मोक्षोपाय · अध्याय 1.20
मांसपुत्तलिकायाश् च यन्त्रलोलाङ्गपञ्जरे ।
स्नाय्वस्थिग्रन्थिशालिन्यास् स्त्रियाः किम् इव शोभनम् ॥
त्वङ्मांसरक्तबाष्पास्रु पृथक् कृत्वा विलोचनम् ।
समालोकय रम्यं चेत् किं मुधा परिमुह्यसि ॥
इतः केशा इतो रक्तम् इतीयं प्रमदातनुः ।
किम् एतया निन्दितया करोतु विपुलाशयः ॥
वासोविलेपनैर् यानि लालितानि पुनः पुनः ।
तान्य् अङ्गान्य् अवलुम्पन्ति क्रव्यादास् सर्वदेहिनाम् ॥
मेरोश् शृङ्गतटोल्लासिगङ्गाजलरयोपमाः ।
दृष्टा यस्मिन् स्तने मुक्ता हारस्योल्लासशालिनः ॥
श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
श्वभिर् आस्वाद्यते काले लघुपिण्ड इवान्धसः ॥
रक्तमांसादिदिग्धानि करभस्य यथा वने ।
तथैवाङ्गानि कामिन्यास् तत् प्रत्य् अपि हि को ग्रहः ॥
आपातरमणीयत्वं कल्प्यते केवलं स्त्रियाः ।
मन्ये तद् अपि नास्त्य् अत्र मुने मोहैककारणे ॥
विपुलोल्लासदायिन्या मदोन्मथनपूर्वकम् ।
को विशेषो विकारिण्या मदिराया इह स्त्रियाः ॥
ललनालानसंलीना मुने मानवदन्तिनः ।
प्रबोधं नाधिगच्छन्ति दीर्घैर् अपि शमाङ्कुशैः ॥
केशकज्जलधारिण्यस् तीक्ष्णाः प्रकृतितस् सदा ।
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन् नरम् ॥
ते वन्द्यास् ते महात्मानस् त एव पुरुषा भुवि ।
ये सुखेन समुत्तीर्णास् साधो यौवतसङ्कटात् ॥
ज्वलताम् अपि दूरे ऽपि सरसा अपि नीरसम् ।
स्त्रियो हि नरकाग्नीनां दारु चारु च दारुणम् ॥
कीर्णान्धकारकवरी तरत्तारकलोचना ।
पूर्णेन्दुबिम्बवदना कुमुदोत्करहासिनी ॥
लीलाविलोलपरुषा कार्यसंहारकारिणी ।
परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ॥
पुष्पाभिराममधुरा करपल्लवलासिनी ।
भ्रमरभ्रूविलासाढ्या स्तबकस्तनधारिणी ॥
पुष्पकेसरगौराङ्गी नरमारणतत्परा ।
ददात्य् उत्तमवैवश्यं कान्ता विषमहालता ॥
सीत्कारोच्छ्वासमात्रेण भुजङ्गदलनोत्कया ।
कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात् ॥
कामनाम्ना किरातेन वितीर्णा मुग्धचेतसाम् ।
नार्यो नरविहङ्गानाम् अङ्गबन्धनवागुराः ॥
ललनाविपुलालाने मनोमत्तमतङ्गजः ।
रतिशृङ्खलया ब्रह्मन् बद्धस् तिष्ठति मूकवत् ॥
जन्मपल्वलमत्स्यानां कर्मकोटरचारिणाम् ।
पुंसां दुर्वासनारज्जुर् नारी बडिशपिण्डिका ॥
मन्दुरेव तुरङ्गानाम् आलानम् इव दन्तिनाम् ।
पुंसाम् अब्जम् इवालीनां बन्धनं वामलोचनाः ॥
नानारसमयी चित्रा भोगभूमिर् इयं मुने ।
स्त्रियम् आश्रित्य संयाता पराम् इह हि संस्थितिम् ॥
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।
दुःखशृङ्खलया नित्यम् अलम् अस्तु मम स्त्रिया ॥
किं स्तनेन किम् अक्ष्णा वा किं नितम्बेन किं भ्रुवा ।
मांसमात्रैकसारेण करोम्य् अहम् अवस्तुना ॥
इतो मांसम् इतो रक्तम् इतो ऽस्थीनि च वासरैः ।
ब्रह्मन् कतिपयैर् एव याति स्त्री विशरारुताम् ॥
यास् ता निष्परुषैस् तूलैर् लालिताः पतिभिस् स्त्रियः ।
ता मुने प्रविभक्ताङ्ग्यस् स्वपन्ति पितृभूमिषु ॥
यस्मिन् घननवस्नेहं मुखे पत्त्राङ्कुरश्रियः ।
कान्तेन रचिता ब्रह्मञ् शीर्यते तत् तु जङ्गले ॥
केशाश् श्मशानवृक्षेषु यान्ति चामरलेशताम् ।
अस्थीन्य् उडुवद् आभान्ति दिनैर् अवनिमण्डले ॥
पिबन्ति पांसवो रक्तं क्रव्यादाश् चाप्य् अनेकशः ।
चर्मानलशिखा भुङ्क्ते खं यान्ति प्राणवायवः ॥
इत्य् एषा ललनाङ्गानाम् अचिरेणैव भाविनी ।
स्थितिर् मया वः कथिता किं भ्रान्तिम् अनुधावथ ॥
भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् ।
रसाद् अभिवहत्व् एतत् कथं नाम धियान्वितः ॥
शाखावितानगहना कट्वम्लफलशालिनी ।
प्रतानोत्तालताम् एति चिन्ता कान्तानुसारिणी ॥
क्वचिद् भूततया चेतो धनगर्धान्धम् आकुलम् ।
परं मोहम् उपादत्ते यूथभ्रष्टो मृगो यथा ॥
शोच्यतां परमाम् एति तरुणस् तरुणीरतः ।
निबद्धः करिणीलोभाद् विन्ध्यखाते यथा द्विपः ॥
यस्य स्त्री तस्य भोगेच्छा निस्स्त्रीकस्य न भोगभूः ।
स्त्रियं त्यक्त्वा जगत् त्यक्तं जगत् त्यक्त्वा सुखी भवेत् ॥
आपातमात्ररमणेषु दुरन्तरेषु भोगेषु नाहम् अलिपक्षतिपेलवेषु ।
ब्रह्मन् रमे मरणरोगजरादिभीत्या शाम्याम्य् अहं परम् उपैमि वनं प्रयत्नात् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0