मोक्षोपाय · अध्याय 1.16
हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया ।
चरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥
अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।
पङ्क आदित्यदीप्त्येव शोषं नीतो ऽस्मि चिन्तया ॥
मम चित्तमहारण्ये व्यामोहतिमिराकुले ।
शून्ये ताण्डविनी मत्ता भृशम् आशापिशाचिका ॥
रजोरचितनीहारा काञ्चनावचयोज्ज्वला ।
नूनं विकासम् आयाति चिन्ता मे ऽशोकमञ्जरी ॥
अलम् अन्तर् भ्रमायैषा तृष्णा कवलिताशया ।
आयाता विषमोल्लासम् ऊर्मिर् अम्बुनिधाव् इव ॥
उद्दामकल्लोलरवा देहाद्रौ वहतीव मे ।
तरङ्गिततराकारा तरत्तृष्णातरङ्गिणी ॥
वेगं संरोद्धुम् उदितो वात्ययेव जरत्तृणम् ।
नीतः कलुषया क्वापि धियायं चित्तचातकः ॥
यां याम् अहम् अधीतास्थाम् आश्रयामि गुणश्रियम् ।
तां तां कृन्तति मे तृष्णा तन्त्रीम् इव कुमूषिका ॥
पयसीव जरत्पर्णं वायाव् इव जरत्तृणम् ।
नभसीव शरन्मेघश् चिन्ताचक्रे भ्रमाम्य् अहम् ॥
गन्तुम् आस्पदम् आत्मीयम् असमर्थधियो वयम् ।
चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥
तृष्णाभिधानया तात दग्धो ऽस्मि ज्वालया तथा ।
यथा दाहोपशमनम् आशङ्के नामृतैर् अपि ॥
दूरं दूरम् इतो गत्वा समेत्य च पुनः पुनः ।
भ्रमत्य् आशु दिगन्तेषु तृष्णोन्मत्ततुरङ्गमी ॥
जडसंसङ्गिनी तृष्णा कृतोर्ध्वाधोगमागमा ।
क्षुब्धा ग्रन्थिमती नित्यम् अरघट्टोग्ररज्जुवत् ॥
अन्तर् ग्रथितया देहे सम्भ्रमोच्छिद्यमानया ।
रज्ज्वेवाशु बलीवर्दस् तृष्णया वाह्यते जनः ॥
पुत्रदारकलत्रादितृष्णया नित्यकृष्णया ।
खगेष्व् इव किरात्येह जालं लोकेषु रच्यते ॥
भाययत्य् अपि धीरेहम् अन्धयत्य् अपि सेक्षणम् ।
खेदयत्य् अपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥
कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।
दहत्य् अपि मनाक् स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥
भिनत्ति हृदयं पुंसां मायामयविधायिनी ।
दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥
तन्द्रातन्त्रीगणं कोशे दधाना परिवेष्टितम् ।
नानन्दे राजते ब्रह्मंस् तृष्णाजर्जरवल्लकी ॥
नित्यम् एवातिमलिना कटुकोन्मादशालिनी ।
दीर्घा तन्वी घनस्नेहा तृष्णागह्वरवल्लरी ॥
अनानन्दकरी शून्या निष्फलात्यर्थम् उन्नता ।
अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥
अनावर्जितचित्तापि सर्वम् एवानुधावति ।
न चाप्नोति फलं किञ्चित् तृष्णा जीर्णेव कामिनी ॥
संसारनृत्ते महति नानारससमाकुले ।
भुवनाभोगरङ्गेषु तृष्णा जरढनर्तकी ॥
जराकुसुमितारूढा पातोत्पातफलावलिः ।
संसारजङ्गले दीर्घे तृष्णाविषलता तता ॥
यन् न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् ।
नृत्यत्य् आनन्दरहितं तृष्णा जीर्णेव नर्तकी ॥
भृशं स्फुरति नीहारे शाम्यत्य् आलोक आगते ।
दुःखौघेषु पदं धत्ते तृष्णाचपलबर्हिणी ॥
जडकल्लोलबहला चिरं शून्यतरान्तरा ।
क्षणम् उल्लासम् आयाति तृष्णाप्रावृट्तरङ्गिणी ॥
नष्टम् उत्सृज्य तिष्ठन्तं वृक्षाद् वृक्षम् इवापरम् ।
पुरुषात् पुरुषं याति तृष्णा लोलेव पक्षिणी ॥
पदं करोत्य् अलङ्घ्ये ऽपि तृप्तापि फलम् ईहते ।
चिरं तिष्ठति नैकत्र तृष्णाचपलमर्कटी ॥
इदं कृत्वेदम् आयाति सर्वम् एवासमञ्जसम् ।
अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥
क्षणम् आयाति पातालं क्षणं याति नभस्तलम् ।
क्षणं भ्रमति दिक्कुञ्जे तृष्णाहृत्पद्मषट्पदी ॥
सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।
अन्तःपुरस्थम् अपि या योजयत्य् अतिसङ्कटे ॥
प्रयच्छति परं जाड्यं परमालोकरोधिनी ।
मोहनीहारगहना तृष्णाजलदमालिका ॥
सर्वेषां जन्तुजालानां संसारव्यवहारिणाम् ।
परिप्रोतमनोमालास् तृष्णा बन्धनरज्जवः ॥
विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः ।
शून्या शून्यास्पदा तृष्णा शक्रकार्मुकधर्मिणी ॥
अशनिर् गुणसस्यानां फलिता शरद् आपदे ।
हिमं सम्पत्सरोजिन्यास् तमसां दीर्घयामिनी ॥
संसारनाटकनटी कायालयविहङ्गमी ।
मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥
व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला ।
मार्गन्यग्रोधसुभगा दुःखकैरवचन्द्रिका ॥
जरामरणदुःखानाम् एका रत्नसमुद्गिका ।
आधिव्याधिविलासानां नित्यमत्ता विलासिनी ॥
क्षणम् आलोकविमला सान्धकारलवा क्षणम् ।
व्योमवीथीसमा तृष्णा नीहारगहना क्षणम् ॥
गच्छतूपशमं तृष्णा कार्यव्यायामशान्तये ।
तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥
तावन् मुह्यत्य् अयं लोको मूको विलुलिताशयः ।
यावद् एवानुसन्धत्ते तृष्णाविषविषूचिकाम् ॥
लोको ऽयम् अखिलं दुःखं चिन्तयोज्झित उज्झति ।
चिन्ताविषूचिकामन्त्रश् चिन्तात्यागो हि कथ्यते ॥
तृणपाषाणकाष्ठादि सर्वम् आमिषशङ्कया ।
आदधाना स्फुरत्य् अन्तस् तृष्णा मत्स्यी ह्रदे यथा ॥
रोगार्तिरङ्गगा तृष्णा गम्भीरम् अपि मानवम् ।
उत्तानतां नयत्य् आशु सूर्यांशव इवाम्बुजम् ॥
अन्तश्शून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः ।
मुक्तामणिश्रियो नित्यं तृष्णा वेणुलता इव ॥
अहो बत महच् चित्रं तृष्णाम् अपि महाधियः ।
दुश्छेद्याम् अपि कृन्तन्ति विवेकेनामलासिना ॥
नासिधारा न वज्राग्निर् न तप्तायःकणार्चिषः ।
तथा तीक्ष्णा यथा ब्रह्मंस् तृष्णेयं हृदि संस्थिता ॥
कज्जलासिततीक्ष्णाग्रास् स्नेहदीर्घदशापराः ।
प्रकाशा दाहदस्पर्शास् तृष्णा दीपशिखा इव ॥
अपि मेरूपमं प्राज्ञम् अपि शूरम् अपि स्थिरम् ।
तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥
विस्तीर्णगहना भीमा घनजालरजोमयी ।
सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहाटवी ॥
एकैव सर्वभुवनान्तरलब्धलक्ष्या दुर्लक्षताम् उपगतेव पुरस्स्थितैव ।
तृष्णा स्थिता जगति चञ्चलवीचिमाले क्षीरार्णवाम्बुपटले मधुरेव शक्तिः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0