मीमांसासूत्र (टीका सहित) · अध्याय 4.3
अपि वेति पक्षो व्यावर्तते. उत्पत्तिसंयोग एवैषो ऽस्य बर्हिषः. यदि ह्य् उत्पन्नम् आतिथ्यायां बर्हिर् विशिष्टं स्यात्, तस्य धर्मा औपसदे बर्हिष्य् अतिदिश्येरन्, न तु तद् अस्ति केनचिद् वाक्येन. एवं{*4।236*} प्रकृत्य, बर्हिषो विशेषो वक्ष्यते. आश्ववालः प्रस्तरः, विधृती चैक्षव्याव् इति. तेन न परविहितं बर्हिर् उच्यते, न निरिष्टिकम्{*4।237*}, न कुतश्चिद् धर्मा प्रतिदिश्यन्ते. किं तर्हि? साधारणम् अमीषां बर्हिर् उच्यते, यद् आतिथ्यायां विधीयते, तद् एवोपसदाम्, अग्नीषोमीयस्य च विधीयत इति, अविशिष्टानां बर्हिषा संयोग एकेन सर्वेषाम्, यद् आदौ बर्हिर् लूयते, तल् लवनं सर्वेषाम् अर्थेन, साधारणो बर्हिषः प्रयोगः. एवं श्रुतिः शब्दस्य, परिगृहीता भविष्यति, इतरथा धर्मलक्षणा भवेत्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्मात् त्रयाणां साधारणं बर्हिर् इति, पक्षोक्तं प्रयोजनम्.
[486]{*4।238*}
नोतेस्:
*{4।236: ए2: वाक्येन. यदातिथ्यायाम् इत्य् एवं}*
*{4।237: ए2: निरिष्टकम्}*
*{4।238: ए2: 5,59; ए6: 2,34}*
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात्
यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति. यस्य पर्णमयी जुहूर् भवति, न स पापं श्लोकं शृणोतीति. यस्याश्वत्थ्य् उपभृद् भवति, ब्रह्मणैवास्यान्नम् अवरुन्धे, यस्य वैकङ्कती ध्रुवा भवति, प्रत्य् एवास्याहुतयस् तिष्ठन्ति. अथो प्रैव जायते, यस्यैवंरूपाः स्रुवा{*4।239*} भवन्ति, सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्ते, नास्यापरूपम् आत्मन् जायत इति{*4।240*}. तथा ज्योतिष्टोमसंस्कारे{*4।241*} फलश्रुतिः, यदाङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते{*4।242*}, तथा, केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तति, स्नाति, मृता वा एषा त्वग् अमेध्यं वास्यैतद् आत्मनि शमलं तद् एवोपहते मेध्य एव मेधम् एवम् उपैति{*4।243*}. कर्मणि फलं श्रूयते, अभीषू वा एतौ यज्ञस्य यद् आधारौ, चक्षुषी वा एतौ यज्ञस्य यद् आज्यभागौ{*4।244*}, यत् प्रयाजानुयाजा इज्यन्ते, वर्म वा एतद् यज्ञस्य क्रियते, वर्म यजमानस्य भार्तृव्यस्याभिभूत्यै, इति{*4।245*}.
अत्र संदेहः, किम् इमे फलविधयः, उतार्थवादा इति. किं प्राप्तम्? फलविधयः, प्रवृत्तिविशेषकरत्वात् फल[488]{*4।246*}विधेः, यथा खादिरं वीर्यकामस्य यूपं कूर्यात्, पालाशं ब्रह्मवर्चस्कामस्य, बैल्वम् अन्नाद्यकामस्येति{*4।247*}. यथैते फलविधयः, एवम् इहापि द्रष्टव्यम्. एवं प्राप्ते ब्रूमः. फलार्थवादा इति. कुतः? परार्थत्वात्, क्रत्वर्थान्य् एतानि. जुहूः प्रदाने गुणभूताः, उपभृद् उपधारणे, स्रुवा{*4।248*} आज्यधारणे, अञ्जनवपनादि च यजमाने, आघाराव् आज्यभागौ प्रयाजानुयाजाश् चाग्नेयादिषु. यदि फले ऽपि गुणभावः स्यात्, अन्यत्रोपदिष्टानाम् अन्यत्र पुनर् गुणभाव उपदिष्ट इति प्रतिज्ञायेत. न चैतन् न्याय्यम्, परार्थता हि गुणभावः, क्रत्वर्था चैषां शब्देन, जुह्वा जुहोति जुह्वा होमम् अभिनिर्वर्तयतीति{*4।249*}, एवं सर्वत्र. तस्मान् नैते पुरुषार्थाः.
नोतेस्:
*{4।239: ए2: स्रुचो}*
*{4।240: तैत्. स्. 3.5.7.3}*
*{4।241: ए2: ज्योतिष्टोमे संस्कारे}*
*{4।242: तैत्.स्. 6.1.1.2}*
*{4।243: तैत्.स्. 6.1.1.2}*
*{4।244: तैत्. स्. 2.6.2.1}*
*{4।245: तैत्. स्. 2.6.1.5}*
*{4।246: ए2: 5,59; ए6: 2,35}*
*{4।247: ऐत्.ब्र्. 2.1}*
*{4।248: ए2: ध्रुवा}*
*{4।249: ए2 गिब्त् जुह्वा होमम् अभिनिर्वर्तयति इन् क्लम्मेर्न्}*
उत्पत्तेश् चातत्प्रधानत्वात्
अथोच्येत - पुरुषम् अपि प्रति गुणभाव उपदिष्टः, यस्य पर्णमयी जुहूर् भवति न स पापं श्लोकं शृणोतीत्येवमादिभिर् वाक्यैर् इति. तच् च न. कस्मात्? उत्पत्तेर् अतत्प्रधानत्वात्, तत्र{*4।250*}, पालाश्या जुह्वापापश्लोकश्रवणं{*4।251*} क्रियत इति न{*4।252*} कश्चिच् छब्द आह, एतावच् छ्रूयते, यस्यासौ भवति, न स पापं श्लोकं शृणोतीति, एतावद् अत्र शब्देन गम्यते, यस्यैवंलक्षणा{*4।253*} जुहूः, तस्यापापश्लोकश्रवणम् इति. तत्र जुह्वा तत् क्रियते, जुहूर् वा तदर्थेति, नैतच् छब्द आह.
नन्व् अनुमानाद् एतद् गम्यते, ध्रुवं पालाश्या जुह्वा तत् क्रियते, यतस् तस्यां सत्यां तद् भवतीति. अत्रोच्यते, न, एवंजातीयकं कार्यकारणत्वे ऽनुमानं भवति, कार्यकारणसंबन्धो नाम स भवति, यस्मिन् सति यद् भवति, यस्मिंश् चासति यन् न भवति, तत्रैव कार्यकारणसंबन्धः. इह तु तद्भावे [489]{*4।254*} भावो ज्ञातः, नाभावे ऽभावः. यस्य पालाशी न भवति तस्यापापश्लोकश्रवणं नास्तीति, न, एवंजातीयकः शब्दो ऽस्ति, तेन न, नियोगतो ऽवगम्यते, तेनेदं क्रियत इति, लक्षणम् एतत् पुरुषस्य गम्यते, तस्मान् नानुमानम्.
अपि च, यस्यापि जुहूः पालाशी भवति, तस्यापि पापश्लोकश्रवणं भवति. कथम् अवगम्यते? प्रत्यक्षतः. नन्व् एवं सत्य् अग्निहोत्रेणापि फलं न साध्येत. न{*4।255*} हुतामात्रेण फलं दृश्यत इति. नैष दोषः, न हि तत्रोच्यते, तावतैव फलं भवतीति. इह तु वर्तमानायां जुहूसत्तायां वर्तमानस्य पापश्लोकश्रवणस्य प्रतिषेधः. तस्मान् न तत्रानुमानम्, इदं कार्यम्, इदं कारणम् इति. अग्निहोत्रादिषु तु शब्देनैव कार्यकारणसंबन्ध उच्यते. तस्मात् तत्र तत्काले ऽदृश्यमाने ऽपि फले, कालान्तरे फलं भविष्यतीति गम्यते, न त्व् एवंजातीयकेषु, तस्मान् नैवंजातीयकेभ्यः फलम् अस्तीति.
ननु यस्य पालाशी जुहूर् भवति, न स पापं श्लोकं शृणोतीत्य् एवम् उक्ते तत् एव तत् फलं भवतीति गम्यते, तस्माद् इहापि कालान्तरे फलं भविष्यतीति. उच्यते, सत्यं गम्यते, प्रमाणं तत्र किम् इति विचारयामः. न तावत् प्रत्यक्षम्, नानुमानम्, नेतरद् दृष्टविषयम् उपमानादि, नो खल्व् अपि शब्द इत्य् एतद् उक्तम्, वाक्यार्थो ऽपि पदार्थोपजनितो भवति, नान्यथा, तद् उक्तम् - तद्भूतानाम् क्रियार्थेन समाम्नाय इति{*4।256*}{*4।257*}. तस्माद् अप्रमाणमूलत्वान् मिथ्याविज्ञानम् एतत्. लौकिकेषु तु वाक्येष्व् अथैवं{*4।258*} गम्यते, तानि हि विज्ञाते ऽर्थे प्रयुज्यमानान्य् अध्याहार्यपदानि गौणानि विपरिणतव्यवहितार्थानि च प्रयुज्यन्ते. तस्मात् तत्सादृश्याद् वचनावगम्येष्व् अप्य् अर्थेषु भवति तत्त्वरूपो मिथ्याप्रत्ययः, यथा मृगतृष्णादिषु.
[490]{*4।259*} अपि च, वर्तमानापदेशो ऽयम्, न च, अयम् अर्थो वर्तमानः, तस्मान् न खादिरस्रुवादिसद्भावे तत्फलं भवेत्. तद् एवम् आपतति, खादिरादौ सति भवति तत्फलं नापि भवति, असत्य् अपि भवति वा न वेति. नैवं विज्ञायते, कुतस् तत्फलम् इति. तस्माद् एवंजातीयकेषूच्चरितेषु न क्वचित् प्रवृत्तिर् न कुतश्चिन् निवृत्तिर् इत्य् आनर्थक्यम् अक्रियार्थत्वात्. अर्थवादे तु सति भवति प्रयोजनं खदिरादेः, स्रुवादिषु कर्मार्थेषु प्रयोजनवत्सु. यद्य् एषां क्रतुं प्रति प्रयोजनवत्ता न स्यात्, तत एतद् एव फलं कस्याचिच् छब्दवृत्त्या भवेद् वा न वेति विचार्येत. सति तु पारार्थ्ये नैव काचिच् छब्दप्रवृत्तिर् आश्रयितुं शक्यते. कैमर्थ्ये हि सा कल्प्येत. तस्माद् एवंजातीयका अर्थवादाः, अर्थवादत्वे चावर्तमाने लक्षणया वर्तमानशब्दः प्रशंसार्थ उपपत्स्यते.
नोतेस्:
*{4।250: ए2: न तत्र}*
*{4।251: ए2: पर्णमय्या जुह्वापापश्लोकश्रवणं}*
*{4।252: ए2 ओम्. न}*
*{4।253: ए2: तस्यैवंलक्षणा}*
*{4।254: ए2: 5,61; ए6: 2,36}*
*{4।255: ए2 ओम्. न}*
*{4।256: ए2: समाम्नायो ऽर्थस्य तन्निमितत्वाद् इति}*
*{4।257: म्स् 1.1.25}*
*{4।258: ए2 ओम्. अथ}*
*{4।259: ए2: 5,61; ए6: 2,36}*
फलं तु तत्प्रधानायाम्
अथ यद् उक्तम्, यथा, खादिरं वीर्यकामस्य यूपं कुर्यात्, बैल्वम् अन्नाद्यकामस्य पालाशं ब्रह्मवर्चसकामस्येति, युक्तं तेषु, विधिविभक्तिः कुर्याद् इति वीर्यखादिरसंबन्धस्य विधात्री, न च वर्तमानापदेशिनी. तस्मात् तत्राविरोध इति. एवं हि पदवाक्यार्थन्यायविदः श्लोकम् आमनन्ति -
कुर्यात्, क्रियेत, कर्तव्यम्, भवेत्, स्याद् इति पञ्चमम्।
एतत् स्यात् सर्ववेदेषु नियतं विधिलक्षणम्॥इति.
विधिविभक्तिं हि विधायिकां लिङ्गं मन्यमानाः श्लोकम् इमं समामनन्ति{*4।260*}. अस्ति चात्र विधिविभक्तिः. तस्माद् अनुपवर्णनम् एतद् इति.
[491]{*4।261*}
नोतेस्:
*{4।260: ए2: मन्यमानास् त एवं समामनन्ति}*
*{4।261: ए2: 5,63; ए6: 2,37}*
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात्
अस्ति ज्योतिष्टोमे नैमित्तिकम्, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुर् अश्मां{*4।262*} राजन्यस्य, रायोवाजीयं वैश्यस्येति, तथाग्नौ नैमित्तिकम्, साहस्रं प्रथमं चिन्वानश् चिन्वीत, द्विसाहस्रं द्वितीयम्, त्रिसाहस्रं तृतीयम् इति{*4।263*}, तथा दर्शपूर्णमासयोः श्रूयते, गोदोहनेन पशुकामस्य प्रणयेत्, कांस्येन ब्रह्मवर्चसकामस्य, मार्तिकेन प्रतिष्ठाकामस्येत्य् एतानि नैमित्तिकानि. तेषु संदेहः, किम् एतान्य् एव नैमित्तिकानि नित्यार्थे, उतान्यत् तत्र तत्र{*4।264*} नित्यार्थ इति.
किं प्राप्तम् एतान्य् एवेति. कुतः? अत्र ब्रह्मसामादिभिर् अवश्यं भवितव्यम्, चोदितानि हि तानि, संनिहितानि साधनान्य् आकाङ्क्षन्ति. न च, एषां सन्ति विहितानि साधनानि, समीपतश् च नैमित्तिकान्य् उपनिपतन्ति, तैः प्रकृतैः संनिहितैर् एतानि निराकाङ्क्षीक्रियन्त इत्य् एतन् न्याय्यम्. कथम्? नैमित्तिकं हि संनिहितम्, वाक्याद् अवगम्यते नान्यच् छ्रूयते, यावांश् च श्रुतस्योत्सर्गे दोषः, तावान् एवाश्रुतकल्पनायाम्.
आह, ननु निमित्तार्थानि तानि प्रकृतानि. उच्यते, नैष दोषः, अन्यार्थम् अपि प्रकृतम् अन्येन संबध्यते, यथा, शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश् च पानीयं पीयते, उपस्पृश्यते च. एवम् इहापि द्रष्टव्यम्. अथवा, अस्त्य् एवात्रावान्तरवाक्यम्, यथा, गोदोहनेन प्रणयेद् इति, तद् अकामसंबद्धं गोदोहनेन प्रणयनं प्रापयति. न च शक्यं श्रुतम् उत्स्रष्टुम्. यो ऽप्य् अयम्, [492]{*4।265*} पशुकामस्येति शब्दः, स पशुकामसंबन्धं शक्नुयात् कर्तुम्, नावान्तरवाक्यस्यार्थं निवारयितुम्, न च गम्यमानम्, विना कारणेन, अविवक्षितम् इति शक्यं वदितुम्. भवन्ति च द्विष्ठानि{*4।266*} वाक्यानि, यथा, श्वेतो धावति, अलम्बुसानां यातेति. तस्मान् नैमित्तिकान्य् एव नित्यार्थे भवितुम् अर्हन्तीति.
एवं प्राप्ते ब्रूमः, नैमित्तिके श्रूयमाणे क्रत्वर्थम् अन्यत् स्याद् इति. कुतः? विकारत्वाद् विशेषे श्रुतत्वाद् इत्य् अर्थः{*4।267*}. विशेषे हि तत्र नैमित्तिकं श्रूयते, तद् असति तस्मिन् विशेषे न भवितुम् अर्हति. यद् उक्तम्, अवश्यकर्तव्यानीति. नैष दोषः, अवश्यं कर्तव्यत्वात् करिष्यन्ते. यत् तु नान्यद् एषां विहितं साधनम् इति, सामान्यविहितं भविष्यतीति न दोषः. किं तत्? अभीवर्तो ब्रह्मसाम, अष्टादशमन्त्रगतो ऽग्निः, वारणं प्रणयनपात्रम्. अथ यद् उक्तम्, संनिहितैः प्रकृतैर् नैमित्तिकैर् ब्रह्मसामादीनि संभत्स्यन्त इति. नेति ब्रूमः, न हि बार्हद्गिरादीनां प्रकरणम्. अथोच्येत, प्रकृतैः स्तोत्रादिभिः संबध्यन्त इति, एतद् अपि नोपपद्यते. यद्य् अपि प्रकृतानि नित्यानि स्तोत्रादीनि, तथापि वाक्येन निमित्तसंयोगे श्रूयन्ते बार्हद्गिरादीनि, वाक्यं च प्रकरणाद् बलीयः.
यद् उक्तम्, संनिधानाद् वाक्याद् अवगतो ऽयम् अर्थ इति. न, एवंजातीयको वाक्यार्थः सामान्यं पदार्थं{*4।268*} बाधितुम् अर्हति. निमित्तसंयोगे हि बार्हद्गिरादीनाम् अर्थवत्ता. तस्मात् तत्र तत्रान्यन् नैमित्तिकाद् इति.
अथ यद् उक्तम्, अवान्तरवाक्येन गोदोहनम् अपि प्रापितं न शक्यम् उत्स्रष्टुम्, ऋते कारणात्, अविवक्षितं कल्पयितुम्{*4।269*}, [493]{*4।270*} द्विष्ठं हि तद् भवतीति. उच्यते, कारणाद् अविवक्षितम्. किं कारणम्? न हि, इदं युगपद् भवति, परिपूर्णेन चार्थाभिधानम् अवान्तरवाक्येन चेति. कथम्? प्रणयतीति प्रपूर्वे नयतौ विधिविभक्तिः स्वपदगतम् अर्थं श्रुत्या विदधाति, प्रणयनादिसंबद्धम् अपि गोदोहनादि श्रुत्या, वाक्येन च. वस्तु फलस्य गोदोहनादेश् च संबन्धः. स हित्वा श्रुत्यर्थम्, केवलेन वाक्येन. अथ प्रणयनस्य गोदोहनादिसंबन्धम्, गोदोहनादेश् च फलेन संबन्धं वदतीत्य् उच्यते. न{*4।271*}, द्व्यर्थाभिधानाद् भिद्येत नितरां वाक्यम्, न चैतन् न्याय्यम्.
यत् तु, श्वेतो धावतीत्येवमादि, भवेत् तत्र विशेषानवगमाद् उभयार्थावगतिः. इह तु गम्यते विशेषः कमिपदोच्चारणम्, स इह श्रौतो ऽर्थः. मन्येत, यदि गोदोहनादेः क्रियासंबन्धो विवक्ष्यते, कमिपदं प्रमादो भवेत्. न चायं प्रमादः, नैवावान्तरवाक्यार्थे विवक्षिते कमिपदसंबन्धो ऽवकल्पते. तस्मान् न द्विष्ठं वाक्यम्, गोदोहनादिकमिसंबन्ध एवात्राभिधीयते, न नित्यकार्ये भवितुम् अर्हतीति, एवं सर्वत्र.
नोतेस्:
*{4।262: ए2: अश्मं; ए1 (fन्.): अस्यम्}*
*{4।263: तैत्.स्. 5.6.8.2}*
*{4।264: ए2 ओम्. तत्र}*
*{4।265: ए2: 5,64; ए6: 2,38}*
*{4।266: ए1 (fन्.): द्विविधानि}*
*{4।267: ए1 गिब्त् विशेषे श्रुतत्वाद् इत्य् अर्थः इन् क्लम्मेर्न्}*
*{4।268: ए2: सामान्यपदार्थं}*
*{4।269: ए1 गिब्त् अविवक्षितं कल्पयितुम् इन् क्लम्मेर्न्}*
*{4।270: ए2: 5,64; ए6: 2,38}*
*{4।271: ए2: तन् न}*
एकस्य तूभयत्वे संयोगपृथक्त्वम्
अग्निहोत्रे श्रूयते, दध्ना जुहोतीति, पुनश् च, दध्नेन्द्रियकामस्य जुहुयाद् इति. तथाग्नीषोमीये पशाव् आम्नायते, खादिरे बध्नातीति, पुनश् च, खादिरं वीर्यकामस्य यूपं कुर्याद् इति. तत्र संदेहः, किम् अत्राप्य् अन्यन् नित्यार्थम्, [494]{*4।272*} उत नैमित्तिकम् एवेति. किं प्राप्तम्? पूर्वेण न्यायेनान्यद् इति. एवं प्राप्ते ब्रूमः - एकस्योभयत्वे नित्यत्वे नैमित्तिकत्वे च{*4।273*} संयोगपृथक्त्वं कारणम्. तद् इह संयोगपृथक्त्वम् अस्ति, एकः संयोगो दध्ना जुहोतीति, एको दध्नेन्द्रियकामस्येति, तथैकः, खादिरे बध्नातीति, अपरः, खादिरं वीर्यकामस्येति. तस्मान् नित्यार्थे कामाय च दधिखादिरादीति.
नोतेस्:
*{4।272: ए2: 5,65; ए6: 2,39}*
*{4।273: ए1 गिब्त् नित्यत्वे नैमित्तिकत्वे च इन् क्लम्मेर्न्}*
शेष इति चेत्
इति चेत् पश्यसि, कस्मान् न पूर्वस्यायम् अपि शेषो भवति? यद् एतद् उक्तम्, दध्ना जुहोति, खादिरे बध्नातीति, तस्यैव तु दध्नः फलम् इन्द्रियम्, तथा खादिरस्य वीर्यम्. तच् चेदं चैकं वाक्यम् इति.
नार्थपृथक्त्वात्
नैतद् एवम्, पृथग् एताव् अर्थौ, यश् च दधिहोमसंयोगः, यश् च दधीन्द्रियसंयोगः, तथा खादिरस्य बध्नातिना संयोगो वीर्येण च. द्वाव् एताव् अर्थौ, द्वाव् अपि च विधित्सितौ, अर्थैकत्वाच् चैकं वाक्यं समधिगतम्. इहार्थद्वयेन भिद्येत वाक्यम्. कथम्? जुहोतिसमभि[495]{*4।274*}व्याहृता विधिविभक्तिः, असंभवे श्रौतस्य होमविधानस्य{*4।275*}, गुणं समभिव्याहृतं विधातुम् अर्हति, तद् असंभवे गुणफलसंबन्धम्. तत्र ह्य् अत्यन्ताय श्रुतिर् उत्सृष्टा वाक्यानुरोधेन स्यात्, न च युगपत् संभवासंभवौ संभवतः. तस्माद् यद् एव नैमित्तिकं तद् एव नित्यार्थम् इति.
नोतेस्:
*{4।274: ए2: 5,66; ए6: 2,39}*
*{4।275: ए2: श्रौतहोमविधानस्य}*
द्रव्याणां तु क्रियार्थानाम् संस्कारः क्रतुधर्मः स्यात्
ज्योतिष्टोमे समामनन्ति - पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति{*4।276*}. तत्र संदेहः, किम् अयं पुरुषधर्मः, उत क्रतोर् इति. प्रकरणं बाधित्वा वाक्येन विनियुक्तः पुरुषस्येति. एवं प्राप्ते ब्रूमः, पुरुषाणां क्रियार्थानां शरीरधारणार्थो बलकरणार्थश् चायं संस्कारो व्रतं नाम, स क्रतुधर्मो भवितुम् अर्हति, प्रकरणानुग्रहाय. ननु वाक्यात् पुरुषधर्म इति. नेति ब्रूमः, तथा सति फलं कल्प्यम्, कॣप्तम् इतरत्र. प्रयोगवचनेनोपसंहृतं हि तत्प्रधानस्य. तस्मात् क्रतुधर्मः.
नोतेस्:
*{4।276: तैत्.स्. 6.2.5.2-3}*
पृथक्त्वाद् व्यवतिष्ठेत{*4।277*}
अथ पुरुषसंयोगः किम् अर्थः? व्यवस्थापनार्थ इति ब्रूमः, पयोव्रतं ज्योतिष्टोमस्य भवति, तत् तु ब्राह्मणकर्तृकस्यैव, नान्यकर्तृकस्येति. एवं सर्वत्र.
[496]{*4।278*}
नोतेस्:
*{4।277: ए2: व्यवतिष्ठेत्}*
*{4।278: ए2: 5,67; ए6: 2,40}*
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते
इदम् आमनन्ति, तस्मात् पितृभ्यः पूर्वेद्युः करोतीति{*4।279*}, तथा, सर्वेभ्यो वा एष देवेभ्यः सर्वेभ्यश् छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानम् आगुरते, यः सत्रायागुरते, स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेतेत्य्{*4।280*} एवंलक्षणके श्रुते, भवति संदेहः, किं निष्फलम् एतत् कर्ममात्रम्, उत सफलम् इति. किं प्राप्तम्? निष्फलम् इति. कुतः? फलाश्रुतेः, शब्दप्रमाणके कर्मण्य् एवंजातीयके. न ह्य् अशब्दं प्रतीयते.
ननु वैदिकानि कर्माणि फलवन्ति भवन्तीत्य् एवम् उक्तम्. उच्यते, फलदर्शनात् तानि फलवन्तीत्य् उक्तम्, न वैदिकत्वात्. एवं तर्हि कर्तव्यतावगमात् फलवन्तीत्य् अध्यवस्यामः, सुखफलं हि कर्तव्यं भवतीति. उच्यते, प्रत्यक्षविरुद्धम् एवंजातियकस्य कर्तव्यत्वम्, साक्षाद् धि तद् दुःखफलम् अगच्छामः. न चैवंजातीयकं प्रत्यक्षविरुद्धं वचनं प्रमाणं भवति, यथाम्बुनि मज्जन्त्य् अलाबूनि, शिलाः प्लवन्ते, पावकः शीत इति. अपि च, अनुमानाद् अत्र सुखफलता, यस्मात् कर्तव्यम् अतः सुखफलम् इति, प्रत्यक्षं चानुमानाद् बलीयः. तस्मान् निष्फलम् एवंजातीयकम् इति.
एवं ह्य् अत्र फलं कल्प्येत, यद्य् एतत् फलवत्, एवम् उपदेशो ऽर्थवान् भवतीति. उच्यते, कामं वाक्यम् अनर्थकम् इति न्याय्यं वचनं भवेत्, भवन्ति ह्य् अनर्थकान्य् अपि वचनानि, [497]{*4।281*} दश दाडिमानि, षडपूया{*4।282*} इत्य् एवंजातीयकानि. ननु विश्वजिद्व्यापारः सुखफल इति. उत्तरम्{*4।283*}, सुखफलं हि भवत्य् अपूर्वम्, न व्यापारः, न चायम् अपूर्वस्य कर्तव्यताम् आह, फलकर्तव्यतायां हि सत्यां तद् अवगम्यते, वाक्यार्थश् च फलस्य कर्तव्यताम् आह, न पदार्थः. न चात्र फलसंबद्धं वाक्यम् अस्ति. तस्मान् नायम् अपूर्वस्य विधायकः शब्दः, व्यापारमात्रम् एव{*4।284*} विदधाति, स च व्यापारो न तदात्वे सुखफलः, नाप्य् आयत्याम्, भङ्गित्वात्. तत्रापूर्वं कल्पयित्वा फलम् अवगम्येत, फलं च कल्पयित्वापूर्वम्. एवम् इतरेतराश्रयं भवति, इतरेतराश्रयाणि च न{*4।285*} प्रकल्पन्ते. तस्मान् निष्फलम् एवंजातीयकम् इति.
आह, अध्याहरिष्यामहे फलवचनम्{*4।286*}. उच्यते, न शक्यं परिपूर्णे वाक्ये ऽध्याहर्तुम्, परिपूर्णं हीदं वाक्यम्, विश्वजिद्यागः कर्तव्य इति. न, किंचित् पदम् अस्ति साकाङ्क्षम्, येनाध्याहृत्य फलं संबध्येत, यथाक्षेमे ऽपि पथि{*4।287*}, भवति विप्रलम्भकोपदेशः{*4।288*}, क्षेमो ऽयम्, यथा गच्छतु भवान् अनेनेति. परिपूर्णम् एवेदं वाक्यम्, नाध्याहारम् अर्हति विप्रलम्भककर्तृकम्{*4।289*}, एवम् इदम् अपि परिपूर्णं वाक्यं नाध्याहारम् अर्हति. अपि च, अध्याह्रियमाणेनैवेदं वाक्यं संबध्येत, विश्वजिद्यागः कर्तव्यः, इदं च फलं भवतीति, द्वाव् इमाव् अर्थौ, एकार्थं च वाक्यं समधिगतम्. तस्माद् अनर्थकम् एवंजातीयकं कर्मेति.
[498]{*4।290*}
नोतेस्:
*{4।279: तैत्.स्. 2.5.3.6}*
*{4।280: तैत्.ब्र्. 1.4.7.7}*
*{4।281: ए2: 5,68; ए6: 2,41}*
*{4।282: ए2,6: षडपूपा}*
*{4।283: ए2 ओम्. उत्तरम्}*
*{4।284: ए1 (fन्.): यागमात्रम् एष}*
*{4।285: ए2: च कार्याणि न}*
*{4।286: ए1 (fन्.): फलम्}*
*{4।287: ए1 (fन्.): क्षेमो ऽयं पन्था}*
*{4।288: ए2: विप्रलम्भकापदेशः}*
*{4।289: ए2: विप्रलम्भकत्वे ऽपि; ए2 (fन्.): विप्रलम्भककर्तृकम्}*
*{4।290: ए2: 5,69; ए6: 2,41}*
अपि वाम्नानसामर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थवत्त्वेन वचनानि प्रतीयन्ते ऽर्थतो ह्य् असमार्थानाम् आनन्तर्ये ऽप्य् असंबन्धस् तस्माच् छ्रुत्येकदेशः सः
अपि वेति पक्षव्यावृत्तिः. न चैतद् अस्ति, अफलम् इति, फलचोदना, अर्थेन गम्येत. कतमेनार्थेन? कर्तव्यतावचनेन. आह, ननु व्यापारस्य प्रत्यक्षविरुद्धा कर्तव्यता. न व्यापारस्योच्यते. कस्य तर्हि? व्यापारेणान्यस्य कस्यचिद् इति, भवति तेनेदानीं वाक्यं साकाङ्क्षम्. तत्राध्याहारो ऽवकल्पते, भवति चाध्याहारेणापि कल्पना, यथा द्वारं द्वारम् इत्य् उक्ते, संव्रियताम् अपाव्रियताम् इति{*4।291*}. कथं पुनर् अवगम्यते, इहाध्याहारेण कल्पयितव्यम् इति. आम्नानसामर्थ्यात्, एवम् इदम् आम्नानम् अर्थवद् भविष्यति, शक्नोति चार्थम् अवगमयितुम्. तस्मान् नानर्थकम्.
ननु यत् पदम् अध्याह्रियते, तत् पौरुषेयम्, तेनावगतं चाप्रमाणम्. उच्यते, नापूर्वम् अध्याहरिष्यामः, वैदिकेनैवास्य, सहान्यत्र समाम्नातेन, एकवाक्यताम् अध्यवसामः. आह, नैवं शक्यम्, अन्तिकाद् उपनिपतितं हि पदम्{*4।292*}, वाक्यार्थम् उपजनयितुम् अलं भवति, न दूराद् अवतिष्ठमानम्. अत्रोच्यते, व्यवहितम् अपि हि, पराणुद्य व्यवधायकम्, आनन्तर्येण मनसि विपरिवर्तमानम् अलम् एव भवति विशेषम् उपजनयितुम्. यथा -
इतः पश्यसि धावन्तं दूरे जातं वनस्पतिम्।
त्वां ब्रवीमि विशालाक्षि या पिनक्षि जरद् गवम्॥ [499]{*4।293*} इति, इतः{*4।294*} पश्यसीति शब्दो बुद्धौ भवति, सः दूरे जातं वनस्पतिम्{*4।295*}, एतैः पदैर् व्यवहितेन जरद् गवम् इत्य् अनेन शब्देन व्यवधायकान्य् अपोद्य संबध्यमानः संबध्यते, अर्थानां ह्य् अर्थवत्त्वेन हेतुना व्यवहितान्य् अपि वचनानि संबध्यन्ते. यानि पुनर् अर्थतो ह्य् असमर्थानि, तान्य् आनन्तर्ये ऽपि सति न परस्परेण संबन्धम् अर्हन्ति, यथा या पिनक्षि जरद् गवम् इत्येवमादीनि. तस्मान् न पौरुषेयता भविष्यति. आह, नन्व् अत्राप्य् अपेक्षा पौरुषेयी. उच्यते, नापेक्षा वेदे, वेदार्थप्रतिपत्ताव् अभ्युपाय एष भवति, अननतरापेक्षायाम् असंभवन्त्याम् आम्नानसामर्थ्याद् इतरापेक्षावृत्तिर् आश्रीयते. तस्माच् छ्रुत्य् एकदेशः सः, फलकामपदं दूरे ऽपि सत् तस्य वाक्यस्यैकदेशभूतम् इत्य् अर्थः{*4।296*}.
नोतेस्:
*{4।291: ए2: इति वा}*
*{4।292: ए2 ओम्. पदम्}*
*{4।293: ए2: 5,70; ए6: 2,42}*
*{4।294: ए2: अत्र, इतः}*
*{4।295: ए2: वनस्पतिम् इति}*
*{4।296: ए1 गिब्त् फलकामपदं दूरे ऽपि सत् तस्य वाक्यस्यैकदेशभूतम् इत्य् अर्थः इन् क्लम्मेर्न्}*
वाक्यार्थश् च गुणार्थवत्
इन्द्राय राज्ञे शूकर{*4।297*} इति{*4।298*} यथा वाक्यान्तरस्थेन विधिशब्देन गुणविधानं भवति, एवं फलविधानम् अपि भवितुम् अर्हतीति, यथा वरुणो वैतम् अग्रे प्रत्यगृह्णाद् इति{*4।299*} व्यवधारणकल्पना. एवम्{*4।300*} इदम् अपि द्रष्टव्यम्.
नोतेस्:
*{4।297: ए2: सूकर}*
*{4।298: तैत्.स्. 5.5.11.1}*
*{4।299: ए2: वैतं गृह्णातीति}*
*{4।300: ए2: व्यवधारणकल्पनायाम् अपि प्रामाण्यम्. एवम्}*
तत् सर्वार्थम् अनादेशात्
तस्मात् पितृभ्यः पूर्वेद्युः करोतीति{*4।301*}. विश्वजिता यजेतेति फलवद् एवंविधं कर्मेत्य् एतत् समधिगतम्. इदं तु संदिह्यते, किं सर्वफलम् एतत् कर्म, उतैकफलम् इति. किं प्राप्तम्? तत् सर्वार्थम् इति. कुतः? अनादेशात्, [500]{*4।302*} न किंचिद् इहातिदिश्यते, इदं नाम फलम् इति. अस्ति चेत्, विज्ञायेत. तस्मात् सर्वार्थम् अविशेषात्.
नोतेस्:
*{4।301: तैत्.स्. 2.5.3.6}*
*{4।302: ए2: 5,71; ए6: 2,43}*
एकं वा चोदनैकत्वात्
एकं फलं{*4।303*} स्यात्, न वा सर्वार्थम्. कुतः? चोदनैकत्वात्, सकाङ्क्षत्वाद् एतद् अर्थिपदेन संबध्यत इत्य् उक्तम्, यच् चानेकेनापि संबद्धुं शक्नोति, तद् एकेन संबध्यते, एकेन संबद्धं सन् निराकाङ्क्षं भवति, न तद् अपरेणापि संबन्धम् अर्हति. तस्माद् एकैव कर्तव्यताचोदना{*4।304*} न्याय्या, तस्माद् एकफलतेति.
नोतेस्:
*{4।303: ए2,6: एकफलं}*
*{4।304: ए2: कर्तव्यचोदना}*
स स्वर्गः स्यात्, सर्वान् प्रत्यविशिष्टत्वात्
एवंजातीयकेष्व् एवोदाहारणेष्व्{*4।305*} एतत् समधिगतम्, एकं फलम् इति. इदम् इदानीं संदिह्यते, किं यत्किंचित्, उत स्वर्ग इति. यत्किंचिद् इति प्राप्तम्, विशेषानभिधानात्, तत उच्यते, स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात्, सर्वे हि पुरुषाः स्वर्गकामाः. कुत एतत्? प्रीतिर् हि स्वर्गः, सर्वश् च प्रीतिं प्रार्थयते. किम् अतः? यद्य् एवम्, अविशेषवचनः शब्दो न विशेषे व्यवस्थापितो भविष्यति, यजेत कुर्याद् इति. तस्मात् स्वर्गफलम् एवंजातीयकम् इति.
नोतेस्:
*{4।305: ए2,6: एवोदाहरणेष्व्}*
प्रत्ययाच् च
भवति च, अनादिष्टफले कर्मणि स्वर्गः फलम् इति प्रत्ययो लोके, एवम् उच्यते, आरामकृद् देवदत्तः, नियतो ऽस्य स्वर्गः. [501]{*4।306*} तडागकृद् देवदत्तः, नियतो ऽस्य स्वर्ग इति. किम् अतः? यद्य् एवम्, इत्थम् अनेन न्यायेन स्वर्गे संप्रत्ययो भवति, यस्मात् स्वर्गफलेषु कर्मसु कर्तव्येषु फलवचनं नैवोच्चारयन्ति, गम्यत एवेति. तस्माद् अप्य् अवगच्छामः, एवंजातीयकेषु स्वर्गः फलम् इति.
नोतेस्:
*{4।306: ए2: 5,72; ए6: 2,43}*
क्रतौ फलार्थवादम् अङ्गवत् कार्ष्णाजिनिः
रात्रीः प्रकृत्य श्रूयते, प्रतितिष्ठन्ति ह वैते, य एता उपयन्ति{*4।307*}. ब्रह्मवर्चस्विनो ऽन्नादा भवन्ति, य एता उपयन्तीति. तत्र संदेहः, किं ते फलार्थवादाः, उत फलविधय इति. किं प्राप्तम्? फलार्थवादा इति कार्षाजिनिर् मेने. कुतः? फलार्थवादसरूपा एते शब्दा इति. किं सारूप्यम्? विधिविभक्तेर् अभावः, अङ्गवत्{*4।308*}, यथा यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यतीत्येवमादिषु{*4।309*}.
नोतेस्:
*{4।307: ए2: वा य एता रात्रीर् उपयन्ति}*
*{4।308: ए2: भङ्गवत्}*
*{4।309: तैत्.स्. 3.5.7.1}*
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात्
आत्रेयः पुनर् आचार्य एवंजातीयकेभ्यः, फलम् अस्तीति मेने, न फलार्थवाद इति. कुतः? अश्रुतफलत्वे ऽप्य् अमीषाम्, फलचोदनया वाक्यशेषभूतया भवितव्यम्. तस्माद् अन्या व्यवहिता सती, अव्यवहिता कल्पनीया, इयं त्व् अव्यवहिता कॣप्तैव, प्रतिष्ठया ब्रह्मवर्चससत्तया च समभिव्याहार आसां प्रत्यक्षः, विधिविभक्तिमात्रम् अन्यतो ऽपेक्ष्यम्.
[502]{*4।310*} आह, कथं केवलं विधिविभक्तिमात्रम् अन्यतो भविष्यति? यद् अनेन प्रतिष्ठादिना धात्वर्थेन संभन्त्स्यत इति. उच्यते, सह धात्वर्थेन भविष्यति, न केवलम्. तस्माद् अदोषः. अथवा रात्रीणां या विधायिका विभक्तिः, सा इमम् अपि प्रतिष्ठादिविशेषं विधास्यति प्रयोगवचनेन, स्तुतिर् वा सह प्रतिष्ठादिभिर् विधात्री भविष्यतीति.
नोतेस्:
*{4।310: ए2: 5,73; ए6: 2,44}*
अङ्गेषु स्तुतिः परार्थत्वात्
अथ यद् उक्तम्, यथा यस्य खादिरः स्रुवो भवतीत्येवमादिषु{*4।311*} फलश्रुतिर् अर्थवादो भवति, एवम् इहापि स्याद् इति, युक्तं तत्र फलार्थवादः, फलविध्यसंभवात्, फलार्थवादसंबवाच् च. तद् उक्तम्, द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इति{*4।312*}.
नोतेस्:
*{4।311: तैत्.स्. 3.5.7.1}*
*{4।312: म्स् 4.3.1}*
काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः
काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इत्येवमादीनीति{*4।313*}{*4।314*}. तत्र संदेहः, किम् एषां स्वर्गः फलं कामश् च, उत काम एवेति. किं प्राप्तम्? काम्ये कर्मणि नित्यः स्वर्गः स्यात्. कथम्? सर्वपुरुषार्थाभिधायी सामान्यवचनः शब्दो न विशेषे ऽवस्थापितो भवति, शक्यते ह्य् अस्य दूरस्थेनापि स्वर्गकामशब्देन संबन्धः. आह, ननु विशेषकः शब्दः श्रूयते, ब्रह्मवर्चसकाम इति. नैष विशेषकः, उपाधिकर एषः, यथा काष्ठान्य् आहर्तुं प्रस्थित उच्यते, भवता शाकम् अप्य् आहर्तव्यम् इति, काष्ठाहरणे [503]{*4।315*} शाकाहरणम् उपाधिः क्रियत इति. किम् इदम् उपाधिः क्रियत इति. काष्ठाहरणाधिकारसमीपे द्वितीयं कर्मोपधीयते, सति काष्ठाहरणे, इदम् अपरं कर्तव्यम् इति. एवम् इहापि स्वर्गफले फलम् अपरम् उपधीयते, ब्रह्मवर्चसकामो यागेन स्वर्गम् अभिनिर्वर्तयेद् इति. न हि तत्र ब्रह्मवर्चसफलवचनं स्वर्गफलस्य प्रतिषेधकम्, यथा यज्ञाङ्गे क्रत्वर्थः, गोदोहनेन पशुकामस्य प्रणयेद् इति. यः पशुकामः स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति.
नोतेस्:
*{4।313: ए2 ओम्. इति}*
*{4।314: तैत्.स्. 2.3.2.3}*
*{4।315: ए2: 5,74; ए6: 2,45}*
वीते च कारणे नियमात्
वीते च कारणे, वीतायां फलेच्छायाम् अवाप्ते वा फले समाप्तिनियमो दृश्यते, वृष्टिकामेष्ट्याम्, यदि वर्षेत् तावत्य् एव जुहुयात्, यदि न वर्षेत्, श्वोभूते जुहुयाद् इति{*4।316*}. यदि न स्वर्गः, किम् अर्थः समाप्तिनियमो भवेत्. तस्मान् नित्यः स्वर्ग इति.
नोतेस्:
*{4।316: तैत्.स्. 2.4.10.1}*
कामो वा तत्संयोगेन चोद्यते
कामो वा फलं भवेत्, न स्वर्गः, तत्संयोगेनास्य चोदना भवति, न स्वर्गकामसंयोगेन, आनुमानिको ऽस्य स्वर्गकामेनैकवाक्यभावः. प्रत्यक्षस् तु कामवचनेन, प्रत्यक्षं चानुमानाद् बलीयः. तस्मात् काम एव फलम् इति.
अङ्गे गुणत्वात्
अथ यद् उक्तम्, यथा यज्ञाङ्ग{*4।317*} इति, युक्तम् अङ्गे गुणत्वात्. प्रत्यक्षस् तत्र ऋतुना संयोगः, कामेन च. यः पशुकामः स्यात्, स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति. न त्व् अत्र प्रत्यक्षः शब्दो ऽस्ति, यो ब्रह्मवर्चसकामः स्यात्, स यागेन [504]{*4।318*} स्वर्गम् अभिनिर्वर्तयेद् इति. कथं तर्हि? यो ब्रह्मवर्चसकामः स्यात्, स तद् यागेन निर्वर्तयेद् इति. तस्मान् नाङ्गवद् भवितुम् अर्हतीति.
नोतेस्:
*{4।317: म्स् 4.3.20}*
*{4।318: ए2: 5,75; ए6: 2,45}*
वीते च नियमस् तदर्थम्
अथ यद् उक्तम्, वीतायां फलेच्छायाम्, अवाप्ते वा फले समाप्तिनियमो दृश्यत इति. तत्र ब्रूमः, वीते नियमस् तदर्थम्, वीते नियमो भवति, तस्मै प्रयोजनाय. कस्मै? शिष्टाविगर्हणाय. उपक्रम्यापरिसमापयतः, तदनन्तरम् एवैनं शिष्टा विगर्हयेयः, प्राक्रमिको ऽयं कापुरुष इति वदन्तः. ये हि देवेभ्यः संकल्प्य हविः, न यागम् अभिनिर्वर्तयन्ति, तान् शिष्टा विगर्हन्ते, तस्माद् अवश्यं समापयितव्यम्. तत्रैतद् दर्शनं युक्तं भविष्यति, यदि वर्षेत् तावत्य् एव जुहुयाद् इति{*4।319*}. तस्मात् काम्यानां काम एव फलम् इति.
नोतेस्:
*{4।319: तैत्.स्. 2.4.10.1}*
सार्वकाम्यम् अङ्गकामैः प्रकरणात्
इदम् आम्नायते, एकस्मै वान्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ, एकस्मै वान्ये क्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोम इति. तत्र संदेहः, किम् अङ्गकामैर् अङ्गाङ्गकामैश् च सह, अस्यानुवादः, अथवा विधिर् इति. किं प्राप्तम्? अनुवाद इति, यद् एतत् सार्वकाम्यम्, तद् अनूद्यते, अङ्गकामैश् चाङ्गाङ्गकामैश् च सह, सन्ति ह्य् अङ्गकामाश् चाङ्गाङ्गकामाश् च, यथा, आहार्यपुरीषां पशुकामस्य [505]{*4।320*} वेदिं कुर्यात्, खननपुरीषां प्रतिष्ठाकामस्येत्येवमादयः. तथा, यदि कामयेत, वर्षेत् पर्जन्य इति नीचैः सदो मिनुयाद् इति, तद् विहितम् एवेदम् अभिधीयत इत्य् अनुवादं न्याय्यं मन्यामहे.
नोतेस्:
*{4।320: ए2: 5,36; ए6: 2,46}*
फलोपदेशो वा प्रधानशब्दसंप्रयोगात्
फलविधिर् वा. कुतः? प्रधानशब्देन फलसंयोगो भवति, सर्वेभ्यो दर्शपूर्णमासौ, सर्वेभ्यो ज्योतिष्टोम इति च, प्रधानाभिधानेन च प्रधानस्य सर्वफलवत्ता विहिता. तस्मान् नानुवादः. अथाङ्गकामान् अङ्गाङ्गकामांश् चापेक्षते, तथा लक्षणाशब्दः स्यात्, श्रुतिश् च लक्षणाया गरीयसी. तस्मात् प्रयोगवचनेन विधिर् इति.
तत्र सर्वे ऽविशेषात्
एवंजातीयकेष्व् एवोदाहरणेष्व् एतद् उक्तम्, प्रधाने सर्वकामानां विधिर् इति. इदम् इदानीं संदिह्यते, किं सकृत् प्रयोगे सर्वे कामाः, उत पर्यायेणेति. किं प्राप्तम्? सकृत् प्रयोगे सर्वे कामा इति. कथम्? सर्वेषां कामानां दर्शपूर्णमासौ निमित्तम्, ज्योतिष्टोमश् चेति, निमित्तं चेत् सर्वेषां कामानाम्, को ऽत्र खलु कामो न भविष्यतीति. तस्माद् यौगपद्येन सर्वे कामा इति.
[506]{*4।321*}
नोतेस्:
*{4।321: ए2: 5,77; ए6: 2,47}*
योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात्
न चैतद् अस्ति, सर्वे युगपत् कामा इति, पर्यायो योगसिद्धिः, पर्यायेण भवेयुः कामा इति. कुतः? अर्थस्योत्पत्त्यसंयोगित्वात्, अर्था इमे कामा नाम, न सर्व एव युगपद् उत्पद्यन्ते, असंभवो युगपद् उत्पत्तेः सर्वेषाम्, विरोधात्. अथवा, उत्पत्त्यसंयोगित्वाद् इति, न, कामानाम् एतद् उत्पत्तिवचनम्, उत्पन्नानां लक्षणत्वेन वचनम्, ये सर्वे कामास् तेभ्यो दर्शपूर्णमासौ ज्योतिष्टोमश् चेति. न सर्वे कामाः कर्मणः श्रूवन्ते, ये सर्वे कामास् तेभ्यो हि कर्म विधीयते. तस्मान् न कामानां साहित्यं गम्यत इति.
तत्र सर्वे ऽविशेषात्
{*4।322*}
काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः{*4।323*}, ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः{*4।324*}, चित्रया यजेत पसूकामः{*4।325*}, वैश्वदेवीं सांग्रहायणीं{*4।326*} निर्वपेद् ग्रामकाम इति{*4।327*}. तेषु संदेहः, किम् इह लोके कामाः, उतामुष्मिल् लोक इति. किं प्राप्तम्? तत्रामुष्मिल् लोके{*4।328*} कामाः, अविशेषात्, यथा स्वर्गः, एवम् इमे ऽपि, न ह्य् अनन्तरनिर्वृत्ते{*4।329*} कर्मणि फलम् उपलभ्यते पश्वादि, यच् चानन्तरम् उपलभ्यते, तत् तत इति विज्ञायते, यथा यत्कालं मर्दनम्, तत्कालं मर्दन[507]{*4।330*}सुखम्. यच् च कालान्तर उपलभ्यते, तस्याप्य् अन्यद् एव कारणम् अस्ति प्रत्यक्षम्{*4।331*}, शरीरग्रहणस्य तु नादृष्टादृते किंचित् कारणम् अस्ति. तस्माद् विशिष्टेन्द्रियशरीरादि फलं पशुसंबन्धसमर्थं पशुफलात् कर्मणो भवतीत्य् एवं बोद्धव्यम्. तद् धि दर्शयति, कैकयो यज्ञं विवित्सन् दाल्भ्यम् उवाच, अनया मा राष्ट्रप्रतिपादनीययेष्ट्या{*4।332*} याजयेति. सो ऽब्रवीत्, न वै सौम्य राष्ट्रप्रतिपादनीयां{*4।333*} वेत्थ, अमुष्मै कामाय यज्ञा आह्रियन्त इति जन्मान्तरफलतां दर्शयति. तस्माज् जन्मान्तरफलानि काम्यानीति.
नोतेस्:
*{4।322: अल्तेर्नतिवौस्लेगुन्ग् वोन् म्स् 4.3.27।28 (ए1,2,6)}*
*{4।323: तैत्.स्. 2.3.2.3}*
*{4।324: तैत्.स्. 2.2.1.1}*
*{4।325: तैत्.स्. 2.4.6.1}*
*{4।326: ए1 (fन्.): साग्रहिणीम्; ए2: सांग्रहणीं}*
*{4।327: तैत्.स्. 2.3.9.2}*
*{4।328: ए1 गिब्त् अमुष्मिल् लोके इन् क्लम्मेर्न्}*
*{4।329: ए2: अनन्तरं निर्वृत्ते}*
*{4।330: ए2: 5,78; ए6: 2,47}*
*{4।331: ए2: अस्ति प्रत्यक्षम्}*
*{4।332: ए2: स्वाराष्ट्रप्रतिपादनीययेष्ट्या}*
*{4।333: ए2: राष्ट्रप्रतिपादनं; ए2 (fन्.): राष्ट्रप्रतिपादनीयां}*
योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात्
{*4।334*}
इहैवैषां सिद्धिर् योगस्य, उत्पत्त्या योगो न संभवति, यः पशुभ्यः{*4।335*} कामयते, स एतेन यागेन कुर्याद् इति, नात्रैतद् गम्यते, इह जन्मनि न संभवतीति. यच् चानन्तरं नोपलभ्यत इति. तन् न, प्रत्यक्षानुमानाभ्यां न गम्यते, शब्देन त्व् अस्ति गतिः{*4।336*}. यत् तु कालान्तरे ऽन्यत् कारणम् इति. नैष दोषः, अन्यद् अपि भविष्यति, एतद् अपि. यच् चामुष्मै कामाय यज्ञा आह्रियन्त इति. अत्रोच्यते, एवम् अस्य ऋषेर् मतम्, इह यस्य फलं तेन त्वां न याजयामि, यस्यामुत्र फलं तेन च याजयिष्यामीति. तस्माद् एतत् परिहृतम् इति.
नोतेस्:
*{4।334: सूत्र fएह्ल्त् इन् ए2}*
*{4।335: ए2: पशून्}*
*{4।336: ए2: अस्त्य् अवगतिः}*
समवाये चोदनासंयोगस्यार्थवत्त्वात्
अग्निं चित्वा सौत्रामण्या यजेत{*4।337*}, वाजपेयेनेष्ट्वा बृहस्पति[508]{*4।338*}सवेन यजेतेति{*4।339*}. तत्र संदेहः, किम् अङ्गप्रयोजनसंबन्ध एषः, उत कालार्थः संयोग इति. अङ्गप्रयोजनसंबन्ध इति ब्रूमः, एवं हि श्रुतिविनियुक्तो ऽर्थः, इतरथा कालो लक्ष्येत, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्माद् अग्न्यङ्गं सौत्रामणी, वाजपेयाङ्गं बृहस्पतिसव इति.
नोतेस्:
*{4।337: तैत्.स्. 5.6.3.4}*
*{4।338: ए2: 5,79; ए6: 2,48}*
*{4।339: तैत्.स्. 5.6.3.4}*
कालश्रुतौ काल इति चेत्
एवं चेत् पश्यसि, अङ्गप्रयोजनसंबन्ध इति, अथ कालविधानं कस्मान् न भवति? कालविधिरूपो हि शब्दः, चित्वा चयने ऽभिनिर्वृत्त{*4।340*} इति.
नोतेस्:
*{4।340: ए1 गिब्त् चयने ऽभिनिर्वृत्त इन् क्लम्मेर्न्}*
नासमवायात् प्रयोजनेन स्यात्
नैतद् एवम्, असमवायात्. शब्दप्रयोजनेन शब्दार्थेनेत्य् अर्थः{*4।341*}
नोतेस्:
*{4।341: ए1 गिब्त् शब्दार्थेनेत्य् अर्थः इन् क्लम्मेर्न्}*
. शब्दार्थश् चयनम्, तेनासमवायः स्यात् सौग्रामण्या वाजपेयेन च बृहस्पतिसवस्य. प्रकरणं च बाध्येत, अग्निप्रकरणे श्रूयमाणो ऽग्नेर् धर्मो गम्यते यागः, वाजपेयप्रकरणे च वाजपेयस्य, इतरथा तयोः प्रकरणे ऽन्यस्य धर्मः कालो गम्येत. तस्माद् अङ्गप्रयोजनसंबन्ध इति.
उभयार्थम् इति चेत्।74.3.32॥
दर्शपूर्णमासयोर् आमनन्ति, संस्थाप्य पौर्णमासीं वैमृधम् अनुनिर्वपतीति. तत्र संदेहः, किम् उभयाङ्गं वैमृधः, कालार्थः पौर्णमासीसंयोगः, उताङ्गप्रयोजनसंबन्ध इति. किं प्राप्तम्? एवं चेद् उभयार्थो वैमृधः. कुतः? प्रकरण [509]{*4।342*} उभयोर् आम्नानसामर्थ्यात्, कालविधिसारूप्याच् च संस्थाप्येति.
नोतेस्:
*{4।342: ए2: 5,80; ए6: 2,48}*
न शब्दैकत्वात्
एकः शब्दः, अनुनिर्वपतीति, एकस्मिन्न् एव वाक्ये न द्वौ संबन्धौ शक्नोति विधातुम्. वैमृधस्य दर्शपूर्णमासाभ्याम्, पूर्णमासीकालेन च. एकार्थत्वाद् ध्य् एकं वाक्यं समधिगतम्.
प्रकरणाद् इति चेत्
प्रकरणाद् इति यद् उक्तम्, तत् परिहर्तव्यम्.
नोत्पत्तिसंयोगात्
नैतद् एवम्, एतद् एव वैमृधस्योत्पत्तिवाक्यम्, तद् दर्शपूर्णमासाभ्यां वा प्रकरणाद् एकवाक्यभावम् इयात्. प्रत्यक्षं वा पौर्णमास्या, तत्र प्रत्यक्षसंयोगः प्रकरणाद् बलवान्, प्रत्यक्षश् च पौर्णमास्या संयोगः, परोक्षः कालेन. तस्मात् पौर्णमास्याङ्गं वैमृध इति.
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन संबन्धात्
ज्योतिष्टोमे श्रूयते - आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्ति, प्रहृत्य परिधीञ् जुहोति हारियोजनम् इति. तत्र संदेहः, किम् अङ्गं विधीयते, उत काल इति. अङ्गविधाने श्रुतिः, कालविधाने लक्षणा. तस्माद् अङ्गविधानम् इति प्राप्ते [510]{*4।343*} ब्रूमः, अनुत्पत्तिवाक्ये कालः स्यात्, आग्निमारुतं सोमाङ्गम्, अनुयाजाः पश्वङ्गम्. तत्र न तयोः परस्परेण संबन्धः. तथा परिधयः पश्वङ्गम्, हारियोजनम् अन्यद् एव प्रधानम्. अनुयाजा आग्निमारुतं च प्राप्तम्. आनन्तर्यम् एव तयोर् न प्राप्तम्, तद् विधीयते. तथा हारियोजनस्य परिधिग्रहणस्य च. एवं च सति, न हारियोजनस्य परिधिप्रहरणेन कश्चिद् उपकारः क्रियते, हारियोजनेन वा परिधिप्रहरणस्य. ननु परिधिप्रहरणस्योपरिष्टाद् भावेन तस्योपक्रियेतेति. उच्यते, न ह्य् उपरिभावार्थं परिधिप्रहरणम् अनुष्ठेयम्. विद्यत एवैतत् पश्वर्थम्. तस्मिंश् च सति तस्योपरिभावो विद्यत एवेति. तस्मात् कालार्थः संबन्ध इति.
नोतेस्:
*{4।343: ए2: 5,81; ए6: 2,49}*
उत्पत्तिकालविषये कालः स्याद् वाक्यस्य तत्प्रधानत्वात्
इदम् आम्नायते, दर्शपूर्णमासौ{*4।344*} इष्ट्वा सोमेन यजेतेति{*4।345*}. तत्र संदेहः, किम् एतद् अङ्गस्य विधानम्, उत कालस्येति. किं प्राप्तम्? श्रुतेर् अङ्गस्य, इति प्राप्ते, उच्यते, अस्मिन् कालाङ्गविधानसंशये कालः स्यात्, वाक्यस्य तत्प्रधानत्वात्. कालप्रधानं ह्य् एतद् वाक्यम्, न यागविधानपरम्, अतत्परतास्य{*4।346*}, रूपावचनात्. कथं रूपावचनम्? देवताभावात्. कथम् अभावः? अश्रुतत्वात्. या हि यस्य श्रूयते, सा तस्य देवता भवति. श्रुत्या हि देवता गम्यते, न प्रत्यक्षादिभिः. तस्मान् नापूर्वस्य यागस्य विधानम्, कालार्थे ऽनुवादे नायं दोषः, विहितदेवताको ह्य् अनूद्यते. तस्माद् [511]{*4।347*} अत्र कालार्थः संबन्ध इति. तच् च दर्शयति - एष वै देवरथो यद् दर्शपूर्णमान्सौ, यद् दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति. प्रदर्शिते मार्गे रथेन यातुं{*4।348*} सुखं भवति. एवं दर्शपूर्णमासाव् इष्ट्वा सोमेन यष्टुं{*4।349*} सुखं भवति. दर्शपूर्णमासप्रकृतीनि तस्य दीक्षणीयादीनि स्वभ्यस् तानि भवन्ति. एवम् अर्थवादो ऽर्थवान् भवति.
नोतेस्:
*{4।344: ए2: दर्शपूर्णमासाभ्याम्}*
*{4।345: तैत्.स्. 2.5.6.1}*
*{4।346: ए2: कथम् अतत्परतास्य; ए2 (fन्.): कथं वाग्रूपावचनाद्}*
*{4।347: ए2: 5,82; ए6: 2,50}*
*{4।348: ए2: यातुः}*
*{4।349: ए2: यष्टुः}*
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात्
वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*4।350*}. तत्र{*4।351*} संदेहः, किम् आत्मनिःश्रेयसाय, उत पुत्रनिःश्रेयसायेति. आत्मनिःश्रेयसायेति ब्रूमः, नेमानि फलदानि परस्य भवन्ति कर्माणि. कुतः? आधान आत्मनेपदनिर्देशात्, यथा यद्य् एकं कपालं नश्येद् एको मासः संवत्सरस्यापेतः स्यात्. अथ यजमानः प्रमीयेत द्यावापृथिवीयम् एककपालं निर्वपेत्. यदि द्वे नश्येयाताम्, द्वौ मासौ संवत्सरस्यापेतौ स्याताम्. अथ यजमानः प्रमीयेत, आश्विनं द्विकपालं निर्वपेत्. संख्यायोद्वासयति यजमानस्य गोपीथायेति{*4।352*}, कपालनाशे निमित्त आत्मनिःश्रेयसफलं कर्म दर्शयति. एवम् इहापि द्रष्टव्यम्, तस्माद् आत्मनिःश्रेयसार्थम् इति.
[512]{*4।353*} एवं प्राप्ते ब्रूमः, फलसंयोगो न स्यात् पितुः, फलवचनं शेषभूतं पुत्रस्य, न पितुः. कथम्? एवं श्रूयते, वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते. यद् अष्टाकपालो भवति, गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन् नवकपालो भवति, त्रिवृतैवासमिंस् तेजो दधाति. यद् दशकपालो विराजैवास्मिन् अन्नाद्यं दधाति, यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति. यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति. यस्मिञ् जात एताम् इष्टिं निर्वपति, पूत एव स तेजस्व्य् अन्नाद् इन्द्रियावी पशुमान् भवतीति{*4।354*}. यो जातः, तत्र फलं श्रूयते, नास्ति वचनस्यातिभारः. तस्मात् पुत्रस्य फलम् इति. यद् उक्तम्, न परस्य फलदान्य् एतानि कर्माणीति. तद् उच्यते, यत् पुत्रस्य फलम्, आत्मनः सा प्रीतिः, तस्माद् आत्मनेपदं न विरुध्यते, एताम् एवात्मनः प्रीतिम् अभिप्रेत्य भवति वचनम्, आत्मा वै पुत्र इति.
अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे।
आत्मा वै पुत्रनामासि स जीव शरदः शतम्॥ इति.
नोतेस्:
*{4।350: तैत्.स्. 2.2.5.4}*
*{4।351: ए2: इति विधायाम्नायते, यस्मिञ् जात एताम् इष्टं निर्वपति पूत एव स तेजस्व्य् अन्नाद् इन्द्रियावी पशुमान् भवतीति. तत्र}*
*{4।352: तैत्.स्. 2.6.3.6}*
*{4।353: ए2: 5,83; ए6: 2,50}*
*{4।354: ए2 ओम्. इति}*
अङ्गानां तूपघातसंयोगो निमित्तार्थः
अथ यद् उक्तम्, यद्य् एकं कपालं नश्येद् इत्येवमादि. तत्रोच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थ उपपद्यते, नान्यथा. न हि कपाले नष्टे तद् अन्वेषणार्था इष्टिर् युक्ता. न हि काकिन्यां नष्टायां तद् अन्वेषणं कार्षापणेन क्रियते.
एवं वा,
अङ्गानां तूपघातसंयोगो निमित्तार्थः
{*4।355*}
वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*4।356*}. तत्र संदेहः, किं जातमात्रे, उत कृते जातकर्मणीति. जातमात्र इति ब्रूमः, संप्राप्ते हि निमित्ते नैमित्तिकेन भवितव्यम्. एवं प्राप्ते ब्रूमः, कृते जातकर्मणीति. कुतः? सामर्थ्यात्. कृते हि जातकर्मणि प्राशनं तस्य विधीयते. यदि प्राग् जातकर्मणः, इष्टिः क्रियते, प्राशनकालो विप्रकृष्येत. तत्रास्य शरीरधारणं न स्यात्.
अथ यद् उक्तम्, संप्राप्ते निमित्ते हि नैमित्तिकेन भवितव्यम् इति. उच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थः, उपघातः पुत्रजन्म, तद् भूतं निमित्तम्. न तत्कालो ऽङ्गम्, तच् च निमित्तम्. कृते ऽपि जातकर्मणि नापैति. इतरस्मिन् पक्षे कालो ऽपेयात्, लक्षणा चास्मिन् पक्षे स्यात्. तस्मात् कृते जातकर्मणीति.
अथ किम् अन्तर्दशाहे यस्मिन् कस्मिन् वाहनि, उत स्वकाल इति. किं प्राप्तम्? यस्मिन् कस्मिन् वाहनीति, एवम् अनियमः प्राप्तः. अत्रोच्यते, पौर्णमास्याम् अमावास्यायां वा. कुतः? श्रुतेः, एवं हि श्रूयते, य इष्ट्वा{*4।357*} पशुना सोमेन वा यजेत, स पौर्णमास्याम् अमावास्यायां वा यजेतेति. नातिभारो वचनस्य, इतरस्मिन् पक्षे कालो ऽपेयात्. लक्षणाप्य् अस्मिन् पक्षे स्यात्. अन्यस्यां तिथावन्तर्दशाहे वा कुर्वन् सर्वाण्य् अङ्गान्य् उपसंहर्तुं न शक्नुयात्. कालं शौचं च [514]{*4।358*} नोपसंगृह्णीयात्. तस्माद् अतीते दशाहे पौर्णमास्याम् अमावास्यायां वा कुर्याद् इति.
नोतेस्:
*{4।355: ए2 wइएदेर्होल्त् म्स् 4.3.39 निछ्त्}*
*{4।356: तैत्.स्. 2.2.5.4}*
*{4।357: ए2: इष्ट्या}*
*{4।358: ए2: 5,85; ए6: 2,52}*
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम्
अग्निं चित्वा सौत्रामण्या यजेत{*4।359*}, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति, अङ्गप्रयोजनसंबन्ध इत्य् उक्तम्. एतद् इदानीं संदिह्यते, किं चितमात्रे, तन्त्रमध्य एव कर्तव्यम्, उत स्वकाले कर्तव्यम् इति. तथा वाजपेये किं बृहस्पतिसवे, उत स्वकाल इति. मुख्यकालत्वम् अनयोः स्यात्. कुतः? प्रधानाकालत्वाद् अङ्गानाम्. एको हि कालः प्रधानानाम् अङ्गानां चेति वक्ष्यते{*4।360*}. अङ्गानि तु विधानत्वात् प्रधानेनोपदिश्येरन्न् इति. अग्निचयनं कृत्वा न तावत्य् एव स्थातव्यम्, सौत्रामणीसंज्ञको ऽपरो यागः कर्तव्य इति. तथा वाजपेयम् अभिनिर्वर्त्य नैतावता कृती स्यात्, बृहस्पतिसवसंज्ञकं यागम् अभिनिर्वर्तयेद् इति.
नोतेस्:
*{4।359: तैत्.स्. 5.6.3.4}*
*{4।360: व्ग्ल्. म्स् 11.2.7}*
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात्
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0