मोक्षोपाय · अध्याय 1.15
दोषैर् जर्जरतां यातं सत्कार्याद् आर्यसेवितात् ।
वातात्तपिञ्छलववच् चेतश् चलति चञ्चलम् ॥
इतश् चेतश् च सुव्यग्रं व्यर्थम् एवाभिधावति ।
दूराद् दूरतरं दीनं ग्रामे कौलेयको यथा ॥
न प्राप्नोति क्वचित् किञ्चित् प्राप्तैर् अपि महाधनैः ।
नान्तस् सम्पूर्णताम् एति करण्डक इवाम्बुभिः ॥
नित्यम् एव मनश् शून्यं कदाशावागुरावृतम् ।
न मनाङ् निर्वृतिं याति मृगो यूथाद् इव च्युतः ॥
तरङ्गतरलां वृत्तिं दधद् आलूनशीर्णताम् ।
परित्यज्य क्षणम् अपि न मनो याति निर्वृतिम् ॥
मनो मननविक्षुब्धं दिशो दश विधावति ।
मन्दराहननोद्धूतं क्षीरार्णवपयो यथा ॥
कल्लोलकलनावर्तं मायामकरमालिनम् ।
न निरोद्धुं समर्थो ऽस्मि मनोमोहमहार्णवम् ॥
भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातम् अचिन्तयन् ।
मनोहरिणको ब्रह्मन् दूरं विपरिधावति ॥
न कदाचन मे चेतस् ताम् आलूनविशीर्णताम् ।
त्यजत्य् आकुलया वृत्त्या चञ्चलत्वम् इवार्णवः ॥
चेतश् चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।
धृतिं बध्नाति नैकत्र केसरी पञ्जरे यथा ॥
मनो मोहरथारूढं शरीराच् छमतासुखम् ।
हरत्य् उपगतोद्योगं हंसः क्षीरम् इवाम्भसः ॥
अनल्पकल्पनातल्पे निलीनाश् चित्तवृत्तयः ।
मुनीन्द्र न प्रबुध्यन्ते तेन तप्तो ऽहम् आकुलः ॥
क्रोडीकृतदृढग्रन्थितृष्णासूत्रोम्भितात्मना ।
विहगो जालकेनेव ब्रह्मन् बद्धो ऽस्मि चेतसा ॥
सततामर्षधूमेन चिन्ताज्वालाबिलेन च ।
वह्निनेव तृणं शुष्कं मुने दग्धो ऽस्मि चेतसा ॥
क्रूरेण जडतां यातस् तृष्णाभार्यानुगामिना ।
शवः कौलेयकेनेव ब्रह्मन् भुक्तो ऽस्मि चेतसा ॥
तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।
तटवृक्ष इवौघेन ब्रह्मन् नीतो ऽस्मि चेतसा ॥
अवान्तरनिपाताय शून्येनाक्रमणाय च ।
तृणं चण्डानिलेनेव दूरे नुन्नो ऽस्मि चेतसा ॥
संसारजलधेर् अस्मान् नित्यम् उत्तरणोन्मुखः ।
सेतुनेव पयःपूरो रोधितो ऽस्मि कुचेतसा ॥
पातालाद् गच्छता पृष्ठं पृष्ठात् पातालगामिना ।
कूपकाष्ठं कुदाम्नेव वेष्टितो ह्य् अस्मि चेतसा ॥
मिथ्यैव स्फाररूपेण विचारविशरारुणा ।
बालो वेतालकेनेव गृहीतो ऽस्मि स्वचेतसा ॥
वह्नेर् उष्णतरश् शैलाद् अपि कष्टतरक्रमः ।
वज्राद् अपि दृढो ब्रह्मन् दुर्निग्रहमनोग्रहः ॥
चेतः पतति कार्येषु विहगश् चामिषेष्व् इव ।
क्षणेन विरतिं याति बालः क्रीडनकाद् इव ॥
जडप्रकृतिर् आलोलो विततावर्तवृत्तिमान् ।
मनोऽब्धिर् ईहितव्यालो दूरान् नयति तात माम् ॥
अप्य् अब्धिपानान् महतस् सुमेरूल्लङ्घनाद् अपि ।
अपि वह्न्यशनात् साधो विषमश् चित्तनिग्रहः ॥
चित्तं कारणम् अर्थानां तस्मिन् सति जगत्त्रयम् ।
तस्मिन् क्षीणे जगत् क्षीणं तच् चिकित्स्यं प्रयत्नतः ॥
चित्ताद् इमानि सुखदुःखशतानि नूनम् अभ्यागतान्य् अगवराद् इव काननानि ।
तस्मिन् विवेकवशतस् तनुतां प्रयाते मन्ये मुने निपुणम् एव गलन्ति तानि ॥
सकलगुणजयाशा यत्र बद्धा महद्भिस् तम् अरिम् इह विजेतुं चित्तम् अभ्युत्थितो ऽहम् ।
विगतरतितयान्तर् नाभिनन्दामि लक्ष्मीं जडमलिनविशालां मेघमालाम् इवेन्दुः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0