भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.28

1.28.1

इति मेधोपदावाग्निदग्धे महति चेतसि ।
प्रस्फुरन्ति न भोगाशा मृगतृष्णास् सरस्स्व् इव ॥

1.28.2

प्रत्यहं चातिकटुताम् एति संसारसंसृतिः ।
कालपाकवशोल्लासिरसा निम्बलता यथा ॥

1.28.3

वृद्धिम् आयाति दौर्जन्यं सौजन्यं याति तानवम् ।
करञ्जकर्कशे राजन् प्रत्यहं जनचेतसि ॥

1.28.4

भज्यते भुवि मर्यादा झगित्य् एव दिशं प्रति ।
शुष्केव माषशिमिका टाङ्कारकठिनारवम् ॥

1.28.5

राज्येभ्यो भोगपूगेभ्यश् चिन्तावन्तो महीश्वराः ।
निरस्तचिन्ताकलिका वरम् एकान्तशीलता ॥

1.28.6

नानन्दाय ममोद्यानं न सुखाय मम श्रियः ।
न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥

1.28.7

अनित्यश् चासुखो लोकस् तृष्णा तात दुरुद्वहा ।
चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ॥

1.28.8

नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।
यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥

1.28.9

किं मे राज्येन किं भोगैः किम् अर्थेन किम् ईहितैः ।
अहङ्कारवशाद् एतत् स एव गलितो मम ॥

1.28.10

जन्मावलिवरत्रायाम् इन्द्रियग्रन्थयो दृढाः ।
ये लग्नास् तद्विमोक्षार्थं ये यतन्ते त उत्तमाः ॥

1.28.11

दलितं मानिनीलोकैर् मनो मकरकेतुना ।
कोमलं खुरनिष्पेषैः कमलं करिणा यथा ॥

1.28.12

अद्य चेत् स्वस्थया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।
भूयश् चित्तचिकित्सायां कः किलावसरः कुतः ॥

1.28.13

विषं विषयवैषम्यं न विषं विषम् उच्यते ।
जन्मान्तरघ्ना विषया एकदेहहरं विषम् ॥

1.28.14

न सुखानि न दुःखानि न मित्राणि न बन्धवः ।
न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः ॥

1.28.15

तद् भवामि यथा ब्रह्मन् पूर्वापरविदां वर ।
वीतशोकभयायासो ज्ञस् तथोपदिशाशु मे ॥

1.28.16

वासनाजालवलिता दुःखकण्टकसङ्कटा ।
निपातोत्पातबहला भीमरूपाज्ञताटवी ॥

1.28.17

क्रकचोग्रविनिष्पेषं सोढुं शक्तो ऽस्म्य् अहं मुने ।
संसारव्यवहारोत्थं नाशाविषमवैशसम् ॥

1.28.18

इदं नास्तीदम् अस्तीति व्यवहारिजनभ्रमः ।
धुनोतीदं चलं चेतो रजोराशिम् इवानिलः ॥

1.28.19

तृष्णातन्तुलवप्रोतजीवसञ्चयमौक्तिकम् ।
चिदच्छाङ्गतया नित्यं प्रकटं चित्तनायकम् ॥

1.28.20

संसारहारम् अरतिः कालव्यालविभूषणम् ।
त्रोटयाम्य् अहम् अक्रूरां वागुराम् इव केसरी ॥

1.28.21

नीहारं हृदयाटव्यां मनस्तिमिरम् आशु मे ।
केनचिज् ज्ञानदीपेन भिन्द्धि तत्त्वविदां वर ॥

1.28.22

विद्यन्त एवेह न ते महात्मन् दुराधयो न क्षयम् आप्नुवन्ति ।
ये सङ्गमेनोत्तममानसानां निशातमांसीव निशाकरेण ॥

1.28.23

आयुर् वायुविघट्टिताब्जपटलीलम्बाम्बुवद् भङ्गुरं भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः ।
लोलो यौवनलालनाजलरयश् चेत्य् आकलय्य द्रुतं मुद्रैवाद्रिदृढार्पिता ननु मया चित्ते चिरं शान्तये ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc