मोक्षोपाय · अध्याय 1.11
इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः ।
उवाच वचनं चारु धीरपूर्णार्थमन्थरम् ॥
भगवन् भवता पृष्टो यथावद् अधुना किल ।
कथयाम्य् अहम् अज्ञो ऽपि को लङ्घयति सद्वचः ॥
अहं तावद् अयं जातो निजे ऽस्मिन् पितृसद्मनि ।
क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश् च संस्थितः ॥
ततस् सदाचारपरो भूत्वाहं मुनिनायक ।
विहृतस् तीर्थयात्रार्थम् उर्वीम् अम्बुधिमेखलाम् ॥
एतावताथ कालेन संसारास्थाम् इमां मम ।
स्वविवेको जहारान्तर् ओघस् तटलताम् इव ॥
विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।
भोगनीरसया बुद्ध्या प्रविचारितवान् इदम् ॥
किं नामेदं वत सुखं यो ऽयं संसारसंसृतिः ।
जायते मृतये लोको म्रियते जननाय च ॥
स्वस्थितास् सर्व एवेमे सचराचरचेष्टिताः ।
आपदां पतयः पापा भावा विभवभूमयः ॥
अयश्शलाकासदृशाः परस्परम् असङ्गिनः ।
श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥
मनस्समायत्तम् इदं जगद् आभोगि दृश्यते ।
मनश् चासद् इहाभाति केन स्मः परिमोहिताः ॥
असतैव वयं कष्टं विक्रीता मूढबुद्धयः ।
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥
न केनचिच् च विक्रीता विक्रीता इव संस्थिताः ।
वत मूढा वयं सर्वे जानाना अपि शम्बरम् ॥
किम् एतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।
मुधैव हि वयं मोहात् संस्थिता बद्धभावनाः ॥
अज्ञाते बहुकालेन व्यर्थ एव वयं घने ।
मोहे निपतिता मुग्धाश् श्वभ्रे मुग्धमृगा इव ॥
किं मे राज्येन किं भोगैः को ऽहं किम् इदम् आगतम् ।
यन् मिथ्यैवास्तु तन् मिथ्या कस्य नाम किम् आगतम् ॥
एवं विमृशतो ब्रह्मन् सर्वेष्व् एव ततो मम ।
भावेष्व् अरतिर् आयाता पथिकस्य मरुष्व् इव ॥
तद् एतद् भगवन् ब्रूहि किम् इदं परिनश्यति ।
किम् इदं जायते भूयः किम् इदं परिवर्धते ॥
जरामरणम् आपच् च जननं सम्पदस् तथा ।
आविर्भावतिरोभावैर् विवर्तन्ते पुनः पुनः ॥
भावैस् तैर् एव तैर् एव तुच्छैर् वयम् इमे किल ।
पश्य जर्जरतां नीता वातैर् इव गिरिद्रुमाः ॥
अचेतना इव जनाः पवनैः प्राणनामभिः ।
ध्वनन्तस् संस्थिता व्यर्थं यथा कीचकवेणवः ॥
शाम्यतीदं कथं दुःखम् इति तप्तो ऽस्मि चिन्तया ।
जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥
संसारदुःखपाषाणनीरन्ध्रहृदयो ऽप्य् अहम् ।
निजलोकभयाद् एव गलद्बाष्पैर् न रोदिमि ॥
शून्यमन्मुखवृत्तीस् तु शुष्करोदननीरसाः ।
विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥
भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।
दारिद्र्येणेव सुभगो दूरे संसारचिन्तया ॥
मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणान् अलम् ।
दुःखजालं प्रयच्छन्ति विप्रलम्भपराश् श्रियः ॥
चिन्तानिचयवक्राणि नानन्दाय धनानि मे ।
सम्प्रसूतकलत्राणि गृहाण्य् उग्रापदां यथा ॥
विविधदोषदशापरिचिन्तनैस् सततभङ्गुरकारणकल्पितैः ।
मम न निर्वृतिम् एति मनो मुने निगडितस्य यथा वनहस्तिनः ॥
खलाः काले काले निशि निशितमोहैकमिहिकागतालोके लोके विषयहठचौरास् सुचतुराः ।
प्रवृत्ताः प्रोद्युक्ता दिशि दिशि विवेकैकहरणे रणे शक्तास् तेषां वदत विबुधाः के ऽद्य सुभटाः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0