मोक्षोपाय · अध्याय 1.2
जीवन्मुक्तस्थितिं ब्रह्मन् कृत्वा राघवम् आदितः ।
क्रमात् कथय मे नित्यं भविष्यामि सुखी यथा ॥
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनस्स्मरणं मन्ये साधो विस्मरणं वरम् ॥
दृश्यात्यन्ताभावबोधं विना तन् नानुभूयते ।
कदाचित् केनचिन् नाम स बोधो ऽन्विष्यताम् अतः ॥
स चेह सम्भवत्य् एव तदर्थम् इदम् आततम् ।
शास्त्रम् आकर्णयसि चेत् तत्त्वं प्राप्नोषि नान्यथा ॥
जगद्भ्रमो ऽयं दृश्यो ऽपि नास्त्य् एवेत्य् अनुभूयते ।
वर्णो व्योम्न इवाखेदाद् विचारेणामुनानघ ॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
सम्पन्नं चेत् तद् उत्पन्ना परा निर्वाणनिर्वृतिः ॥
अन्यथा शास्त्रगर्तेषु लुठतां भवताम् इह ।
भवत्य् अकृत्रिमज्ञाना कल्पैर् अपि न निर्वृतिः ॥
परित्यागो वासनाया उत्तमो मोक्ष उच्यते ।
ब्रह्मन् स एष विमलक्रमो ज्ञानप्रकाशकः ॥
क्षीणायां वासनायां तु मनो गलति सत्वरम् ।
क्षीणायां शीतसन्तत्यां ब्रह्मन् हिमकणो यथा ॥
अयं वासनया देहो ध्रियते भूतपञ्जरः ।
तनुनान्तर्निविष्टेन मुक्तौघस् तन्तुना यथा ॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्मनो हेतुश् शुद्धा जन्मविनाशिनी ॥
अज्ञानसुघनाकारा घनाहङ्कारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥
पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् ।
देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते ॥
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास् त उच्यन्ते जीवन्मुक्ता महाधियः ॥
जीवन्मुक्तपदं प्राप्तो यथा रामो महामतिः ।
तत् ते ऽहं सम्प्रवक्ष्यामि जरामरणशान्तये ॥
भरद्वाज महाबुद्धे रामक्रमम् इमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा ॥
विद्यागृहाद् विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्य् अनयद् गेहे लीलाभिर् अकुतोभयः ॥
अथ गच्छति काले ऽत्र पालयत्य् अवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥
तीर्थमुन्याश्रमश्रेणीं द्रष्टुम् उत्कण्ठितं मनः ।
रामस्याभूद् भृशं तत्र कदाचिद् गुणशालिनः ॥
राघवश् चिन्तयित्वैवम् उपेत्य चरणौ पितुः ।
हंसः पद्माव् इव नवौ जग्राह नखकेसरौ ॥
तीर्थानि देवसद्मानि वनान्य् आयतनानि च ।
द्रष्टुम् उत्कण्ठितं तात ममेदं हि भृशं मनः ॥
तद् एताम् अर्थनां पूर्वां सफलीकर्तुम् अर्हसि ।
न सो ऽस्ति भुवने तात त्वया यो ऽर्थी विमानितः ॥
इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चद् एवैनं रामं प्रथमम् अर्थिनम् ॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥
वसिष्ठप्रहितैर् विप्रैश् शास्त्रतज्ज्ञैस् समन्वितः ।
स्निग्धैः कतिपयैर् एव राजपुत्रवरैस् सह ॥
अम्बाभिर् विहिताशीर्भिर् आलिङ्ग्यालिङ्ग्य भूषितः ।
निरगात् स गृहात् तस्मात् तीर्थयात्रार्थम् उद्यतः ॥
निर्गतस् स्वपुरात् पौरैस् तूर्यघोषेण वर्धितः ।
पीयमानः पुरन्ध्रीणां नेत्रैर् भृङ्गौघभङ्गुरैः ॥
ग्रामीणललनालोकहस्तपद्मापवर्जितैः ।
लाजवर्षैर् विकीर्णात्मा हिमैर् इव हिमाचलः ॥
आवर्जयन् विप्रगणान् परिशृण्वन् प्रजाशिषः ।
आलोकयन् दिगन्तांश् च परिचक्राम जङ्गले ॥
अथारभ्य स्वकात् तस्मात् क्रमात् कोसलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥
नदीस् तीर्थानि पुण्यानि वनान्य् आयतनानि च ।
जङ्गलानि वनान्तेषु तटान्य् अब्धिमहीभृताम् ॥
मन्दाकिनीम् इन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रुं च चन्द्रभागाम् इरावतीम् ॥
वेणां च कृष्णवेणां च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशां बाहुदाम् अपि ॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा ।
वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥
मानसं च क्रमसरस् तथैवोत्तरमानसम् ।
वडवां मडवां चैव तीर्थवृन्दं ससोदरम् ॥
अग्नितीर्थं महातीर्थम् इन्द्रद्युम्नसरस् तथा ।
सरांसि सरसीश् चैव तथा वापीह्रदावलीम् ॥
स्वामिनं कार्त्तिकेयं च सालिग्रामहरिं तथा ।
स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः ॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्ध्यकन्दरकुञ्जांश् च कुलशैलस्थलानि च ॥
राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च ।
देवानां ब्राह्मणानां च पावनान् आश्रमाञ् शुभान् ॥
भूयो भूयस् स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्व् अपि दिगन्तेषु सर्वान् एव महीतटान् ॥
अमरकिन्नरमानवमानितस् समवलोक्य महीम् अखिलाम् इमाम् ।
उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकम् इवेश्वरः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0