भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.14

1.14.1

मुधैवाभ्युत्थितो मोहान् मुधैव परिवर्धते ।
मिथ्यामयेन भीतो ऽस्मि दुरहङ्कारशत्रुणा ॥

1.14.2

अहङ्कारवशाद् एव दोषकोशः कदर्थनाम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः ॥

1.14.3

अहङ्कारवशाद् आपद् अहङ्काराद् दुराधयः ।
अहङ्कारवशाद् ईहाप्य् अहङ्कारो महामयः ॥

1.14.4

तम् अहङ्कारम् आश्रित्य परमं चिरवैरिणम् ।
न भुञ्जे न पिबाम्य् अम्भः किम् उ भोगान् भजे मुने ॥

1.14.5

संसाररज्जुर् आदीर्घा मम चेतसि मोहिनी ।
तताहङ्कारदोषेण किरातेनेव वागुरा ॥

1.14.6

यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहङ्कारात् प्रसूतानि तान्य् अगात् खदिरा इव ॥

1.14.7

शमेन्दोस् सैंहिकेयास्यं गुणपद्ममहाशनिम् ।
ज्ञानमेघशरत्कालम् अहङ्कारं त्यजाम्य् अहम् ॥

1.14.8

नाहं रामो न मे वाञ्छा भावेषु च न मे मनः ।
शान्त आसितुम् इच्छामि स्वात्मन्य् एव जिनो यथा ॥

1.14.9

अहङ्कारवशाद् यद् यन् मया भुक्तं कृतं हृतम् ।
सर्वं तु तद् अवस्त्व् एव वस्त्व् अहङ्काररिक्तता ॥

1.14.10

अहम् इत्य् अस्ति चेद् ब्रह्मन्न् अहम् आपदि दुःखितः ।
सम्पत्सु सुखितस् तस्माद् अनहङ्कारिताधनः ॥

1.14.11

अहङ्कारं परित्यज्य मुने शान्तमनास् तथा ।
अवतिष्ठे गतोद्वेगो भोगौघे ऽभङ्गुरास्पदम् ॥

1.14.12

ब्रह्मन् यावद् अहङ्कारवारिदः प्रविजृम्भते ।
तावद् विकासम् आयाति तृष्णाकुटजमञ्जरी ॥

1.14.13

अहङ्कारघने शान्ते तृष्णानवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यास्यति सत्वरम् ॥

1.14.14

अहङ्कारमहाविन्ध्ये मनोमत्तमतङ्गजः ।
विस्फूर्जति घनास्फोटैस् स्तनितैर् इव वारिदः ॥

1.14.15

इह देहमहादर्यां घनाहङ्कारकेसरी ।
यो ऽयम् उल्लसति स्फारं तेनेदं जगद् आततम् ॥

1.14.16

तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहङ्कारोग्रशिड्गेन कण्ठे मुक्तावली कृता ॥

1.14.17

पुत्रदारकलत्राणि तन्त्रं मन्त्रविवर्जितम् ।
प्रसारितम् अनेनेह दुरहङ्कारवैरिणा ॥

1.14.18

प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे स्वयम् अखिद्यता ।
प्रमार्जिता भवन्त्य् एव सर्व एव दुराधयः ॥

1.14.19

अहम् इत्य् अम्बुदे शान्ते शनैस् सुशमशालिनि ।
मनोमननसम्मोहमिहिका क्वापि गच्छति ॥

1.14.20

निरहङ्कारवृत्तेर् मे मौर्ख्याच् छोकेन सीदतः ।
यत् किञ्चिद् उचितं ब्रह्मंस् तद् आख्यातुम् इहार्हसि ॥

1.14.21

सर्वापदां निलयम् अध्रुवम् अन्तरस्थम् उन्मुक्तम् उत्तमगुणेन न संश्रयामि ।
यत्नाद् अहङ्कृतिपदं परितो ऽतिदुःखं शेषेण मां समनुशाधि महानुभाव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc