मोक्षोपाय · अध्याय 1.17
आर्द्रान्त्रतन्त्रीगहनो विकारी परितापवान् ।
देहस् स्फुरति संसारे सो ऽपि दुःखाय केवलम् ॥
अज्ञो ऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।
युक्त्या भव्यो ऽप्य् अभव्यो मे न जडो नापि चेतनः ॥
जडाजडदृशोर् मध्ये दोलायितदुराशयः ।
न विवेकी न मूढात्मा मोहम् एव प्रयच्छति ॥
स्तोकेनानन्दम् आयाति स्तोकेनायाति खेदिताम् ।
नास्ति देहसमश् शोच्यो नीचो गुणबहिष्कृतः ॥
आगमापायिना नित्यं दन्तकेसरशालिना ।
विकासिस्मितपुष्पेण प्रतिक्षणम् अलङ्कृतः ॥
भुजशाखौघनमितो द्विजानुस्तम्भसुस्थितः ।
लोचनालिवपाक्रान्तश् शिरःपीठबृहत्फलः ॥
स्रवदस्रुरसस्रोता हस्तपादसुपल्लवः ।
गुल्फवान् कार्यसङ्घातविहङ्गमततास्पदम् ॥
सच्छायो देहवृक्षो ऽयं जीवपान्थगणास्पदम् ।
कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥
भारसन्तारणार्थेन गृहीतायां पुनः पुनः ।
नावि देहलतायां च कस्य स्याद् आत्मभावना ॥
देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।
तनूरुहासङ्ख्यतरौ विश्वासं को ऽधिगच्छति ॥
चर्मस्नाय्वस्थिवलिते शरीरपटहे दृढे ।
मार्जारवद् अहं नान्तस् तिष्ठाम्य् अविरतध्वनौ ॥
संसारारण्यसंरूढो विलसच्चित्तमर्कटः ।
चिन्तामञ्जरिकाकारो दीर्घदुःखघुणक्षतः ॥
तृष्णाभुजङ्गमीगेहः कोपकाककृतालयः ।
स्मितपुष्पो द्रुमश् श्रीमाञ् शुभाशुभमहाफलः ॥
सुस्कन्धो दोर्लताजालो हस्तस्तबकसुन्दरः ।
पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥
सर्वेन्द्रियखगाधारस् सुजानुस् सुत्वग् उन्नतः ।
सरसच्छायया युक्तः कामपान्थनिषेवितः ॥
मूर्ध्नि सञ्जनितादीर्घशिरोरुहतृणावलिः ।
अहङ्कारजरद्गृद्धकुलायसुषिरोदरः ॥
उद्भिन्नवासनाजालमूलत्वाद् दुर्बलाकृतिः ।
व्यायामविरमः कायवृक्षो ऽयं न सुखाय मे ॥
कलेवरम् अहङ्कारगृहस्थस्य महागृहम् ।
लुठत्व् अभ्येतु वा स्थैर्यं किम् अनेन मुने हि मे ॥
पङ्क्तिबद्धेन्द्रियपशु वल्गत्तृष्णागृहाङ्गनम् ।
रजोरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥
काष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् ।
अन्त्रदामभिर् आबद्धं नेष्टं देहगृहं मम ॥
प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् ।
जरामक्कोलधवलं नेष्टं देहगृहं मम ॥
चित्रकृत्यभृतानन्तचेष्टावष्टब्धसंस्थिति ।
मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥
दुःखार्भककृताक्रन्दं सुखशय्यामनोहरम् ।
दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥
मलाढ्यविषयव्यूहभाण्डोपस्करसङ्कटम् ।
अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥
गुल्फगुल्गुलुविश्रान्तजानूच्चस्तम्भमस्तकम् ।
दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥
प्रकटाक्षगवाक्षान्तःक्रीडत्प्रज्ञागृहाङ्गनम् ।
चिन्तादुहितृकं ब्रह्मन् नेष्टं देहगृहं मम ॥
मूर्धजच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् ।
आदीर्घाङ्गुलिनिर्यूहं नेष्टं देहगृहं मम ॥
सर्वाङ्गकुड्यसञ्जातघनरोमयवाङ्कुरम् ।
संशून्यपीठपिठिरं नेष्टं देहगृहं मम ॥
नखोर्णनाभनिलयैश् शारम् आरणितान्तरम् ।
भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥
प्रवेशनिर्गमव्यग्रवातवेगम् अनारतम् ।
वितताक्षगवाक्षं च नेष्टं देहगृहं मम ॥
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥
त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् ।
मनोऽमन्दाखुनोत्खातं नेष्टं देहगृहं मम ॥
स्मितदीपप्रभाभासि क्षणम् आनन्दसुन्दरम् ।
क्षणं व्याप्तं प्रभापूरैर् नेष्टं देहगृहं मम ॥
समस्तरोगायतनं वलीपलितपत्तनम् ।
सर्वाधिसारङ्गवनं नेष्टं मम कलेवरम् ॥
अक्षर्क्षक्षोभविषमा शून्या निस्सारकोटरा ।
तमोगहनहृत्कुञ्जा नेष्टा देहाटवी मम ॥
देहालयं धारयितुं न शक्तो ऽस्मि मुनीश्वराः ।
पङ्कमग्नं समुद्धर्तुं गजम् अल्पबलो यथा ॥
किं श्रिया किं च कायेन किं कामेन किम् ईहया ।
दिनैः कतिपयैर् एव कालस् सर्वं निकृन्तति ॥
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने ।
नाशैकधर्मिणो ब्रूहि केव कायस्य रम्यता ॥
मरणावसरे काया जीवं नानुसरन्ति ये ।
तेषु तात कृतघ्नेषु केवास्था वत धीमतः ॥
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः ।
न सन्त्यजति मां यावत् तावद् एनं त्यजाम्य् अहम् ॥
पवनस्पन्दतरलः पेलवः कायपल्लवः ।
जर्जरस् तनुवृत्तश् च नेष्टो ऽयं कटुनीरसः ॥
भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवम् ।
तनुताम् एत्य यत्नेन विनाशम् अनुधावति ॥
तान्य् एव सुखदुःखानि भावाभावमयान्य् असौ ।
भूयो ऽप्य् अनुभवन् कायः प्राकृतो हि न लज्जते ॥
सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।
नोच्छ्रायम् एति न स्थैर्यं कायः किम् इति पाल्यते ॥
जराकाले जराम् एति मृत्युकाले तथा मृतिम् ।
समम् एवाविशेषज्ञः कायो भोगिदरिद्रयोः ॥
संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे ।
सुप्तस् तिष्ठति मुक्तेहो मूको ऽयं कायकच्छपः ॥
दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।
संसाराब्धाव् इहोह्यन्ते कञ्चित् तेषु नरं विदुः ॥
दीर्घदौरात्म्यचलया निपातफलयानया ।
न देहलतया कार्यं किञ्चिद् अस्ति विवेकिनः ॥
मज्जन् कर्दमकोशेषु झगित्य् एव जरां गतः ।
न ज्ञायते यात्य् अचिरात् क्व कथं देहदर्दुरः ॥
निस्सारसकलारम्भाः कायाश् चपलवायवः ।
रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥
वायोर् दीपस्य मनसो गच्छतो ज्ञायते गतिः ।
आगच्छतश् च भगवन् न शरीरशरस्य नः ॥
बद्धाशा ये शरीरेषु बद्धाशा ये जगत्स्थितौ ।
तान् मोहमदिरोन्मत्तान् धिग् धिग् अस्तु पुनः पुनः ॥
नाहं देहस्य नो देहो मम नायम् अहं तथा ।
इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥
मानावमानबहुला बहुलाभमनोरमाः ।
शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥
शरीरसङ्गशायिन्या पिशाच्या पेशलाङ्गया ।
अहङ्कारचमत्कृत्या छलेन च्छलिता वयम् ॥
प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया ।
मिथ्याज्ञानकुराक्षस्या छलिता कष्टम् एकिका ॥
न किञ्चिद् अपि यस्यास्ति सत्यं तेन हतात्मना ।
चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥
दिनैः कतिपयैर् एव निर्झराम्बुकणो यथा ।
पतत्य् अयम् अयत्नेन जर्जरः कायपल्लवः ॥
कायो ऽयम् अचिरापायो बुद्बुदो ऽम्बुनिधाव् इव ।
व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥
मिथ्याज्ञानविकारे ऽस्मिन् स्वप्नसम्भ्रमपत्तने ।
काये स्फुटतरापाये क्षणम् आस्था न मे द्विज ॥
तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।
स्थैर्यं येन विनिर्णीतं स विश्वसिति विग्रहे ॥
सततभङ्गुरकार्यपरम्पराविजयि जातजयं शठवृत्तिषु ।
सकलदोषम् इदं कुकलेवरं तृणम् इवाहम् उपोज्झ्य सुखं स्थितः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0