भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.18

1.18.1

लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि ।
संसारसागरे जन्म बाल्यं दुःखाय केवलम् ॥

1.18.2

अशक्तिर् आपदस् तृष्णा मूकता मूढबुद्धिता ।
गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥

1.18.3

रोषरोदनरौद्रीषु दैन्यजर्जरितासु च ।
दशासु बन्धनं बाल्यम् आलानं करिणीष्व् इव ॥

1.18.4

न मृतौ न जरारोगे न चापदि न यौवने ।
ताश् चिन्ता विनिकृन्तन्ति हृदयं शैशवेषु याः ॥

1.18.5

तिर्यग्जातिसमारम्भस् सर्वैर् एवावधीरितः ।
लोलो बालजनाचारो मरणाद् अपि दुःखदः ॥

1.18.6

प्रतिबिम्बं घनाज्ञानां नानासङ्कल्पपेलवम् ।
बाल्यम् आलूनसंशीर्णमनः कस्य सुखावहम् ॥

1.18.7

जडश्यामलयाजस्रं जातभीत्या पदे पदे ।
यद् भयं शैशवे बुद्ध्या कस्याम् आपदि तद् भवेत् ॥

1.18.8

लीलासु दुर्विलासेषु दुरीहासु दुराशये ।
परमं मोहम् आदत्ते बालो बलवदापदम् ॥

1.18.9

विकल्पकलिलारम्भं दुर्विलासं दुरास्पदम् ।
शैशवं शासनायैव पुरुषस्य न शान्तये ॥

1.18.10

ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।
ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ॥

1.18.11

बाल्यं रम्यम् इति व्यर्थबुद्धयः कथयन्ति ये ।
तान् मूर्खपुरुषान् ब्रह्मन् धिग् अस्तु हतचेतसः ॥

1.18.12

यत्र लोलाकृति मनः परिस्फुरति वृत्तिषु ।
त्रैलोक्यराज्यम् अपि तत् कथं भवति तुष्टये ॥

1.18.13

सर्वेषाम् एव सत्त्वानां सर्वावस्थासु चैव हि ।
मनश् चञ्चलताम् एति बाल्ये दशगुणं मुने ॥

1.18.14

मनः प्रकृत्यैव चलं बाल्यं च चलतावरम् ।
तयोस् संश्लिष्टयोस् तात केनैवान्तः कुचापले ॥

1.18.15

स्त्रीलोचनैस् तडित्पुञ्जैर् ज्वालामालैस् तरङ्गकैः ।
चापलं शिक्षितं ब्रह्मञ् शैशवान् मनसो ऽथ वा ॥

1.18.16

शैशवं च मनश् चैव सर्वास्व् एव हि वृत्तिषु ।
भ्रातराव् इव लक्ष्येते सततं भङ्गुरस्थिती ॥

1.18.17

सर्वाणि दुष्टभूतानि सर्वे दोषा दुराशयाः ।
बाल्यम् एवोपजीवन्ति श्रीमन्तम् इव मानवाः ॥

1.18.18

नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि ।
प्राप्नोति तद् असौ याति विषवेगस्य मूर्छनाम् ॥

1.18.19

स्तोकेन वशम् आयाति स्तोकेनैति विकारिताम् ।
अमेध्य एव रमते बालः कौलेयको यथा ॥

1.18.20

अजस्रं बाष्पवदनः कर्दमान्तर् जडाशयः ।
वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशश् शिशुः ॥

1.18.21

भयाहारपरं दीनं यथादृष्टाभिलाषि च ।
लोलबुद्धिर् वपुर् धत्ते बालो दुःखाय केवलम् ॥

1.18.22

स्वसङ्कल्पाभिलषितान् भावान् अप्राप्य तप्तधीः ।
दुःखम् एत्य् अबलो बालो विनिकृत्त इवाशये ॥

1.18.23

दुरीहालब्धलक्ष्याणि बहुपक्षोल्वणानि च ।
बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥

1.18.24

बालो बलवताश्व् एव मनोरथविलासिना ।
मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थलम् ॥

1.18.25

विद्यागृहगतो बालः पराम् एति कदर्थनाम् ।
आलान इव नागेन्द्रो विषवैषम्यभीषणाम् ॥

1.18.26

नानामनोरथमयी मिथ्याकल्पितकल्पना ।
दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥

1.18.27

सम्भृष्टं तुहिनं भोक्तुम् इन्दुम् आदातुम् अम्बरात् ।
वाञ्छ्यते येन मौर्ख्येण तत् सुखाय कथं भवेत् ॥

1.18.28

अन्तश्चितेर् अशक्तस्य शीतातपनिवारणे ।
को विशेषो महाबुद्धे बालस्योर्वीरुहस्य च ॥

1.18.29

उड्डीनम् अभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।
भयाहारपरा नित्यं बाला विहगधर्मिणः ॥

1.18.30

शैशवे गुरुतो भीतिर् मातृतः पितृतस् तथा ।
जनतो ज्येष्ठबालाच् च शैशवं भयमन्दिरम् ॥

1.18.31

सकलदोषदशाविहताशयं शरणम् अप्य् अविवेकविलासिनः ।
इह न कस्यचिद् एव महामुने भवति बाल्यम् अलं परितुष्टिदम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc