भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.21

1.21.1

अपर्याप्तं हि बालत्वं बाल्यं पिबति यौवनम् ।
यौवनं च जरा पश्चात् पश्य कर्कशतां मिथः ॥

1.21.2

हिमाशनिर् इवाम्भोजं वात्येव शरदम्बुदम् ।
देहं जरा जरयति सरित् तीरतरुं यथा ॥

1.21.3

शिथिलादीर्घसर्वाङ्गं जराजीर्णकलेवरम् ।
समं पश्यन्ति कामिन्यः पुरुषं करभं तथा ॥

1.21.4

श्वासायासकदर्थिन्या गृहीते जरसा जने ।
पलाय्य गच्छति प्रज्ञा सपत्न्येव हताङ्गना ॥

1.21.5

दासाः पुत्रास् स्त्रियश् चैव बान्धवास् सुहृदस् तथा ।
हसन्त्य् उन्मत्तकम् इव नरं वार्द्धककम्पितम् ॥

1.21.6

दुष्प्रज्ञं जरढं दीनं हीनं गुणपराक्रमैः ।
गृध्रो वृक्षम् इवादीर्घं गर्धो ह्य् अभ्येति वृद्धताम् ॥

1.21.7

दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी ।
सर्वापदाम् एकसखी वर्धते वार्द्धके स्पृहा ॥

1.21.8

कर्तव्यं किं मया कष्टं परत्रेत्य् अतिदारुणम् ।
अप्रतीकारयोग्यं हि वर्धते वार्द्धके भयम् ॥

1.21.9

को ऽहं वराकः किम् इव करोमि कथम् एव वा ।
तिष्ठामि मौनम् एवेति दीनतोदेति वार्द्धके ॥

1.21.10

गर्धो ऽभ्युदेति सोल्लासम् उपभोक्तुं न शक्यते ।
हृदयं दह्यते नूनं शक्तिदौस्स्थ्येन वार्द्धके ॥

1.21.11

जराजीर्णबकी यावत् कासक्रेङ्कारकारिणी ।
रौति रोगोरगाकीर्णा कायद्रुमशिरस्स्थिता ॥

1.21.12

तावद् आगत एवाशु कुतो ऽपि परिदृश्यते ।
घनान्धतिमिराकाङ्क्षी मुने मरणकौशिकः ॥

1.21.13

सायंसन्ध्या प्रजातैव तमस् समनुधावति ।
जरा वपुषि दृष्टैव मृतिं समनुधावति ॥

1.21.14

जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः ।
मृतिभृङ्गी द्रुतं ब्रह्मन् नरस्यायाति सूत्सुका ॥

1.21.15

शून्यं नगरम् आभाति भाति च्छिन्नलतो द्रुमः ।
भात्य् अनावृष्टिमान् देशो न जराजर्जरं वपुः ॥

1.21.16

क्षणान् निगिरणायैव कासक्वणितकारिणी ।
गृध्रीवामिषम् आदत्ते तरसैव नरं जरा ॥

1.21.17

दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणात् ।
प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥

1.21.18

सीत्कारकारिणी पांसुपरुषा परिजर्जरम् ।
शरीरं शातयत्य् एषा वात्येव तरुपल्लवम् ॥

1.21.19

जरसोपहतो देहो धत्ते जर्जरतां गतः ।
तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् ॥

1.21.20

जराज्योत्स्नोदितैवेयं शिरश्शिखरिपृष्ठतः ।
विकासयति संरब्धवातां कासकुमुद्वतीम् ॥

1.21.21

परिपक्वं समालोक्य जराक्षारविधूसरम् ।
शिरःकुष्माण्डकं भुङ्क्ते पुंसः कालः किलेश्वरः ॥

1.21.22

जराजह्नुसुतोद्युक्ता मूलान्य् अस्य निकृन्तति ।
शरीरतीरवृक्षस्य चलस्यायूंषि सत्वरम् ॥

1.21.23

जरामार्जारिका भुक्तयौवनाखुतयैधिता ।
परम् उल्लासम् आयाति शरीरामिषगर्धिनी ॥

1.21.24

काचिद् अस्ति जगत्य् अस्मिन् नामङ्गलकरी तथा ।
यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥

1.21.25

कासश्वासससीत्कारा दुःखधूमतमोमयी ।
जराज्वाला ज्वलत्य् एषा ययासौ दग्ध एव हि ॥

1.21.26

जरसा वक्रताम् एति शुक्लावयवपल्लवा ।
तात तन्वी तनुर् नॄणां लता पुष्पानता यथा ॥

1.21.27

जराकर्पूरधवलं देहकर्पूरपादपम् ।
मुने मरणमातङ्गो नूनम् उद्धरति क्षणात् ॥

1.21.28

मरणस्य मुने राज्ञो जराधवलचामरा ।
आगच्छतो ऽग्रे निर्याति स्वाधिव्याधिपताकिनी ॥

1.21.29

न जिताश् शत्रुभिस् सङ्ख्ये ये निष्पिष्टाद्रिकोटयः ।
ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥

1.21.30

जरातुषारधवले शरीरसदनान्तरे ।
शक्नुवन्त्य् अक्षशिशवस् स्पन्दितुं न मनाग् अपि ॥

1.21.31

संसारसंसृतेर् अस्या गन्धकुट्याश् शिरोगता ।
देहयष्ट्या जरानाम्नी चामरश्रीर् विराजते ॥

1.21.32

जराचन्द्रोदयसिते शरीरनगरे स्थिते ।
क्षणाद् विकासम् आयाति मुने मरणकैरवम् ॥

1.21.33

जरासुधालेपसिते शरीरान्तःपुरान्तरे ।
अशक्तिर् आर्तिर् आपच् च तिष्ठन्ति सुखम् अङ्गनाः ॥

1.21.34

अभावाग्रेसरा यत्र जरा जयति जन्तुषु ।
कस् तत्रेह समाश्वासो मम मन्दमतेर् मुने ॥

1.21.35

किं तेन दुर्जीवितदुर्ग्रहेण जरां गतेनापि हि जीव्यते यत् ।
जरा जगत्याम् अजिता नराणां सर्वैषणास् तात तिरस्करोति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc