भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.13

1.13.1

आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
उन्मत्तम् इव सन्त्यज्य यात्य् अकाण्डे शरीरकम् ॥

1.13.2

विषयाशीर्विषासङ्गपरिजर्जरचेतसाम् ।
अप्रौढात्मविवेकानाम् आयुर् आयासकारणम् ॥

1.13.3

ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।
भावाभावसमाश्वस्ता आयुस् तेषां सुखायते ॥

1.13.4

वयं परिमिताकारपरिनिष्ठितनिश्चयाः ।
संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥

1.13.5

युज्यते वेष्टनं वायाव् आकाशस्यावखण्डनम् ।
ग्रथनं च तरङ्गाणाम् आस्था नायुषि युज्यते ॥

1.13.6

पेलवं शरदीवाभ्रम् अस्नेहम् इव दीपकम् ।
तरङ्गकम् इवालोलं गतम् एवोपलक्ष्यते ॥

1.13.7

तरङ्गप्रतिबिम्बेन्दुं तडित्पुञ्जं नभोऽम्बुदे ।
ग्रहीतुम् आस्थां बध्नामि न त्व् आयुषि गतस्थितौ ॥

1.13.8

अविश्रान्तमनाश् शून्यम् आयुर् आततम् ईहते ।
दुःखायैव विमूढो ऽन्तर् गर्भम् अश्वतरी यथा ॥

1.13.9

संसारसंसृताव् अम्भः फेनो ऽस्मिन् सर्गसागरे ।
कायवल्ल्यां रसो राजञ् जीवितं मे न रोचते ॥

1.13.10

प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते ।
पराया निर्वृतेस् स्थानं यत् तज् जीवितम् उच्यते ॥

1.13.11

तरवो ऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य मननेन न जीवति ॥

1.13.12

जातास् त एव जगति जन्तवस् साधुजीविताः ।
ये पुनर् नेह जायन्ते शेषा जानीत गर्दभाः ॥

1.13.13

भारो ऽविवेकिनश् शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तं च मनो भारो भारो ऽनात्मविदो वपुः ॥

1.13.14

रूपम् आयुर् मनो बुद्धिर् अहङ्कारस् तथेहितम् ।
भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥

1.13.15

अविश्रान्तमनःपूर्णम् आपदां परमास्पदम् ।
नीडो रोगविहङ्गानाम् आयुर् आयासनं दृढम् ॥

1.13.16

प्रत्यहं खेदम् उत्सृज्य शनैर् अलम् अनारतम् ।
आश्व् एव जन्मनश् श्वभ्रं कालेन विनिखन्यते ॥

1.13.17

शरीरबिलविश्रान्तैर् विषदाहप्रदायिभिः ।
रोगैर् निपीयते रौद्रैर् व्यालैर् इव वनानिलः ॥

1.13.18

प्रसुवानैर् अवच्छेदं तुच्छैर् अन्तरवासिभिः ।
दुःखैर् आकृष्यते क्रूरैर् घुणैर् इव जरद्द्रुमः ॥

1.13.19

नूनं निगिरणायाशु घनगर्वम् अनारतम् ।
आखुर् मार्जारकेणेव मरणेनावलोक्यते ॥

1.13.20

गर्वादिगुणगर्भिण्या शून्ययाशक्तिवश्यया ।
अन्नं महाशनेनेव जरसा परिजीर्यते ॥

1.13.21

दिनैः कतिपयैर् एव परिज्ञाय गतादरम् ।
दुर्जनस् सज्जनेनेव यौवनेनावमुच्यते ॥

1.13.22

विनाशसुहृदा नित्यं जरामरणबन्धुना ।
रूपं शिड्गवरेणेव कृतान्तेनाभिलष्यते ॥

1.13.23

स्थिरतया सुखहारितया तया सततम् उज्झितम् उत्तम फल्गु च ।
जगति नास्ति तथा गुणवर्जितं मरणमार्जितम् आयुर् इदं यथा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc