भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 4.4

4.4.2

सन्त्य् अनुमत्यादीन्य् ऐष्टिकानि कर्माणि, मल्हादयः पशवः, पवित्रादयः सोमाः, वल्मीकवपायां होम इत्येवमादीनि दार्विहोमिकानि. तथा यष्टौहीं दीव्यति, राजन्यं जिनाति, शौनःशेफम्{*4।365*} आख्यापयति, अभिषिच्यत इति, एतेषां सन्निधौ श्रूयते, राजसूयेन स्वाराज्यकामो यजेतेति, स एष रूपवतां यागानां संनिधाव्{*4।366*} अरूपः शब्दः श्रूयमाणः समुदायवाचकः समधिगतः. तत्र संदेहः, किं सर्वेषाम् अनुमत्यादीनां समुदायस्य राजसूयशब्दो वाचकः, उत केषांचिद् वाचकः केषांचिन् नेति. किं प्राप्तम्? सर्वेषां वाचक इति. कुतः? प्रकरणशब्दसामान्यात्, प्रकरणशब्दः सर्वेषां समानो राजसूयेनेति. राजा तत्र सूयते, तस्माद् राजसूयः. राज्ञो वा यज्ञो राजसूयः. तत् प्रकरणसंनिधाने सति, विशेषाभावे च सर्वेषां वाचको भवितुम् अर्हति. यश् च राजसूयशब्दितस् ततः फलं भवति. तस्मात् सर्वाणि प्रधानानीति.
[517]{*4।367*}
नोतेस्:
*{4।365: ए2: शौनःशेपम्}*
*{4।366: ए2,6: रूपवतां संनिधाव्}*
*{4।367: ए2: 5,88; ए6: 2,53}*
अपि वाङ्गम् अनिज्याः स्युस् ततो विशिष्टत्वात्

4.4.3

अपि वेति पक्षव्यावृत्तिः. या अनिज्यास् ता अङ्गम्, यथा विदेवनादयः. राजसूयसंज्ञकेन यागेन स्वाराज्यं कुर्याद् इत्य् उच्यमाने यागेनैव स्वाराज्यं साध्यते, नायागेन. अयागाश् च विदेवनादयः. तस्माद् अङ्गं भवेयुः, इज्यानां फलवतीनां श्रूयमाना इति.
मध्यस्थं यस्य तन्मध्ये

4.4.4

राजसूये ऽभिषेचनीयमध्ये, यष्टौहीं दीव्यतीति विदेवनादयः समाम्नाताः. ते किम् अभिषेचनीयस्याङ्गम्, उत कृत्स्नस्य राजसूयस्येति संशयः. उच्यते, मध्याम्नानाद् अभिषेचनीयस्येति, तथानन्तर्यम् अनुग्रहीष्यत इति.
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये

4.4.5

सर्वासां चानुमत्यादीनां चोदनानाम् अङ्गं विदेवनादि स्यात्. कुतः? चोदनातः समत्वात्, समाना एता अनुमत्याद्याश् चोदनाः, ताः सर्वाः फलवत्यश् च प्रधानभूताः. सर्वासाम् आसां प्रकरणम्, न ह्य् अभिषेचनीयस्य केवलस्य. क्रमाद्{*4।368*} अभिषेचनीयस्य प्राप्नुवन्ति, प्रकरणात् सर्वासाम्, प्रकरणं च क्रमाद् बलीयः. तस्मान् नाभिषेचनीयस्य केवलस्येति. अभिषेचनीयस्य तु मध्ये स्थानं विदेवनादीनाम्, तत्र क्रियमाणाः सर्वासाम् उपकुर्वन्तीति.
[518]{*4।369*}
नोतेस्:
*{4।368: ए2: केवलस्य. कामाद् अभिषेचनीयस्य केवलस्य. कामाद्; ए6: केवलस्य. कामाद्}*
*{4।369: ए2: 5,89; ए6: 2,54}*
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम्

4.4.6

राजसूय उपसदः प्रकृत्य श्रूयते, पुरस्ताद् उपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद् वैष्णवेनेति{*4।370*}. तत्र संदेहः, किम् उपसदङ्गं सौम्यादयः, उतोपसत्काला इति. उपसदङ्गम् इति ब्रूमः. कुतः? उपसत्संयोगस्य श्रुतत्वात्, कालविधौ सति लक्षणा स्यात्. तस्माद् उपसदङ्गम् इति.
ननु कालवद् अङ्गं भविष्यति, तथा सत्य् उभयम् अनुगृह्येत, उपसत्संयोगश् च, पुरस्ताद् इति च कालाभिधानम्, उपसच्छब्दसंयोगाद् उपसदङ्गता भविष्यति. पुरस्ताच्छब्दसामर्थ्याच् च पूर्वादिषु प्रयोग इति. उच्यते, विप्रतिषिद्धं ह्य् उभयम्, न शक्नोत्य् उपसदाम् इत्य् एष शब्दः, सौम्यादींश् च विशेष्टुम्, एकस्मिन् वाक्ये, पूर्वादींश् च. भिद्यते हि तथा वाक्यम्. तस्मान् न कालवद् अङ्गम्.
नोतेस्:
*{4।370: तैत्.ब्र्. 1.8.1.2}*
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेषस्य

4.4.7

अपि वेति पक्षव्यावृत्तिः. कालमात्रं स्यात्, नाङ्गप्रयोजनसंबन्धः. कुतः? अदर्शनाद् विशेषस्य, नान्यैः कालाभिधानैर् अस्य कश्चिद् विशेषो लक्ष्यते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीत्येवमादिभिः. अत्रापि हि सौम्यादयो विहिता उपसदो ऽपि. इदम् आनुपूर्व्यम् अविहितम्, तद् विधीयते. तस्मात् कालमात्रम् इति.
[519]{*4।371*}
नोतेस्:
*{4।371: ए2: 5,90; ए6: 2,55}*
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात्

4.4.8

वैश्वदेवीं सांग्रहायणीं निर्वपेद् ग्रामकाम इति. तत्रामनहोमाः श्रूयन्ते, आमनस्येति{*4।372*} तिस्र आहुतीर् जुहोतीति. अत्र संदेहः, किं समप्रधानभूता आमनहोमाः सांग्रहायणीष्ट्या, उताङ्गं तस्या इति. किं प्राप्तम्? समप्रधानभूता इति. कुतः? तुल्यहेतुत्वाद् इतरस्य. तुल्यं हि यजिमत्त्वम्. नन्व् अफला होमाः. उच्यते, ग्रामकाम इत्य् अत्रानुपज्यते{*4।373*}. तस्मात् समप्रधानभूता इति.
एवं प्राप्ते ब्रूमः, फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात्. न चैतद् अस्ति, समप्रधानभूता होमा इष्ट्या इति. फलवद् ध्य् अफलस्य प्रधानम्, फलवती चेष्टिः, अफला होमाः. ननूक्तम्, अनुषङ्गो भविष्यतीति. उच्यते, नानुषङ्गः प्राप्नोति. कुतः? व्यवायात्. तद् उक्तम्, व्यवायान् नानुषज्येतेति. केन व्यवायः, परिधिमन्त्रैः, उग्रो ऽस्य् उग्रस्त्वं देवेष्व् अध्युग्रो ऽहं सजातेषु भूयासं प्रियः, सजातानाम् उग्रश् चेत् ता वसुविद् इत्येवमादिभिः, एतान् अनुक्रम्य, आमनस्येति{*4।374*} तिस्र आहुतीर् जुहोतीत्य् आमनन्ति. तस्मात् सांग्रहायण्या अङ्गम् आमनहोमा इति.
[520]{*4।375*}
नोतेस्:
*{4।372: ए2, ए1 (fन्.): आमनस्यामनस्य देवा इति}*
*{4।373: ए2: इत्य् एवानुपज्यते}*
*{4।374: ए2: आमनस्यामनस्य देवा इति}*
*{4।375: ए2: 5,91; ए6: 2,55}*
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात्

4.4.9

ज्योतिष्टोमे श्रूयते, यां वै कांचिद् अध्वर्युश् च यजमानश् च देवताम् अन्तरितः, तस्या आवृश्चेत, यत् प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्य् एवैनाम् इति{*4।376*}. तत्र संदेहः, किं नित्यो दधिग्रहः, उत नैमित्तिक इति. किं प्राप्तम्? दधिग्रहो नैमित्तिकः स्यात् श्रुतिसंयोगात्, देवतान्तराये निमित्ते श्रूयते, न च नित्यो ऽन्तरायः. तस्मान् नैमित्तिक इति.
नोतेस्:
*{4।376: तैत्.स्. 3.5.9.1}*
नित्यश् च ज्येष्ठशब्दात्

4.4.10

यद् उक्तम्, नैमित्तिक इति, तद् गृह्यते, किं तु नित्यश् च. कुतः? ज्येष्ठशब्दात्, ज्येष्ठशब्दो भवति, ज्येष्ठो वा एष ग्रहाणां यस्यैष गृह्यते, ज्यैष्ठ्यम् एव गच्छतीति{*4।377*}. ज्येष्ठशब्दश् च प्राधान्ये प्राथम्ये वा स्यात्. एष{*4।378*} प्रथमः, न प्रधानम्. यदि नित्यः, एवं प्रशस्यत्वाद् उपपद्यते, न जातु चलाचलं हि{*4।379*} प्रशंसन्ति. तस्मान् नित्यश् च नैमित्तिकश् चेति, विनापि निमित्तेन ग्रहीतव्यः, निमित्तेनापि पुनर् इति.
नोतेस्:
*{4।377: तैत्.स्. 3.5.9.1}*
*{4।378: ए2: नैष}*
*{4।379: ए2 ओम्. हि}*
सार्वरूप्याच् च

4.4.11

सर्वरूपता च श्रूयते, सर्वेषां वैतद् देवानां रूपं यद् एष ग्रहो यस्यैष गृह्यते सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्त इति{*4।380*}. न हि देवतारूपम् अस्माकं किंचिद् अन्यत् प्रत्यक्षम्, अन्यद् अतो नित्यत्वात्. तस्माद् अपि नित्यश् च नैमित्तिकश् चेति.
नोतेस्:
*{4।380: तैत्.स्. 3.5.9.1}*
नित्यो वा स्याद् अर्थवादस् तयोः कर्मण्य् असंबन्धाद् भङ्गित्वाच् चान्तरायस्य

4.4.12

यद् उक्तम्, नित्यो नैमित्तिकश् चेति, तत्र नित्य एव स्यात्, ज्येष्ठशब्दात् सार्वरूप्याच् च. यद् उक्तम्, देवतान्तराये निमित्ते श्रूयत इति. न देवतान्तरायो निमित्तत्वेन गम्यते. तयोर् अध्वर्युयजमानयोः{*4।381*} कर्मण्य् अन्तरायेण संबन्धात्. न ह्य् एतच् छ्रूयते, अध्वर्युणा देवतान्तरितव्या यजमानेन वेति, अनित्यो हि अन्तरायः. न चैवंशब्दो ऽस्ति, अन्तराये सति दधिग्रहो ग्रहीतव्य इति. विनैव संयोगेन, दधिग्रहस्य ग्रहणम्, अन्तरायसमाधानं त्व् अस्य प्रयोजनम् इति. तद् एतन् नित्यवद् ग्रहणम्, अनित्यं प्रयोजनम्. नित्यं गृह्णीयात्, अनित्यम् अन्तरायं समाधातुम् इति नावकल्पते. तत्र प्रयोजने ऽनित्यत्वाद् ग्रहणे नित्यवच् छ्रुतिर् बाध्येत, अर्थवादत्वे तु न बाध्यते. न हि तद् अन्तरायं समाधातुं गृह्यते. अन्यद् एव प्रयोजनम् अस्यास्तीति प्रशंसितुम् अभिधीयते. दधिग्रहस्य तु सोमाङ्गतैव प्रयोजनम् इति.
भङ्गित्वाच् चान्तरायस्य, भङ्गी चान्तरायो ऽनित्यो नित्यप्रशंसार्थं संकीर्त्यते. तस्मान् नैष दोषः, नित्य एव दधिग्रह इति.
नोतेस्:
*{4।381: ए1 गिब्त् अध्वर्युयजमानयोः इन् क्लम्मेर्न्}*
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसंख्यत्वात्

4.4.13

अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*4।382*}. तत्र श्रूयते, यो वै संवत्सरमुख्यम् अभृत्वाग्निं{*4।383*} चिनुते, यथा सामिगर्भो विपद्यते, तादृग् एव तदार्तिम् आर्च्छेत्, वैश्वानरं द्वादशकपालं पुरस्तान् निर्वपेत्. संवत्सरो वाग्निर् वैश्वानरः, यथा संवत्सरम् आप्त्वा काल आगते विजायते, एवम् एव संवत्सरम् आप्त्वा काल आगते ऽग्निं चिनुते, नार्तिम् आर्च्छेद् इति, एषा वाग्नेः प्रिया तनूर् यद् वैश्वानरः, प्रियाम् एवास्य तनूम् अवरुन्ध इति{*4।384*}. तत्र संदेहः, किं नित्यो वैश्वानरः, अथ नैमित्तिक इति. किं प्राप्तम्? अत्रापि नित्य एव. अर्थवादः, उख्यस्य संवत्सराभरणेन कृतो दोषः, वैश्वानरेण विहन्यत इति. नित्यैश् चास्य समानसंख्यत्वं भवति, त्रीण्य् एतानि हवींषि भवन्ति, त्रय इमे लोका एषां लोकानाम् आरोहायेति, लोकानां हविषां सामान्यं नास्ति. यदि यथा लोका नित्यास् त्रयः, एवम् इमानि हवींषि नित्यानि त्रीणि, एवं लोकैः संस्तवो घटते. तस्मान् नित्यो वैश्वानर इति.
नोतेस्:
*{4।382: तैत्.स्. 5.5.2.1}*
*{4।383: ए2: अभूत्वाग्निं}*
*{4।384: तैत्.स्. 5.5.1.7}*
पक्षे वोत्पन्नसंयोगात्

4.4.14

उत्पन्नस्य निमित्त उख्याभरणे निर्घातेन संयोगः. नासंयुक्तस्योत्पन्नस्य दोषनिर्घातप्रयोजनता. तस्माद् इह न दधिग्रहवद् विरोधो ऽस्ति. तेन नार्थवादः, नैमित्तिक इति. अथ यद् उक्तम्, लोकैः समानसंख्यत्वं नित्यत्वाद् उपपद्यते, नान्यथेति. तत्र ब्रूमः, त्रित्वाल् लोकानां हविषां च सामान्याद् अर्थवादो भविष्यतीति.
षट्चितिः पूर्ववत्त्वात्

4.4.15

अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*4।385*}. तत्र [523]{*4।386*} श्रूयते, संवत्सरो वैनं प्रतिष्ठायै नुदति यो ऽग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश् चितयो भवन्ति. अथ षष्ठीं चितिं चिनुत इति{*4।387*}. तत्र संदेहः, किं यो ऽयं नित्य एवाग्निः स एवायं षट्चितिक उच्यते, उतैकचितिको नैमित्तिक इति. किं प्राप्तम्? तस्मिन्न् एव नित्ये ऽग्नौ षष्ठी चितिर् एषा विधीयते, नित्यायाम् एव षष्ठ्याम् एषो ऽर्थवादः. यो ऽपि न प्रतिष्ठार्हः, सो ऽप्य् अनया षष्ठ्या चित्या प्रतिष्ठातुम् अर्हतीति चितिप्रशंसा. किम् अर्थम् एवं वर्ण्यते? षष्ठीशब्दश्रवणात्. षण्णां हि पूरणी षष्ठी, एकस्यां हि चितौ षष्ठीशब्दो न सामञ्जस्येन स्यात्. तस्मात् षट्चितिको ऽग्निर् नित्य इति.
नोतेस्:
*{4।385: तैत्.स्. 5.5.2.1}*
*{4।386: ए2: 5,94; ए6: 2,57}*
*{4।387: तैत्.स्. 5.4.2.2}*
ताभिश् च तुल्यसंख्यानात्

4.4.16

ताभिश् च पूर्वाभिर् अस्यास् तुल्यवत् प्रसंख्यानं भवति. कथम्? इयं वाव प्रथमा चितिः, ओषधयः पुरीषम्. अन्तरीक्षं वाव द्वितीया चितिः, वयांसि पुरीषम्. असौ वाव तृतीया चितिः, नक्षत्राणि पुरीषम्. यज्ञो वाव चतुर्था{*4।388*} चितिः, दक्षिणा पुरीषम्. यजमानो वाव पञ्चमी चितिः, प्रजाः पुरीषम्. संवत्सरो वाव षष्ठी चितिः, ऋतवः पुरीषम् इति{*4।389*}, तुल्यानां च तुल्यवद् अनुक्रमणं भवति, यथा - देवा ऋषयो गन्धर्वास् ते ऽन्यत आसन्. असुरा रक्षांसि पिशाचाः ते ऽन्यत आसन्न् इति{*4।390*}, तुल्यवच् चामूषां चितीनाम् अनुक्रमणम् अनया षष्ठ्या. तस्माद् एतया तत्तुल्यया भवितव्यम्. यदि च यस्मिन्न् एव क्रतौ [524]{*4।391*} ताः, तस्मिन्न् एवैषा, तत एताभिस् तुल्या. तस्माद् अपि स एव नित्यो ऽग्निः षट्चितिक इति.
नोतेस्:
*{4।388: ए2,6: चतुर्थी}*
*{4।389: तैत्.स्. 5.6.10.3}*
*{4।390: तैत्.स्. 2.4.1.1}*
*{4।391: ए2: 5,94; ए6: 2,58}*
अर्थवादोपपत्तेश् च

4.4.17

अर्थवादश् च भवति, षट् चितयो भवन्ति, षट् पुरीषाणि, तानि द्वादश संपद्यन्ते, द्वादशा मासाः संवत्सरः, संवत्सर एव प्रतितिष्ठतीति{*4।392*}, तद् एकचितिके ऽग्नौ न सामञ्जस्येन वचनं भवति. तस्मान् नित्य एव षट्चितिकः.
नोतेस्:
*{4।392: तैत्.स्. 5.6.10.3}*
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन

4.4.18

एकचितिर् वा नैमित्तिकः{*4।393*} स्यात्. कुतः? अपवृक्ते हि यागे चोद्यते, अप्रतिष्ठया निमित्तेन. यो न प्रतितिष्ठति, तस्यैषा चितिर् उच्यते नैमित्तिकी, सा न नित्या भवितुम् अर्हति.
अपि चापवृक्ते यागे चोद्यते सा, न वर्तमाने भवितुम् अर्हति. ननु चित्वेति चयने निर्वृत्ते, न यागे. उच्यते, नैतत् पदार्थे निर्वृत्ते चित्वेति. किं तर्हि? वाक्यार्थे. अग्निं चित्वेति, अग्नेश् चयनेनार्थम् अभिनिर्वर्त्येति. कृते च यागे चयनेनाग्नेर् अर्थो निर्वर्तितो भवति, नान्यथा. षष्ठीशब्दश् च, पञ्च पूर्वाश् चितय उक्ताः, ता अपेक्ष्यावकल्पिष्यते, तस्मान् निर्वृत्ते याग इत्य् उच्यते. तस्माद् वचनाद् एकचितिर् अग्निः.
नोतेस्:
*{4।393: ए1 गिब्त् नैमित्तिकः इन् क्लम्मेर्न्}*
विप्रतिषेधात् ताभिः समानसंख्यत्वम्

4.4.19

द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, [525]{*4।394*} अर्थवादोपपत्तेश् चेति{*4।395*}. ताभिर् नित्याभिः{*4।396*} समानसंख्यत्वं भविष्यति, अर्थवादश् चोपपत्स्यते. पञ्च पूर्वाश् चितयो भवन्ति, याभिर् असौ चितिभिर् न प्रतितिष्ठते, अथेयं षष्ठी प्रतिष्ठार्थम् इति. ताश् च सपुरीषा अपेक्ष्य द्वादशत्वेन संस्तवो भविष्यति. विप्रतिषेधाद् एकस्य, षट्संख्याया द्वादशसंख्यायाश् चेति. अतुल्यानाम् अपि तुल्यवद् अनुक्रमणं भवति, यथा - देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् इति{*4।397*}.
नोतेस्:
*{4।394: ए2: 5,95; ए6: 2,58}*
*{4।395: ए1 गिब्त् द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, अर्थवादोपपत्तेश् चेति इन् क्लम्मेर्न्}*
*{4।396: ए1 गिब्त् नित्याभिः इन् क्लम्मेर्न्}*
*{4।397: तैत्.स्. 2.4.1.1}*
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात्

4.4.20

अस्त्य् आमावास्ये कर्मणि पितृयज्ञः, अमावास्यायाम् अपराह्णे पिण्डपितृयज्ञेन चरन्तीति{*4।398*}. तत्र संशयः, किम् आमावास्यस्य कर्मणः पिण्डपितृयज्ञो ऽङ्गम्, उतानङ्गम् इति. किं प्राप्तम्? अङ्गम्, फलवत् संनिधानान् निष्क्रयवचनाच् च.
आह, ननु फलवत् संनिधाव् अफलं तदङ्गं भवति, फलवच् चेदं कल्प्येत स्वर्गेणेति. उच्यते, सत्यम्, अमानास्ययैकवाक्यत्वान् न शक्यः स्वर्गः कल्पयितुम् इति. आह, कालवचनत्वान् न कर्मणैकवाक्यत्वं संभवतीति. उच्यते, लक्षणयापि तावत् कर्मैकवाक्यत्वं संभवति. स्वर्गे कल्प्ये न लक्षणा, न श्रुतिः. एवं चामनन्ति, यत् पितृभ्यः पुर्वेद्युः करोति, पितृभ्य एतद् यज्ञं निष्क्रीय यजमानो देवेभ्यः प्रतनुत इति{*4।399*}, अमावास्यां प्रति निष्क्रेतुम्{*4।400*} च श्रूयते, तस्मात् तदङ्गभूतम् इति.
एवं प्राप्ते ब्रूमः, पितृयज्ञः स्वकालत्वाद् अनङ्गं{*4।401*} स्यात्, [526]{*4।402*} अनङ्गभूतः पिण्डपितृयज्ञः. कस्मात्? स्वकालत्वात्, स्वशब्दाभिहितेन कालेनास्य संबन्धः, न कर्मणा लक्षितेनेति, यथा - दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति{*4।403*}, यथा तद् एतत्{*4।404*} पुरस्ताद् उपसदां सौम्येन चरन्तीति{*4।405*} च, काल{*4।406*} एवायं मुख्यः शब्दो न कर्मणि, कर्मणि{*4।407*} लक्षणा, श्रुतिश् च लक्षणाया बलीयसी. यच् चोक्तम्, लक्सणया कर्मैकवाक्यता भविष्यतीति, तच् च न. कस्मात्? अनुवादे हि लक्षणा न्याय्या, न विधौ. विधिश् चायम्. तस्मान् नामावास्याकर्मणा संबन्धः, एकस्मिन् काले द्वे कर्मणी परस्परेणासंबद्ध इति.
नोतेस्:
*{4।398: तैत्.ब्र्. 1.3.10.2}*
*{4।399: तैत्.स्. 1.3.10.2}*
*{4।400: ए2: प्रतनितुं}*
*{4।401: ए2: अङ्गं}*
*{4।402: ए2: 5,96; ए6: 2,59}*
*{4।403: तैत्.स्. 2.5.6.1; दzउ म्स् 4.3.37}*
*{4।404: ए2 ओम्. तद् एतत्}*
*{4।405: तैत्.ब्र्. 1.8.1.2; दzउ म्स् 4.4.5-6}*
*{4।406: ए2,6: अत्र काल}*
*{4।407: ए2 ओम्. कर्मणि}*
तुल्यवच् च प्रसंख्यानात्

4.4.21

तुल्यवच् चान्यैः प्रधानैः प्रसंख्यायते, चत्वारो वै महायज्ञाः, अग्निहोत्रम्, दर्शपूर्णमासौ, ज्योतिष्टोमः, पिण्डपितृयज्ञ इति, महायज्ञैस् तुल्यवत् प्रसंख्यायते. कास्य महायज्ञता स्यात्, अन्यतः फलवत्तायाः. तस्माद् अनङ्गम्.
प्रतिषिद्धे च दर्शनात्

4.4.22

इतश् चानङ्गम्, प्रतिषिद्धे{*4।408*} आमावास्ये पिण्डपितृयज्ञं दर्शयति, पौर्णमासीम् एव यजेत भ्रातृव्यवान्, नामावास्याम्, हत्वा भ्रातृव्यम् अमावास्यया यजेत, पिण्डपितृयज्ञेनैवामावास्यायां प्रीणातीति{*4।409*}. असत्याम् अमावास्यायां पिण्डपितृयज्ञं दर्शयति, तदनङ्गत्व उपपद्यते. तस्माद् अपि नाङ्गं पिण्डपितृयज्ञ इति.
किं प्रयोजनं चिन्तायाः? यदि पौर्णमास्याम् आधानम्, ततो ऽनन्तरायाम् अमावास्यायां न क्रियते, यथा पूर्वपक्षः. यथा तर्हि सिद्धान्तः, तथा कर्तव्यः. इदम् अपरं प्रयोजनम्, कुण्डपायिनामयने मासम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां [527]{*4।410*} यजेतेति, यथा पूर्वः पक्षः, तथा कर्तव्यः पिण्डपितृयज्ञः. यथा सिद्धान्तः, तथा न कर्तव्य इति. श्लोकम् अप्य् उदाहरन्ति -
आधानं पौर्णमास्यां चेद् वृत्ते दर्शे करिष्यते।
अनङ्गं पितृयज्ञश् चेत् तत्रैव{*4।411*} न करिष्यते॥ इति.
नोतेस्:
*{4।408: ए2: प्रतिषिद्धे ह्य्}*
*{4।409: तैत्.स्. 2.5.4.3}*
*{4।410: ए2: 5,97; ए6: 2,60}*
*{4।411: ए2: सत्रे च}*
पश्वङ्गं रशना स्यात् तदागमे विधानात्

4.4.23

ज्योतिष्टोमे श्रूयते, आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुम् उपाकरोतीति. तत्र संदेहः, किं पश्वङ्गं रशना, उत यूपाङ्गम् इति. किं प्राप्तम्? पश्वङ्गम्. कुतः? तदागमे विधानात्, पश्वागमे हि विधीयते. पशुनास्याः संबन्ध उत्पत्तिवाक्ये श्रूयते, परिव्याणं कृत्वोपाकरोति पशुं नान्यथेति. एवं श्रुतिर् भवति, कालवचने लक्षणा स्यात्, परिव्याणेन कालो लक्ष्येतेति.
यूपाङ्गं वा तत्संस्कारात्

4.4.24

ज्योतिष्टोमे प्रत्यक्षो हि यूपस्य संस्कारः, रशना हि या च यावतीं च द्रढिम्नो मात्रां यूपस्य संजनयति, द्रढिम्ना च प्रयोजनं यूपस्य. तस्माद् यूपस्यैव द्रढिम्ने रशना स्यात्. द्वितीया च विभक्तिस् तत्प्राधान्य एव भवति, रशनायां च तृतीया. तृतीया च गुणत्वे तस्याः, तस्माद् यूपाङ्गम्. यत् तु, तदागमे विधानाद् इत्य् उक्तम्, तत्परिहर्तव्यम्. उच्यते, तदागमे विधानं [528]{*4।412*} वाक्यम्{*4।413*}, द्वितीया च विभक्तिः श्रुतिः प्रत्यक्षं च, वाक्यं बाधेयाताम् इति. यत् तु लक्षणेति, श्रुत्यसंभवे लक्षणापि न्याय्यैव.
नोतेस्:
*{4।412: ए2: 5,98; ए6: 2,60}*
*{4।413: ए2: वाक्यात्}*
अर्थवादश् च तदर्थवत्

4.4.25

एवं च मन्त्रार्थवादो ऽर्थवान् भविष्यति, युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः. तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति{*4।414*}. तस्माद् यूपाङ्गं रशनेति.
किं प्रयोजनं चिन्तायाः? अग्नौ श्रूयते, एकयूप एकादश पशवो नियोज्या इति. प्रतिपशु रशना कार्या, यदि पूर्वः पक्षः. सिद्धान्ते द्वैरशन्यम् एव. श्लोकम् अप्य् उदाहरन्ति -
पश्वङ्गं रशना चेत्, यद्य् एकस्मिन् बहून् नियुञ्जीत।
प्रतिपशु रशना कार्या, यूपे चेद् द्वैरशन्यं स्यात्॥ इति.
नोतेस्:
*{4।414: ऋव् 3.8.4}*
स्वरुश् चाप्य् एकदेशत्वात्

4.4.26

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः सोमाङ्गभूतः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*4।415*}. तत्र श्रूयते, स्वरुणा स्वधितिना वा पशुम् अनक्तीति. तत्र संदेहः, किं यूपाङ्गं स्वरुः, उत पश्वङ्गम् इति. किं प्राप्तम्? यूपाङ्गम् इति ब्रूमः. कुतः? एकदेशत्वात्. एकदेशः स्वरुर् यूपस्येति श्रूयते, यूपस्य स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः{*4।416*}. एवं स यूपो भवतीति, यथा चषालम्.
[529]{*4।417*}
नोतेस्:
*{4।415: तैत्.स्. 6.1.11.6}*
*{4।416: ए1 गिब्त् स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः इन् क्लम्मेर्न्}*
*{4।417: ए2: 5,99; ए6: 2,61}*
निष्क्रयश् च तदङ्गवत्

4.4.27

यूपाङ्गम् इव स्वरुं निष्क्रयवादो दर्शयति, अपश्यन् ह स्म वै पुरा ऋषयो ये यूपं प्रापयन्ति, संभज्य स्रुवन्ते मन्यन्ते, यज्ञवैशसाय वा इदं कर्मेति, ते प्रस्तरं स्रुवनिष्क्रयम् अपश्यन्, यूपस्य स्वरुम् अयज्ञवैशसायेति, निष्क्रयश्रवणात् तदङ्गता विज्ञायते. तस्माद् यूपाङ्गम् इति.
पश्वङ्गं वार्थकर्मत्वात्

4.4.28

पश्वङ्गं वा, तस्य ह्य् अञ्जनार्थेन स्वरुणा प्रयोजनम्. तथा हि श्रूयते, स्वरुणा पशुम् अनक्तीति. तद् अञ्जनं पशोः, स्वरोर् उत्पत्तिं प्रयोजयति. यदि तदर्थ एषः स्वरुः, ततो दृष्टं प्रयोजनम्. अथ यूपार्थः, अदृष्टं प्रयोजनं{*4।418*} ततः कल्प्यम्. तस्मात् पश्वङ्गम् इति.
नोतेस्:
*{4।418: ए2 ओम्. प्रयोजनं}*
भक्त्या निष्क्रयवादः स्यात्

4.4.29

कया भक्त्या? एवम् आह, यूपः किलाग्नौ पक्षेतव्यः, यत् स्वरुः प्रक्षिप्यते, तेन{*4।419*} यूपः प्रक्षिप्यत इति स एष निष्कय इव भवति, अनया भक्त्या स्तुतिर् इति.
किं भवति प्रयोजनम्? एकयूप एकादश पशवो यदा नियुज्यन्ते, तदैकस्यैव पशोः समञ्जनम्, पूर्वस्मिन् पक्षे. सर्वेषां सिद्धान्ते. श्लोकश् च भवति -
स्वरुर् यूपाङ्गम् इति चेद् एकस्मैव समञ्जनम्।
बहूनाम् एकयूपत्वे, सर्वेषां तु समञ्जनम्॥ इति.
[530]{*4।420*}
नोतेस्:
*{4।419: ए2: तेन तेन}*
*{4।420: ए2: 5,100; ए6: 2,62}*
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात्

4.4.30

स्तो दर्शपूर्णमासौ, तत्र श्रूयन्ते, आग्नेयाग्नीषोमीयोपांशुयाजैन्द्राग्नसांनाय्ययागाः. तथा, आघाराव् आज्यभागौ, प्रयाजानुयाजाः, पत्नीसंयाजाः, समिष्टयजुः, स्विष्टकृद् इति. तत्र संदेहः, किं सर्वे यागाः प्रधानभूताः, उत केचिद् गुणभूता इति. किं प्राप्तम्? दर्शपूर्णमासयोर् यावत्य इज्यास् ताः सर्वाः प्रधानभूता इति. यजेत स्वर्गकाम इत्य् अविशेषेण यागेभ्यः फलं श्रूयते, फलवच् च प्रधानम्, सर्वे चामी यागाः. तस्मात् सर्वे प्रधानभूता इति.
अपि वाङ्गानि कानिचिद् येष्व् अङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः{*4।421*}

4.4.31

अपि वा कानिचिद् अङ्गानि भवेयुः. कानि पुनस् तानि? येष्व् अङ्गत्वेन संस्तुतिः, यथा, अभीषू वा एतौ यज्ञस्य यद् आघारौ, चक्षुषी वैतौ यज्ञस्य यद् आज्यभागौ{*4।422*}, यत् प्रयाजानुयाजाश् चेज्यन्ते वर्म वा एतद् यज्ञस्य क्रियते, वर्म वा यजमानस्य भ्रातृव्यस्याभिभूत्यै, इति{*4।423*}. अभीशू रथस्याङ्गम्, चक्षुषी चक्षुष्मतः, वर्म वर्मवतः. सामान्यो ह्य् अभिसंस्तवो युक्तः. यदि चाङ्गानि तानि संस्तुतानि, ततः संस्तवो ऽर्थवान् भवति. तस्माद् अङ्गसंस्तुतान्य् अङ्गानीति.
[531]{*4।424*}
नोतेस्:
*{4।421: ए1 (fन्.): सामान्येष्व् अभिसंस्तवः}*
*{4।422: तैत्.स्. 2.6.2.1}*
*{4।423: तैत्.स्. 2.6.1.5}*
*{4।424: ए2: 5,101; ए6: 2,62}*
तथा चान्यार्थदर्शनम्

4.4.32

एवं च कृत्वान्यार्थदर्शनम् उपपन्नं भवति, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*4।425*}. न च प्रयाजान् यजति, न चानुयाजान् यजतीति च.
नोतेस्:
*{4।425: तैत्.स्. 2.3.2.3}*
अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात्

4.4.33

अविशिष्टम् एतत् कारणं संस्तवो नाम, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अस्ति, शिरो वैतद् यज्ञस्य यद् आग्नेयः, हृदयम् उपांशुयागः, पादाव् अग्नीषोमीय इति, शिरः शिरस्वतो ऽङ्गम्, हृदयं हृदयवतः, पादौ पादावत इति सर्वस्यैवाङ्गत्वेन संस्तुतिर् इति सर्वम् एवाङ्गं प्राप्नोति. तत्{*4।426*} प्रधानं न स्यात्. असति प्रधाने कस्याङ्गम्? तस्मान् नैतद् अङ्गम् इति.
नोतेस्:
*{4।426: ए1 (fन्.): तत्र}*
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात्

4.4.34

अथ यद् उक्तम्, अन्यार्थदर्शनं परार्थत्वात्, न तत् साधकं भवति. परार्थं हि तद् वाक्यम्, न दृश्यमानस्य प्रयाजादेः प्रापणार्थम्. तस्माद् अन्यद् अस्य प्रमाणम् अन्वेष्टव्यं श्रुत्यन्तरं न्यायो वा. तस्मिन्न् असति, मृगतृष्णादर्शनम् इव तद् भवति, संस्तुतिर् अप्य् असति न्याये, असाधिकैव.
[532]{*4।427*}
नोतेस्:
*{4।427: ए2: 5,101; ए6: 2,63}*
पृथक्त्वे त्व् अभिधानयोर् निवेशः, श्रुतितो व्यपदेशाच् च, तत् पुनर् मुख्यलक्षणं यत् फलवत्त्वम्, तत् संनिधाव् असंयुक्तं तदङ्गं स्यात्, भागित्वात् कारणस्याश्रुतश् चान्यसंबन्धः

4.4.35

तुशब्दः पक्षं व्यावर्तयति. तद् उक्तम्, सर्वाणि समप्रधानानीति. नैतद् एवम्, दर्शपूर्णमासशब्दवाच्यानि प्रधानानि कर्माणि. कुतः? फलसंयोगात्, दर्शपूर्णमासशब्दकेभ्यः फलं श्रूयते, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति{*4।428*}. कानि पुनर् दर्शपूर्णमासशब्दकानि? येषां वचने पौर्णमासीशब्दो ऽमावास्याशब्दो वा, आग्नेयादीनि तानि. नन्व् अमावास्याशब्दकानां नैव फलं श्रूयते. उच्यते, पृथक्त्वे समुदाययोर् निवेश एतयोर् अभिधानयोः, पौर्णमासीति चामावास्या इति च, त्रिष्व् आग्नेयादिषु यः समुदायः, तत्र पौर्णमासीशब्दः, इतरेष्व् अमावास्याशब्दः.
कथं पौर्णमास्य् अमावास्येति च द्विशब्दः श्रूयते? द्व्यर्थवद् व्यपदेशाच् च. कथं तद् व्यपदेशः? द्विवचन्निर्देशात्, दर्शपूर्णमासाभ्याम् इति, एकार्थौ च दर्शामावास्याशब्दौ. कथम्? दर्शो वा एतयोः पूर्वः, पूर्णमास उत्तरस् तयोर् अथ यत् पूर्णमासं पूर्वम् आरभते तद् अयथापूर्वं प्रक्रियते, दर्शपूर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत्, सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती, पूर्णमासः सरस्वान्. उभाव् एतौ यथापूर्वं कल्पयित्वारभत ऋद्ध्यै ऋध्नोत्य् एवार्थो मिथुनत्वायेति{*4।429*}. तत्र दर्शशब्देन प्रकृत्यामावास्याशब्देन ब्रुवन्न् एकार्थतां दर्शयति. शक्यते च चन्द्रस्यादर्शनेनामावास्या दर्श इति लक्षयितुम्, यथा चक्षुषोर् अभावे सति चक्षुष्मान् इति चक्षुर्भ्यां लक्ष्यते. [533]{*4।430*} एतस्माद् व्यपदेशाच् च श्रुतितश् च लोके श्रवणाद्{*4।431*} एकार्थताम् एवाध्यवस्यामः. तत् पुनर् मुख्यलक्षणम्, यत् फलवत्त्वम्, यद् अन्यत् तत् संनिधौ श्रूयते, तत् तद् अङ्गम्. कथम्? इतिकर्तव्यताकाङ्क्षस्य संनिधौ श्रूयमाणम्, इतिकर्तव्यताविशेषणत्वेन परिपूरणसमर्थं तदङ्गं भवितुम् अर्हति. अकल्प्यमाने वाक्यशेषे फलं कल्पयितव्यं स्याद् इति.
आह, ननु दर्शपूर्णमासफलम् एवात्रानुषज्यते. उच्यते, शक्यम् अनुषक्तुम्, किं तु दर्शपूर्णमासवाक्यं साकाङ्क्षम् एव स्यात्. अन्यास्येतिकर्तव्यताश्रुता कल्प्येत. एषाम् अपि प्रयाजादीनाम् अन्या कल्प्येत. एतद् इतिकर्तव्यतावगम्यमानोत्सृज्येत, तेनाङ्गत्वम्, कारणं भागीति. एषां अन्येन फलेन संबन्धो ऽश्रुतः. तस्मान् न सर्वाणि समप्रधानानि, आघारादीनि गुणकर्माणीति.
नोतेस्:
*{4।428: तैत्.स्. 3.5.1.4}*
*{4।429: तैत्.स्. 3.5.1.4}*
*{4।430: ए2: 5,102; ए6: 2,64}*
*{4।431: ए1 गिब्त् लोके श्रवणाद् इन् क्लम्मेर्न्}*
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते

4.4.36

नामविशेषसंयुक्ताश् च गुणविशेषा विधीयन्ते, यथा - चतुर्होत्रा पूर्णमासीम्{*4।432*} अभिमृशेत्, पञ्चहोत्रामावास्याम् इति, सर्वेषु प्रधानेषु, अस्मिन् समुदाये चतुर्होत्रा, अस्मिन् पञ्चहोत्रेति विभागाविज्ञानाच् चेदं नोपपद्येत. भवति चैवंलक्षणकं गुणविधानम्. तस्माद् अस्मत्पक्ष एवेति. अपि चाङ्गत्वेनाधारादीनां संस्तुतिर् उपपन्ना भविष्यति.
[534]{*4।433*}
नोतेस्:
*{4।432: ए2: पौर्णमासीम्}*
*{4।433: ए2: 5,103; ए6: 2,64}*
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसंबन्धः

4.4.37

अथ यद् उक्तम्, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अङ्गत्वं ख्यापयेद् इति. तत् परिहर्तव्यम्.
उत्पत्ताव् अभिसंबन्धस् तस्माद् अङ्गोपदेशः स्यात्

4.4.38

नैष दोषः, प्रधानानाम्{*4।434*} अप्य् एषां सताम् उत्पत्त्यपेक्षा{*4।435*} शिरादिस्तुतिर् अभिविष्यतीति{*4।436*}. जायमानस्य{*4।437*} हि पुरुषस्याग्रे शिरो जायते, मध्ये मध्यम्, पश्चात् पादौ, एवम् आग्नेयो ऽग्रतः, उपांशुयाजो मध्ये, अग्नीषोमीयः पश्चाद् इति. एतस्मात् सामान्यादोषा स्तुतिर् इति.
नोतेस्:
*{4।434: ए2: प्रधानाम्}*
*{4।435: ए2: उत्पत्त्यपेक्षया}*
*{4।436: ए2 ओम्. इति}*
*{4।437: ए2: यथा जायमानस्य}*
तथा चान्यार्थदर्शनम्

4.4.39

चतुर्दश पूर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति, इतरथा न चतुर्दश पौर्णमास्याम् आहुतयो भवेयुः, न वामावास्यायां त्रयोदशेति. तस्माद् आग्नेयादीनि प्रधानानि, आघारादीन्य् अङ्गानीति सिद्धम्.
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम्

4.4.40

अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति. [535]{*4।438*} तत्र दीक्षणीयादयश् च यागा विद्यन्ते, सौत्ये चाहनि सोमयागः. तत्र संदेहः, किम् अत्र यागमात्र प्रधानम्, उत सोमयाग इति. किं प्राप्तम्? ज्योतिष्टोमे तुल्यानि सर्वाणि भवेयुः. कुतः? अविशिष्टं हि कारणम्, यागात् फलं श्रूयते, सर्वे चामी यागाः, फलवच् च प्रधानम्. तस्माज् ज्योतिष्टोमे सर्वे यागाः प्रधानम् इति.
नोतेस्:
*{4।438: ए2: 5,103; ए6: 2,65}*
गुणानां तूत्पत्तिवाक्येन संबन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात्

4.4.41

गुणानां तूत्पत्तिवाक्येन संबन्धो भवति. केषां गुणानाम्? ज्योतिषां स्तोमानाम्. कतमेनोत्पत्तिवाक्येन संबन्धो भवति? ज्योतिष्टोमेन स्वर्गकामो यजेतेति{*4।439*}, ज्योतिष्टोमाद् यागात् स्वर्गः श्रूयते, न यागमात्रात्. यत्र च ज्योतींषि स्तोमाः, स ज्योतिष्टोमः. कस्य ज्योतींषि स्तोमाः? स्तोमयागस्येति ब्रूमः. एवं ह्य् आम्नायते, कतमानि वैतानि ज्योतींषि, य एते तस्य स्तोमाः, त्रिवृत् पञ्चदशसप्तदशैकविंशा एतानि वा ज्योतींषि. तान्य् एतस्य स्तोमा इति{*4।440*}, सोमयागस्य स्तोमा अङ्गम्, समभिव्याहारात्, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकरोतीति, ते च स्तोमास् त्रिवृदादयः. कथम्? त्रिवृद् बहिष्पवमानम्, पञ्चदशान्य् आज्यानीत्येवमादिभिः श्रवणैः.
तस्मात् त्रिवृदादिस्तोमकः सोमयागः, स ज्योतिष्टोम इति. यश् च ज्योतिष्टोमस् ततः फलम्, यतश् च फलं तद् एव प्रधानम् इति. कथं पुनस् त्रिवृदादयो ज्योतींषि? उच्यते, भवन्तु वा ज्योतींषि, मा वा भूवन्, ज्योतिःशब्देन तावद् उक्तानि. [536]{*4।441*} वचनमात्रेणापि शब्दो भवति, विशेषतो लक्षणायाम्. अपि च द्योततेर् वा दीप्तिकर्मणो ज्योतयतेर् वा{*4।442*} ज्योतिःशब्दं लभन्ते. द्योत्यते{*4।443*} हि तैः शब्दैः, द्योतयन्तीति वा स्तुत्याम्{*4।444*}. तस्मात् सोमयागो ज्योतिष्टोमः. स च प्रधानम्, गुणभूता दीक्षणीयादय इति.
नोतेस्:
*{4।439: तैत्.ब्र्. 1.5.11.2}*
*{4।440: तैत्.ब्र्. 1.5.11.3}*
*{4।441: ए2: 5,105; ए6: 2,65}*
*{4।442: ए6 ओम्. ज्योतयतेर् वा}*
*{4।443: ए2: द्योत्यन्ते}*
*{4।444: ए2: स्तुत्यम्}*
तथा चान्यार्थदर्शनम्

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc