भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 4.4.1

4.4.1.

अपवृत्ते यागे चोद्यते यागान्तरम् इदम्, अपवृत्तिश् च सर्वेषु यागाङ्गेष्व् अकृतेषु न भवति. न यथा भवान् मन्यते, [515]{*4।361*} यागमात्रे निर्वृत्त इति. कुतः? करणविभक्त्या संयोगात्, वाजपेयेनेष्ट्या वाजपेयेन फलस्य व्यापारं कृत्वा{*4।362*}, साङ्गेन च व्यापारो गम्यते, न निरङ्गेन. भवेत् तन्त्रमध्ये प्रयोगः, वदि वाजपेयम् अभिनिर्वर्त्येतीप्सितभावो वाजपेयस्य स्यात्, ततः प्रधानमात्रं वाजपेयसंज्ञकम् अभिनिर्वर्त्येति गम्येत, न त्व् एवम् अस्ति. तस्माद् यथोक्तानि सर्वाण्य् अङ्गानि कृत्वेत्य् अर्थः. एवं चेत्, निर्वृत्ते प्रयोगे, अतिक्रान्ते वाजपेयकाले याग प्रयुज्यते. तस्य चोदनासामान्याज् ज्योतिष्टौमिके विध्यन्ते प्राप्ते स्वेन चोदकप्राप्तेन कालेन भवितव्यम्. सौत्रामण्याश् चोदनासामान्यात्, दर्शपूर्णमासकालेनेति.
आह, वाजपेये तावद् इष्ट्वेतिवचनाद् यागम् अभिनिर्वर्त्येति गम्यते, अग्नौ तु नोपपद्यते. तत्र चित्वेतिवचनाच् चयनम् अभिनिर्वर्त्येत्य् अर्थः स्यात्. उच्यते, नैतद् एवम्. अग्निं चित्वेति हि श्रूयते, अग्नि चयनेन संस्कृत्येत्य् अर्थः{*4।363*}. अग्निर् इति ज्वलनो ऽभिधीयते. न तस्य स्थलस्थापनमात्रम् उपकारः, यदि स्थलस्थिते यागो भवति, ततश् चयनेनाग्नेर् उपकारो ऽस्ति. तम् अभिनिर्वर्त्येति स्थलस्थिते ऽग्नौ यागम् अभिनिर्वर्त्येति गम्यते. यावत् स्थलस्थिते ऽग्नौ यागो न भवति, न तावद् अग्निश् चयनेनोपक्रियते. येनाग्निर् यजमानस्योपकरोति, सो ऽग्नेर् उपकारो न स्थलस्थापनमात्रम्. तस्मात् तत्रापि यागम् अभिनिर्वर्त्येति गम्यते.
[516]{*4।364*}
नोतेस्:
*{4।361: ए2: 5,86; ए6: 2,52}*
*{4।362: ए1 गिब्त् वाजपेयेन फलस्य व्यापारं कृत्वा इन् क्लम्मेर्न्}*
*{4।363: ए1 गिब्त् अग्नि चयनेन संस्कृत्येत्य् अर्थः इन् क्लम्मेर्न्}*
*{4।364: ए2: 5,87; ए6: 2,53}*
प्रकरणशब्दसामान्याच् चोदनानाम् अनङ्गत्वम्

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc