भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.1

1.1.1

दिवि भूमौ तथाकाशे बहिर् अन्तश् च मे विभुः ।
यो ऽवभात्य् अवभासात्मा तस्मै विश्वात्मने नमः ॥

1.1.2

अहम् बद्धो विमुक्तस् स्याम् इति यस्यास्ति निश्चयः ।
नात्यन्ततज्ज्ञो नातज्ज्ञस् सो ऽस्मिञ् शास्त्रे ऽधिकारवान् ॥

1.1.3

कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ ।
यो विचारयति प्राज्ञो न स भूयो ऽभिजायते ॥

1.1.4

अस्मिन् रामायणे नाम कथोपायान् महाफलान् ।
एतांस् तु प्रथमं कृत्वा पुराहम् अरिमर्दन ॥

1.1.5

शिष्यायास्मै विनीताय भरद्वाजाय धीमते ।
एकाग्रो दत्तवान् रम्यान् मणीन् अब्धिर् इवार्थिने ॥

1.1.6

तत एते कथोपाया भरद्वाजेन धीमता ।
कस्मिंश्चिन् मेरुगहने ब्रह्मणो ऽग्र उदाहृताः ॥

1.1.7

अथास्य तुष्टो भगवान् ब्रह्मा लोकपितामहः ।
वरं पुत्र गृहाणेति समुवाच महाशयः ॥

1.1.8

भगवन् भूतभव्येश वरो ऽयं मे ऽद्य रोचते ।
येनेयं जनता दुःखान् मुच्यते तद् उदाहर ॥

1.1.9

गुरुं वाल्मीकिम् अत्राशु प्रार्थयस्व प्रयत्नतः ।
तेनेदं यत् समारब्धं रामायणम् अनिन्दितम् ॥

1.1.10

तस्मिञ् ज्ञाते नरो मोहात् समग्रात् सन्तरिष्यति ।
सेतुनेवाम्बुधेः पारम् अपारगुणशालिना ॥

1.1.11

इत्य् उक्त्वा स भरद्वाजं परमेष्ठी ममाश्रमम् ।
अभ्यागमत् समं तेन भरद्वाजेन भूतकृत् ॥

1.1.12

तूर्णं सम्पूजितो देवस् सो ऽर्घ्यपाद्यादिना मया ।
अवोचन् मां महासत्त्वस् सर्वभूतहिते रतः ॥

1.1.13

रामस्वभावकथनाद् अस्माद् वरमुने त्वया ।
नोद्योगस् सम्परित्याज्य आ समाप्तेर् अनिन्दितात् ॥

1.1.14

ज्ञातेनानेन लोको ऽयम् अस्मात् संसारसङ्कटात् ।
समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥

1.1.15

वक्तुं तवैतम् एवार्थम् अहम् आगतवान् अयम् ।
कुरु लोकहितार्थं त्वं शास्त्रम् इत्य् उक्तवान् अजः ॥

1.1.16

मम पुण्याश्रमात् तस्मात् क्षणाद् अन्तर्धिम् आगतः ।
मुहूर्ताद् उद्यतः प्रोच्चैस् तरङ्ग इव वारिणः ॥

1.1.17

तस्मिन् प्रयाते भगवत्य् अहं विस्मयम् आगतः ।
पुनस् तत्र भरद्वाजम् अपृच्छं स्वच्छया धिया ॥

1.1.18

किम् एतद् ब्रह्मणा प्रोक्तम् भरद्वाज वदाशु मे ।
इत्य् उक्तेन पुनः प्रोक्तम् भरद्वाजेन मे ऽनघ ॥

1.1.19

एतद् उक्तम् भगवता यथा रामायणं कुरु ।
सर्वलोकहितायाशु संसारार्णवपोतकम् ॥

1.1.20

मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे ।
रामो व्यवहृतो ऽप्य् अस्मिन् भरतश् च महामनाः ॥

1.1.21

शत्रुघ्नो लक्ष्मणश् चापि सीता चापि यशस्विनी ।
रामानुयायिनस् ते वा मन्त्रिपुत्रा महाधियः ॥

1.1.22

निर्दुःखतां कथं ते तु प्राप्तास् तद् ब्रूहि मे स्फुटम् ।
तथैवाहं तरिष्यामि ततो जनतया सह ॥

1.1.23

भरद्वाजेन राजेन्द्र यदेत्य् उक्तो ऽस्मि सादरम् ।
तदा कर्तुं विभोर् आज्ञाम् अहं वक्तुं प्रवृत्तवान् ॥

1.1.24

शृणु वत्स भरद्वाज यथापृष्टं वदामि ते ।
श्रुतेन येन सम्मोहम् अलं दूरीकरिष्यसि ॥

1.1.25

तथा व्यवहर प्राज्ञ यथा व्यवहृतस् सुखी ।
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥

1.1.26

लक्ष्मणो भरतश् चैव शत्रुघ्नश् च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस् तथा ॥

1.1.27

कृतास्थश् चाविरोधश् च बोधपारम् उपागतः ।
वसिष्ठो वामदेवश् च मन्त्रिणो ऽष्टौ तथेतरे ॥

1.1.28

घृष्टिर् विकुन्तो भामश् च सत्यवर्धन एव च ।
विभीषणस् सुषेणश् च हनुमान् इन्द्रजित् तथा ॥

1.1.29

एते ऽष्टाविंशतिः प्रोक्तास् समनीरागचेतसः ।
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥

1.1.30

एभिर् यथा हृतं दत्तं गृहीतम् उषितं स्मृतम् ।
तथा चेद् वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥

1.1.31

अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिम् उदारसत्त्वः ।
न शोकम् आयाति न दैन्यम् एति गतज्वरस् तिष्ठति नित्यतृप्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc