मोक्षोपाय · अध्याय 1.19
बाल्यानर्थम् अथ त्यक्त्वा पुमान् अभिहताशयः ।
आरोहति निपाताय यौवनश्वभ्रसम्भ्रमम् ॥
तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः ।
वृत्तीर् अनुसरन् याति दुःखाद् दुःखतरं जडः ॥
स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा ।
बलात् कामपिशाचेन विवशः परिभूयते ॥
चिन्तानां लोलवृत्तीनां ललनानाम् इवाभितः ।
अर्पयत्य् अवशश् चेतो ज्वालानाम् आत्मजं यथा ॥
ते ते दोषा दुरारम्भास् तत्र तं तादृशाशयम् ।
तरुणं प्रविलुम्पन्ति दृश्यास् ते नैव ये मुने ॥
महानरकबीजेन सन्ततभ्रमदायिना ।
यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥
नानारसमयी चित्रा वृत्तान्तनिचयोम्भिता ।
भीमा यौवनभूर् येन तीर्णा धीरस् स उच्यते ॥
निमेषभासुराकारम् आलोलघनगर्जितम् ।
विद्युत्प्रकाशम् अनिशं यौवनं मे न रोचते ॥
विविधावर्तबहुलं पङ्कलग्नं जडाशयम् ।
तरङ्गभङ्गुरं भीमं यौवनं मे न रोचते ॥
सर्वस्याग्रेसरं पुंसः क्षणमात्रमनोहरम् ।
गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥
इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् ।
दाहदोषप्रदं नित्यं यौवनं मे न रोचते ॥
मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् ।
सुराकल्लोलसदृशं यौवनं मे न रोचते ॥
असत्यं सत्यसङ्काशम् अचिराद् विप्रलम्भदम् ।
स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते ॥
क्षणप्रकाशतरलं मिथ्यारचितचक्रिकम् ।
अलातचक्रप्रतिमं यौवनं मे न रोचते ॥
मृदुस्फारतरोदारम् अन्तश्शून्यं क्षणक्षतम् ।
शरदम्बुदसङ्काशं यौवनं मे न रोचते ॥
आपातमात्ररमणं सद्भावरहितान्तरम् ।
वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते ॥
ये केचन दुरारम्भास् ते सर्वे सर्वदुःखदाः ।
तारुण्ये सन्निधिं यान्ति महोत्पाता इव क्षये ॥
हार्दान्धकारकारिण्या भैरवाकारवान् अपि ।
यौवनाज्ञानयामिन्या बिभेति भगवान् अपि ॥
सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् ।
ददात्य् अतितराम् एष भ्रमं यौवनविभ्रमः ॥
कान्तावियोगजातेन हृदि दुर्धर्षवह्निना ।
यौवने दह्यते जन्तुस् तरुर् दावाग्निना यथा ॥
विस्तीर्णापि प्रसन्नापि पावन्य् अपि हि यौवने ।
मतिः कलुषताम् एति प्रावृषीव तरङ्गिणी ॥
शक्यते घनकल्लोलभीमा रोधयितुं नदी ।
न तु तारुण्यतरला तृष्णातरलितान्तरा ॥
सा कान्ता तौ स्तनौ पीनौ ते विलासास् तद् आननम् ।
तारुण्य इति चिन्ताभिर् याति जर्जरतां जनः ॥
तरत्तरलतृष्णार्तं युवानम् इह साधवः ।
पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा ॥
नाशायैव मदान्धस्य दोषमौक्तिकधारिणः ।
अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥
मनोविपुलमूलानां दोषाशीविषधारिणाम् ।
रोषरोदनवृक्षाणां यौवनं नवकाननम् ॥
रसकेसरसम्बाधं कुविकल्पदलाकुलम् ।
दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥
कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् ।
आधिव्याधिविहङ्गानाम् आलयो नवयौवनम् ॥
जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् ।
अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम् ॥
सर्वेषां गुणपर्णानाम् अपनेतुं रजस् ततः ।
अपनेतुं स्थितो दक्षो विषमो यौवनानिलः ॥
नयन्ति पाण्डुतां वक्त्रम् आकुलावकरोत्कटाः ।
आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥
उद्बोधयति दोषालीं निकृन्तति गुणावलीम् ।
नराणां यौवनोल्लासो विलासो दुष्कृतश्रियः ॥
शरीरपङ्कजरजश् चञ्चलां मतिषट्पदीम् ।
निबध्य मोहयत्य् एष नरं यौवनचन्द्रमाः ॥
शरीरषण्डकोद्भूता रम्या यौवनवल्लरी ।
लग्नम् एव मनोभृङ्गं मदयत्य् उन्नतिं गता ॥
शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् ।
मनोमृगाः प्रधावन्तः पतन्ति विषमावटे ॥
शरीरशर्वरीज्योत्स्ना चित्तकेसरिणस् सटा ।
लहरी जीविताम्भोधेर् युवता मे न रोचते ॥
दिनानि कतिचिद् येयं फलिता देहजङ्गले ।
युवताशरद् अस्यां हि न समाश्वासम् अर्हथ ॥
झगित्य् एव प्रयात्य् एष शरीराद् युवताखगः ।
क्षणेनैवाल्पभाग्यस्य हस्ताच् चिन्तामणिर् यथा ॥
यदा यदा परां कोटिम् अभ्यारोहति यौवनम् ।
वल्गन्ति सरसाः कामास् तदा नाशाय केवलम् ॥
तावद् एव विवल्गन्ति रागद्वेषपिशाचिकाः ।
नास्तम् एति समस्तैषा यावद् यौवनयामिनी ॥
नानाधिकारबहुले वराके क्षणनाशिनि ।
कारुण्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥
हर्षम् आयाति यो मोहात् पुरुषः क्षणभङ्गिना ।
यौवनेन महामुग्धस् स वै नरमृगस् स्मृतः ॥
मानमोहमदोन्मत्तं यौवनं यो ऽभिलष्यति ।
अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते ॥
ते धर्म्यास् ते महात्मानस् त एव पुरुषा भुवि ।
ये सुखेन समुत्तीर्णास् साधो यौवनसङ्कटात् ॥
सुखेन तीर्यते ऽम्भोधिर् उत्कृष्टमकराकरः ।
न कल्लोलवनोल्लासि सदोषं हतयौवनम् ॥
विनयभूषितम् आर्यजनास्पदं करुणयोज्ज्वलम् आवलितं गुणैः ।
इह हि दुर्लभम् अङ्ग सुयौवनं जगति काननम् अम्बरगं यथा ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0