भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.31

1.31.1

वदत्य् एवं मनोमोहविनिवृत्तिकरं वचः ।
रामे राजीवपत्त्राक्षे तस्मिन् राजकुमारके ॥

1.31.2

सर्वे बभूवुस् तत्रस्था विस्मयोत्फुल्ललोचनाः ।
धृताम्बरा देहरुहैर् गिरश् श्रोतुम् इवोद्गतैः ॥

1.31.3

विरामवासनापास्तसमस्तभववासनाः ।
मुहूर्तम् अमृताम्भोधिवीचीविलुलिता इव ॥

1.31.4

ता गिरो रामभद्रस्य तस्य चित्रार्पितैर् इव ।
संश्रुताश् शृणुकैर् अन्तर् आनन्दपरिपीवरैः ॥

1.31.5

वसिष्ठविश्वामित्राद्यैर् मुनिभिस् संसदि स्थितैः ।
जयन्तघृष्टिप्रमुखैर् मन्त्रिभिर् मन्त्रकोविदैः ॥

1.31.6

नृपैर् दशरथप्रख्यैः पौरैः पारशवादिभिः ।
सामन्तै राजपुत्रैश् च ब्राह्मणैर् ब्रह्मवादिभिः ॥

1.31.7

तथा भृत्यैर् अमात्यैश् च पञ्जरस्थैश् च पक्षिभिः ।
क्रीडामृगैर् गतस्पन्दैस् तुरङ्गैर् गतचर्वणैः ॥

1.31.8

कौसल्याप्रमुखैश् चैव निजवातायनस्थितैः ।
संशान्तभूषणारावैर् अस्पन्दैर् वनितागणैः ॥

1.31.9

उद्यानवल्लीनिलयैर् विटङ्कनिलयैर् अपि ।
अक्षुब्धपक्षततिभिर् विहगैर् विरतारवैः ॥

1.31.10

सिद्धैर् नभश्चरैश् चैव तथा गन्धर्वकिन्नरैः ।
नारदव्यासपुलहप्रमुखैर् मुनिपुङ्गवैः ॥

1.31.11

अन्यैश् च देवदेवेशविद्याधरमहोरगैः ।
रामस्य ता विचित्रार्था महोदारा गिरश् श्रुताः ॥

1.31.12

अथ तूष्णीं स्थितवति रामे राजीवलोचने ।
तस्मिन् रघुकुलाकाशशशाङ्कसमसुन्दरे ॥

1.31.13

साधुवादगिरा सार्धं सिद्धसार्थसमीरिता ।
वितानकसमा व्योम्नः पुष्पवृष्टिः पपात ह ॥

1.31.14

मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी ।
मदिरामोदसौन्दर्यमुदितोन्मदमानवा ॥

1.31.15

व्योमवातविनुन्नेव तारकाणां परम्परा ।
पतितेव धरापीठं स्वर्गस्त्रीहसितच्छटा ॥

1.31.16

वृष्टिष्व् एकशरन्मेघलवावलिर् इव च्युता ।
हैय्यङ्गवीनपिण्डानाम् ईरितेव परम्परा ॥

1.31.17

हिमवृष्टिर् इवोदारा मुक्ताहारचयोपमा ।
ऐन्दवी रश्मिमालेव क्षीरोर्मीणाम् इवाततिः ॥

1.31.18

किञ्जल्कामोदवलिता भ्रमद्भृङ्गकदम्बका ।
सीत्कारगायदामोदमधुरानिलदोलिता ॥

1.31.19

प्रभ्रमत्केतकव्यूहा प्रसरत्कैरवोत्करा ।
प्रपतत्कुन्दवलया वलत्कुवलयालया ॥

1.31.20

आपूरिताङ्गनारामगृहच्छादनचत्वरा ।
उद्ग्रीवपुरवास्तव्यवरनारीविलोकिता ॥

1.31.21

निरभ्रोत्पलसङ्काशव्योमवृष्टिर् अनाकुला ।
अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥

1.31.22

अदृष्टपूर्वा सिद्धौघकरोत्करसमीरिता ।
सा मुहूर्तचतुर्भागे पुष्पवृष्टिः पपात ह ॥

1.31.23

आपूरितसभालोके शान्ते कुसुमवर्षणे ।
इमान् सिद्धगणालापाञ् शुश्रुवुस् ते सभासदः ॥

1.31.24

आकल्पं सिद्धसेनासु भ्रमद्भिर् अभितो दिवम् ।
अपूर्वम् अद्य त्व् अस्माभिश् श्रुतं श्रुतिरसायनम् ॥

1.31.25

यद् अनेन किलोदारम् उक्तं रघुकुलेन्दुना ।
वीतरागतया तद् धि वाक्पतेर् अप्य् अगोचरम् ॥

1.31.26

अहो वत महत् पुण्यम् अद्यास्माभिर् इदं श्रुतम् ।
वचो राममुखोद्भूतम् अमृताह्लादकं धियः ॥

1.31.27

उपशमामृतसुन्दरम् आदराद् अधिगतोत्तमतापदम् एष यत् ।
कथितवान् उचितं रघुनन्दनस् सपदि तेन वयं प्रतिबोधिताः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc