भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 1.12

1.12.1

इयम् अस्मिन् विनोदाय संसारे परिकल्पिता ।
श्रीर् मुने परिमोहाय सापि नूनम् अनर्थदा ॥

1.12.2

उल्लासबहुलान् अन्तः कल्लोलान् अक्रमाकुलान् ।
जडान् प्रस्रवति स्फारान् प्रावृषीव तरङ्गिणी ॥

1.12.3

चिन्तादुहितरो बह्व्यो भूरिदुर्ललितेरिताः ।
चञ्चलाः प्रभवन्त्य् अस्यास् तरङ्गास् सरितो यथा ॥

1.12.4

एषा हि पदम् एकत्र न निबध्नाति दुर्भगा ।
मुग्धेवानियताचारम् इतश् चेतश् च धावति ॥

1.12.5

जनयन्ती परं दाहं परामृष्टाङ्गिका सती ।
विनाशम् एव धत्ते ऽन्तर् दीपलेखेव कज्जलम् ॥

1.12.6

गुणागुणविचारेण विनैव किल पार्श्वगम् ।
राजप्रकृतिवन् मूढा दुरारूढावलम्बते ॥

1.12.7

कर्मणा तेन तेनैषा विस्तारम् उपगच्छति ।
दोषाशीविषवेगस्य यत् क्षीरविसरायते ॥

1.12.8

तावच् छीतमृदुस्पर्शः परे स्वे च जने जनः ।
वात्ययेव हिमं यावच् छ्रिया न परुषीकृतः ॥

1.12.9

प्राज्ञाश् शूराः कृतज्ञाश् च पेशला मृदवश् च ये ।
पांसुमुष्ट्येव मणयश् श्रिया ते मलिनीकृताः ॥

1.12.10

न श्रीस् सुखाय भगवन् दुःखायैव हि कल्पते ।
गुप्तं विनाशनं धत्ते मृतिं विषलता यथा ॥

1.12.11

श्रीमान् अजननिन्द्यश् च शूरश् चाप्य् अविकत्थनः ।
समदृष्टिः प्रभुश् चैव दुर्लभाः पुरुषास् त्रयः ॥

1.12.12

एषा हि विषमा दुःखभोगिनां गहना गुहा ।
घनमोहगजेन्द्राणां विन्ध्यशैलमहाटवी ॥

1.12.13

सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका ।
सद्दृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥

1.12.14

सम्भ्रमाभ्राद्रिपदवी विषादविषवर्धिनी ।
केदारिका विकल्पानां खदा कुभयभोगिनाम् ॥

1.12.15

हिमं वैराग्यवल्लीनां विकारोलूकयामिनी ।
राहुदंष्ट्रा विवेकेन्दोस् सौजन्याम्भोजचन्द्रिका ॥

1.12.16

इन्द्रायुधवद् आलोलनानारागमनोहरा ।
लोला तडिद् इवोत्पन्नध्वंसिनी जडसंश्रया ॥

1.12.17

चपला वर्जिता रत्या नकुली नकुलीनजा ।
विप्रलम्भनतात्पर्यहेतूग्रमृगतृष्णिका ॥

1.12.18

लहरीवैकरूपेण क्षणं पदम् अकुर्वती ।
चला दीपशिखेवातिदुर्ज्ञेयागतिगोचरा ॥

1.12.19

सिंहीव विग्रहव्यग्रकरीन्द्रकुलपातिनी ।
खड्गधारेव शिशिरा तीक्ष्णा तीक्ष्णाशयाश्रया ॥

1.12.20

नानयोपहतार्थिन्या दुराधिपरिपीनया ।
पश्याम्य् अभव्यया लक्ष्म्या किञ्चिद् दुःखाद् ऋते सुखम् ॥

1.12.21

द्वारेणोत्सारिता लक्ष्मीः पुनर् एति तमोऽरिणा ।
अहो वत हृतस्थाना निर्लज्जा दुर्जनास्पदा ॥

1.12.22

मनोरमा कर्षति चित्तवृत्तिं कदर्यसाध्या क्षणभङ्गुरा च ।
व्यालावलीगर्भनिवृत्तदेहा श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc