मोक्षोपाय · अध्याय 1.27
यच् चेदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
तत् सर्वम् अस्थिरं ब्रह्मन् स्वप्नसङ्गमसन्निभम् ॥
शुष्कसागरसङ्काशो निखातो यो ऽद्य दृश्यते ।
स प्रातर् अभ्रसंवीतो नगस् सम्पद्यते मुने ॥
यो वनव्यूहविस्तीर्णो विलीढगगनो ऽचलः ।
दिनैर् एव स यात्य् उर्वीसमतां कूपतां च वा ॥
यद् अङ्गम् अद्य संवीतं कौशेयस्रग्विलेपनैः ।
दिगम्बरं तद् एव श्वो दूरे विशरितावटे ॥
यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् ।
तत्रैवोदेति दिवसैस् संशून्यारण्यधन्वता ॥
यः पुमान् अद्य तेजस्वी मण्डलान्य् अधितिष्ठति ।
स भस्मकूटतां राजन् दिवसैर् एव गच्छति ॥
अरण्यानी महाभीमा या नभोमण्डलोपमा ।
पताकाच्छादिताकाशा सैव सम्पद्यते पुरी ॥
या लतावलिता भीमा भात्य् अद्य विपिनावली ।
दिवसैर् एव सा याति मुने मरुमहीपदम् ॥
सलिलं स्थलतां याति स्थली भवति वारिभूः ।
विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥
अनित्यं यौवनं बाल्यं शरीरं द्रव्यसञ्चयाः ।
भावाद् भावान्तरं यान्ति तरङ्गवद् अनारतम् ॥
वातात्तदीपकशिखालोलं जगति जीवितम् ।
तडित्स्फुरणसङ्काशा पदार्थश्रीर् जगत्त्रये ॥
विपर्यासम् इयं याति भूरिभूतपरम्परा ।
बीजराशिर् इवाजस्रं प्रथमानः पुनः पुनः ॥
मनःपवनपर्यस्तभूरिभूतरजःपटा ।
पातोत्पातपरावर्तवराभिनयभूषिता ॥
आलक्ष्यते स्थितिर् इयं जागती जनितभ्रमा ।
नृत्तावेशविवृत्तेव संसारारभटीनटी ॥
गन्धर्वनगराकारविपर्यासविधायिनी ।
अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥
तडित्तरलम् आलोकम् आतन्वाना पुनः पुनः ।
संसाररञ्जना ब्रह्मन् नृत्तमत्तेव राजते ॥
दिवसास् ते महान्तस् ते सम्पदस् ताः क्रियाश् च ताः ।
सर्वं स्मृतिपदं यातं यामो वयम् अपि क्षणात् ॥
प्रत्यहं क्षयम् आयाति प्रत्यहं जायते पुनः ।
अद्यापि हतरूपाया नान्तो ऽस्या दग्धसंसृतेः ॥
तिर्यक्त्वं पुरुषा यान्ति तिर्यञ्चो नरताम् अपि ।
देवाश् चादेवतां चैते किम् एवेह विभो स्थिरम् ॥
रचयन् रश्मिजालेन रात्र्यहानि पुनः पुनः ।
अतिवाह्य रविः कालं विनाशावधिम् ईक्षते ॥
ब्रह्मा विष्णुश् च रुद्रश् च सर्वा वा भूतजातयः ।
नाशम् एवानुधावन्ति सलिलानीव वाडवम् ॥
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः ।
विनाशवाडवस्यैतत् सर्वं संशुष्कम् इन्धनम् ॥
धनानि बन्धवो भृत्या मित्राणि विभवाश् च ये ।
विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥
स्वदन्ते तावद् एवैते भावा जगति धीमतः ।
यावत् स्मृतिपथं याति न विनाशकुराक्षसः ॥
क्षणम् ऐश्वर्यम् आयाति क्षणम् एति दरिद्रता ।
क्षणं विगतरोगत्वं क्षणम् आगतरोगता ॥
प्रतिक्षणं विपर्यासदायिना महतामुना ।
जगद्भ्रमेण के नाम धीमन्तो ऽपि न मोहिताः ॥
तमःपङ्कसमालब्धं क्षणम् आकाशमण्डलम् ।
क्षणं कनकनिष्ष्यन्दकोमलालोकसुन्दरम् ॥
क्षणं जलदनीलाब्जमालावलितकोटरम् ।
क्षणम् उड्डामररवं क्षणं मूकम् अवस्थितम् ॥
क्षणं ताराविलसितं क्षणम् अर्केण भूषितम् ।
क्षणम् इन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥
आगमापायपरया स्थित्या संस्थितनाशया ।
न बिभेतीह संसारे धीरो ऽपि क इवानया ॥
आपदः क्षणम् आयान्ति क्षणम् आयान्ति सम्पदः ।
क्षणं जन्माथ मरणं मुने किम् इव न क्षणम् ॥
प्राग् आसीद् अन्य एवेह जातस् त्व् अन्येतरो दिनैः ।
अप्य् एकरूपं भगवन् किञ्चिद् अस्ति न सुस्थितम् ॥
घटस्य पटता दृष्टा पटस्यापि घटस्थितिः ।
न तद् अस्ति न यद् दृष्टं विपर्यस्यति संसृतिः ॥
अशूरेण हतश् शूर एकेनापि शतं हतम् ।
प्राकृताः प्रभुतां यातास् सर्वम् आवर्तते जगत् ॥
जनतेयं विपर्यासम् अजस्रम् अनुगच्छति ।
जडस्पन्दपरामर्शात् तरङ्गानाम् इवावली ॥
बाल्यम् अद्य दिनैर् एव यौवनश्रीस् ततो जरा ।
देहे ऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥
क्षणम् आनन्दिताम् एति क्षणम् एति विषादिताम् ।
क्षणं सौम्यत्वम् आयाति सर्वस्मिन् नटवन् मनः ॥
इतश् चान्यद् इतश् चान्यद् इतश् चान्यद् अयं विधिः ।
रचयन् वस्तु नायाति खेदं लीलास्व् इवार्भकः ॥
चिनोत्य् उन्मादयत्य् अत्ति निहन्त्य् आहन्ति चात्मसात् ।
जगज्जातम् इदं धाता पातोत्पातशतैर् इह ॥
क्षणेनान्यद् दिनेनान्यत् प्रातर् अन्यद् इतस् ततः ।
रचयन् वञ्चनादक्षो विधिर् दृष्टो न केनचित् ॥
यद् अद्य तत् तु न प्रातर् यत् प्रातस् तत् तु नाद्य च ।
यद् अन्यदा तु तन् नाद्य सर्वम् आवर्ततेतराम् ॥
सन्ततानीह दुःखानि सुखानि विरलानि च ।
सततं रात्र्यहानीव विवर्तन्ते नरं प्रति ॥
आविर्भावतिरोभावभागिनो भवभाविनः ।
जनस्य स्थिरतां यान्ति नापदो न च सम्पदः ॥
पदात् पदम् अयं पापस् सर्वम् आपदि पातयन् ।
हेलाविवलिताशेषः खलकाललवस् स्थितः ॥
समविषमदशाविपाकभिन्नास् त्रिभुवनभूतपरम्पराफलौघाः ।
समयपवनपातिताः पतन्ति प्रतिदिनम् आततसंसृतिद्रुमेभ्यः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0