत्थितानर्थसार्थसङ्कटकोटरम् ।
जगद् आलोक्य निर्मग्नं मनो मननकर्दमे ॥
मनो मे भ्रमतीवेदं सम्भ्रमश् चोपजायते ।
गात्राणि परिकम्पन्ते पत्त्राणीव जरत्तरोः ॥
अनाप्तोत्तमसन्तोषचर्योत्सङ्गाकुला मतिः ।
शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥
विकल्पेभ्यो लुठन्त्य् एताश् चान्तःकरणवृत्तयः ।
श्वभ्रेभ्य इव सारङ्ग्यस् तुच्छालम्बविडम्बिताः ॥
अविवेकास्पदभ्रष्टाः कष्टे रूढा न सत्पदे ।
अन्धकूपम् इवापन्ना वराकाश् चक्षुरादयः ॥
नावस्थितिम् उपायाति न च याति यथेप्सितम् ।
चिन्ता जीवेश्वरायत्ता कान्तेवाप्रियसद्मनि ॥
जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा ।
मार्गशीर्षान्तवल्लीव धृतिर् विधुरतां गता ॥
अपहस्तितसर्वार्थम् अनवस्थितिर् आस्थिता ।
गृहीत्वोत्सृज्य चात्मानम् अवस्थितिर् अवस्थिता ॥
चलिताचलितेनान्तर् अवष्टम्भेन मे मतिः ।
दरिद्राच्छिन्नवृक्षस्य मूलेनेव विडम्ब्यते ॥
चेतश् चञ्चलम् आभोगि भुवनान्तर्विहारि च ।
सम्भ्रमं न जहातीदं स्वविमानम् इवामरः ॥
अतो ऽतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
किं तत् स्थितिपदं साधु यत्र शङ्का न विद्यते ॥
सर्वारम्भसमारम्भास् सुजना जनकादयः ।
व्यवहारपरा एव कथम् उत्तमतां गताः ॥
लग्नेनापि किलाङ्गेषु बहुना बहुमानद ।
कथं संसारपङ्केन पुमान् इह न लिप्यते ॥
कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।
महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥
लोभयन्तो भयायैव विषया भोगभोगिनः ।
भङ्गुराकारविभवाः कथम् आयान्ति भव्यताम् ॥
मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।
परं प्रसादम् आयाति शेमुषीसरसी कथम् ॥
संसार एव निवसञ् जनो व्यवहरन्न् अपि ।
न बन्धं कथम् आयाति पद्मपत्त्रे पयो यथा ॥
आत्मवत् तृणवद् वेदं सकलं जनयञ् जगत् ।
कथम् उत्तमताम् एति मनोमन्मथम् अस्पृशन् ॥
कं महापुरुषं पारम् उपयातं भवोदधेः ।
आचारेणानुसृत्यायं जनो याति न दुष्कृतम् ॥
किं तद् यद् उचितं श्रेयः किं तत् स्याद् उचितं फलम् ।
वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥
तत् त्वं कथय मे किञ्चिद् येनास्य जगतः प्रभो ।
वेद्मि पूर्वापरां धातुश् चेष्टितस्यासमस्थितिम् ॥
हृदयाकाशशशिनश् चेतसो मलमार्जनम् ।
यथा मे जायतां ब्रह्मंस् तथा निर्विघ्नम् आचर ॥
किम् इह स्याद् उपादेयं किं वा हेयम् अथेतरत् ।
कथं विश्रान्तिम् आयातु चेतश् चपलम् अद्रिवत् ॥
केन पावनमन्त्रेण दुस्संसृतिविषूचिका ।
शाम्यतीयम् अनायासम् आयासशतकारिणी ॥
कथं शीतलताम् अन्तर् आनन्दतरुमञ्जरीम् ।
पूर्णचन्द्र इवाक्षीणां राकाम् आसादयाम्य् अहम् ॥
प्राप्यान्तःपूर्णताम् अन्तर् न शोचामि यथा पुनः ।
सन्तो भवन्तस् तत्त्वज्ञास् तथैवोपदिशन्तु माम् ॥
अनुत्तमानन्दपदप्रधानविश्रान्तिरिक्तं हि मनो महात्मन् ।
कदर्थयन्तीह भृशं विकल्पाश् श्वानो वने देहम् इवाल्पजीवम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0