मीमांसासूत्र (टीका सहित) · अध्याय 3.7
अथ यद् उक्तम् - व्यपदेश इति. एकस्यैवाधिकृतस्य यथोक्तेन न्यायेनायम् अनधिकृतेन गुणेन व्यपदेशः. अग्निष्टोमग्रहणं चानुवाद इति.
[387]{*3।641*}
नोतेस्:
*{3।641: ए2: 4,547; ए4: 4,836; ए6: 1,261}*
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य
स्तो दर्शपूर्णमासौ, तत्र बर्हिर् बर्हिर् धर्माश् च, तथा वेदिर् वेदिधर्माश् च. तत्र संदेहः - किं बर्हिरादयो बर्हिरादिधर्माश् च प्रधानस्योताङ्गप्रधानानाम् इति. किं तावत् प्राप्तम्? प्रकरणविशेषाद् असंयुक्तं प्रधानस्य, प्रधानस्य एवंजातीयका धर्माः. कस्मात्? प्रकरणविशेषात्, प्रधानानां हि प्रकरणं नाङ्गानाम्, प्रकरणेन चैषां संबन्धः, तस्मात् प्रधानस्य.
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात्
सर्वेषां वाङ्गप्रधानानाम् इमे धर्माः, नात्र शेषत्वं प्रकरणाद् भवति, उपकारलक्षणं हि तत्. यद् यस्योपकरोति, तत् तस्य शेषभूतम्, सर्वेषां चाङ्गप्रधानानाम् इमे धर्मा उपकुर्वन्ति. कथम् अवगम्यते? वाक्यात्, वेद्यां हवींष्य् आसादयतीति हविर्मात्रं वाक्याद् गम्यते, प्रधानहवींषि प्रकरणात्. वाक्यं च प्रकरणाद् बलीयः, तस्माद् बर्हिषि हवींष्य् आसादयतीति.
आह यदि प्रकरणं वाक्येन बाध्यते, लोके ऽपि बर्हिषाम् इमे धर्मा उक्ता भवन्ति. तत्र को दोषः? सर्वत्र धर्माः कर्तव्याः प्राप्नुवन्ति. उच्यते - प्रकरणाद् दर्शपूर्णमासयोर् उपकारका एवेति गम्यते. तस्माल् लौकिकेषु न कर्तव्याः.
एवं चेद् अङ्गान्य् अपि न दर्शपूर्णमासशबदकानि, तस्मात् तेष्व् अपि न प्राप्नुवन्ति. उच्यते - यद्य् अप्य् अङ्गानि न दर्शपूर्णमास[388]{*3।642*}शब्दकानि, दर्शपूर्णमासयोर् उपकारकाणि, एषु क्रियमाणा धर्मा दर्शपूर्णमासयोर् उपकरिष्यन्ति. तस्माद् अङ्गप्रधानेषु कर्तव्या इति.
नोतेस्:
*{3।642: ए2: 4,549; ए4: 4,838; ए6: 1,261}*
आराद् अपीति चेत्
पिण्डपितृयज्ञे ऽपि बर्हिर् धर्मैर् युज्येत, सो ऽपि दाते बर्हिषि वर्तते, तस्य चापि बर्हिषास्ति प्रयोजनम्. तद् अप्य् आराच् छिष्टधर्मवत् स्यात्.
न तद् वाक्यं हि तदर्थत्वात्
न तस्य बर्हिर् एतैर् धर्मैर् धर्मवत्, वाक्यं ह्य् एकं दर्शपूर्णमासाभ्यां सह धर्माणाम्, तेन दर्शपूर्णमासयोर् उपकारका धर्माः, यद् दर्शपूर्णमासार्थम्, तत्र प्राप्नुवन्ति, नान्यत्र. तस्मात् पिण्डपितृयज्ञबर्हिषो न भविष्यन्ति.
लिङ्गदर्शनाच् च
लिङ्गं भवति, एवम् आह - स वै ध्रुवाम् एवाग्रे ऽभिधारयति, ततो हि प्रथमावाज्यभागौ यक्ष्यन् भवतीत्य् अभिधारणस्याज्यभागार्थतां दर्शयति.
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य
ज्योतिष्टोमे केशश्मश्रुणोर् वपनं पयोव्रतानि तपश् चाम्नातानि. तेषु संदेहः - किम् अङ्गप्रधानार्थान्य् उत प्रधानार्थानि? किं तावत् प्राप्तम्? अङ्गप्रधानार्थानीति पूर्वेण न्यायेन प्राप्तम्.
[389]{*3।643*} एवं प्राप्ते ब्रूमः - स्वामियुक्तम् एतत्, तस्मात् प्रधानस्य. कस्मात्? फलसंयोगात्, पुरुषस्य योगेनायं संबन्धः, यागो ऽपूर्वस्य दाता, पुरुषः प्रतिग्रहीता. नन्व् अपरो ऽप्य् अस्ति संबन्धः, यागो निर्वर्त्यः, पुरुषो ऽभिनिर्वर्तक इति. फलेन तु संबन्धो भविष्यतीत्य् एवम् अर्थः पुरुषः श्रूयते. न हि यागं स साधयति, यागः सत्तया संभन्त्स्यत इति. किम् इति तर्हि निर्वर्तयतः फलं भवतीति. संस्काराश् च संस्कुर्वन्तीत्य् उच्यन्ते. यत् तस्य संस्कर्तव्यस्य प्रयोजनम्, तत्र सामर्थ्यं जनयन्तीति. फलं च ग्रहीतुं पुरुषस्य प्रयोजनम्, न यागम् अभिनिर्वर्तयितुम्. तस्माद् ये पुरुषसंस्कारास् ते पुरुषं फलप्रतिग्रहणसमर्थं कुर्वन्ति, न यागनिर्वृत्तिसमर्थम्. आह, यदि यागनिर्वृत्तौ न सामर्थ्यं जनयन्ति, कथं तर्हि यागधर्मास् ते भवन्ति. उच्यते - यागस्य स्वार्थं साधयतः साहाय्ये वर्तन्ते. कश् च तस्य स्वार्थः? यद् अस्य कर्ता फलेन संबध्यते. तस्मात् स्वामिसंस्काराः प्रधानार्था इति.
नोतेस्:
*{3।643: ए2: 4,552; ए4: 4,844; ए6: 1,262}*
चिकीर्षया च संयोगात्
ज्योतिष्टोमे श्रूयते - षट्त्रिंशत्प्रकमा प्राची चतुर्विंशतिर् अग्रेण त्रिंशज् जघनेनेयति शक्यामह इति{*3।644*}. तत्र संदेहः - किम् एषा वेदिर् अङ्गप्रधानार्था, उत प्रधानार्थेति. किं तावत् प्राप्तम्? चिकीर्षया च संयोगात् प्रधानार्थेति. का चिकीर्षा? इयति शक्ष्यामह इति. यच् चिकीर्षितम्, तस्यार्थेनैषा श्रूयते - शक्ष्यामहे ऽस्यां कर्तुम् इति प्रधानं च तस्य चिकीर्षितम्, नाङ्गानि. प्रधानं हि फलवन् नाङ्गानि.
[390]{*3।645*} आह यद्य् अङ्गानि न चिकीर्षितानि, किम् अर्थं क्रियन्त इति. उच्यते - अचिकीर्षितान्य् अप्य् अङ्गानि क्रियन्ते, यद्य् अपि तानि न चिकीर्ष्यन्ते, तथापि तैर् अचिकीर्षितैर् अन्याच् चिकीर्ष्यते. तस्मात् तानि क्रियन्त इति, यच् चिकीर्षितम्, तस्य वेदिः. तस्मात् प्रधानार्थेति, स्थितं तावद् अपर्यवसितम्{*3।646*}.
नोतेस्:
*{3।644: व्ग्ल्. तैत्.स्. 6.2.4.5}*
*{3।645: ए2: 4,553; ए4: 4,848; ए6: 1,263}*
*{3।646: ए1 गिब्त् स्थितं तावद् अपर्यवसितम् इन् क्लम्मेर्न्}*
तथाभिधानेन
स्तो दर्शपूर्णमासौ, तत्र श्रूयते - चतुर्होत्रा पौर्णमासीम् अभिमृशेत्, पञ्चहोत्रा अमाव् आस्याम् इति{*3।647*}. तत्र संदेहः - किम् अङ्गप्रधानार्थम् अभिमर्शनम्, उत प्रधानार्थम् इति. किं तावत् प्राप्तम्? प्रधानार्थम् इति, प्रधाननामधेयं चैतत्{*3।648*}, पौर्णमास्य् अमावास्येति च. तस्मात् प्रधानस्याभिमर्शनम् इति.
नोतेस्:
*{3।647: मैत्.स्. 1.9.1}*
*{3।648: ए2,4: च तत्}*
तद् युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात्
स्थिताद् उत्तरम्{*3।649*}. यद् उक्तम् - प्रधानं चिकीर्षितं नाङ्गानि, तस्मात् प्रधानस्य वेदिर् इति. तन् न, तद् युक्ते फलश्रुतिः, साङ्गात् फलं श्रूयते, तस्मात् साङ्गं चिकीर्षितम्. यद्य् अप्य् अङ्गानि न चिकी[391]{*3।650*}र्षितानि, तथापि वेद्यां कर्तव्यानि. अन्यथा न साङ्गं वेद्यां कृतं भवति.
नोतेस्:
*{3।649: ए1 गिब्त् स्थिताद् उत्तरम् इन् क्लम्मेर्न्}*
*{3।650: ए2: 4,554; ए4: 4,850; ए6: 1,263}*
गुणाभिधानात् सर्वार्थम् अभिधानम्
यद् उक्तम् - प्रधाननामत्वात् पौर्णमासीशब्दस्यामावास्याशब्दस्य च, प्रधानहविषाम् अभिमर्शनम् इति. नैतद् एवम्, अङ्गहविषाम् अप्य् अभिमऋशनं स्यात्. कुतः? गुणाभिधानात्, गुणो ऽभिमर्शनम् इत्य् अभिधानं भवति. कतमत् तदभिधानम्? यत् गुणो ऽभिमर्शनम् इति ब्रूते. पौर्णमासीम् अमावास्याम् इति च द्वितीयान्तं पौर्णमास्यर्थम् अभिमर्शनं कर्तव्यम्, अमावास्यार्थम् अभिमर्शनं कर्तव्यम् इति, अतो यत्र यत्र क्रियमाणं पौर्णमास्याम् अमावास्यायां वोपकरोति, तत्र तत्र कर्तव्यम्. यद् यत् पौर्णमास्याम् अमावास्यायां वाभिसंबध्यते, साक्सात्, प्रणाड्या वा, तत्र तत्र क्रियमाणं तयोर् उपकरोति. तस्मात् प्रधानहविषाम् अङ्गहविषां च कर्तव्यम् इति.
दीक्षादक्षिणं तु वचनात् प्रधानस्य
ज्योतिष्टोमे दीक्षाः श्रूयते - तिस्रो दीक्षा इति, तथा दक्षिणाः श्रूयन्ते - तस्य द्वादशशतं दक्षिणा इति. तत्र संदेहः - किं दीक्षादक्षिणम् अङ्गप्रधानार्थम्, उत प्रधानार्थम् इति. किं प्राप्तम्? पुरुषाणाम् अङ्गप्रधानार्थत्वाद् दीक्षादक्षिणस्याङ्गप्रधानार्थतेति. एवं प्राप्ते ब्रूमः - दीक्षादक्षिणं प्रधानस्य. कुतः? वचनात्, वचनं हि भवति, दीक्षाः सोमस्य, दक्षिणाः सोमस्येति, न हि वचनस्य [392]{*3।651*} अतिभारो नाम क्वचित्. तस्माद् दीक्षादक्षिणं वचनात् सोमस्येति.
नोतेस्:
*{3।651: ए2: 4,556; ए4: 4,853; ए6: 1,264}*
निवृत्तिदर्शनाच् च
निवृत्तिं दीक्षाणां दर्शयति. कथम्? अध्वर्यो यत् पशुनायाक्षीरथ कास्य दीक्षेति यत् षड्ढोतारं जुहोति सास्य दीक्षेति, असत्याम् अपि दीक्षायां वचनं भवति. तस्माद् अङ्गानां दीक्षादक्षिणम् इति.
तथा यूपस्य वेदिः
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*3।652*}. तत्र यूपं प्रकृत्य श्रूयते - वज्रो वै यूपो यद् अन्तर्वेदि मुनियात् तन् निर्दहेत्, यद् बर्हिर्वेद्य् अनवरुद्धः स्याद् अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अनवरुद्धो भवति, न निर्दहतीति.
तत्र संदेहः - किम् अन्तर्वेदीति यूपाङ्गभावेन वेदिर् उपदिश्यते, उतार्धम् अन्तर्वेद्य् अर्धं बहिर्वेदीति देशलक्षणार्थम् उच्यत इति. कथं यूपाङ्गभावेन कथं वा देशलक्षणेति. यदि यूपार्धस्य वेद्यन्तरस्य च संबन्धो विवक्षितः, एवं वेदिसंबद्धो यूपः कर्तव्यः, ततो यूपाङ्गभावेन. अथ यस्मिन् देशे मीयमानस्यार्धं वेद्यभ्यन्तरे ऽर्धं च बहिः, स देश उपदिश्यते, ततो देशलक्षणा.
किं प्राप्तम्? तथा यूपस्य वेदिः, यथा दीक्षादक्षिणं प्रधानस्य, तथा यूपस्य वेदिः, तथा यूपो मातव्यः, तथा मीयमानस्य [393]{*3।653*} अर्धं वेद्यभ्यन्तरे भवति. एवं वेदिश्रुतिर् अप्य् अनुग्रहीष्यते, इतरथा वेदिशब्दो लक्षयेद् देशम्, श्रुतिलक्षणाविषये श्रुतिर् न्याय्या न लक्षणा. तस्माद् यूपाङ्गभावेन वेदिर् निर्दिश्यते.
नोतेस्:
*{3।652: तैत्.स्. 6.1.11.6}*
*{3।653: ए2: 4,558; ए4: 4,856; ए6: 1,265}*
देशमात्रं वाशिष्येणैकवाक्यत्वात्
देशामात्रं वा वेदिशब्देन लक्ष्यते न वेदियूपाङ्गम्{*3।654*}. कुतः? अशिष्येणैकवाक्यत्वात्, अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेदीत्य् एतेनैकवाक्यता या, सा शासितव्येन, यदि देशलक्षणा, अथ यूपाङ्गभावेन वेद्या निर्देशः, ततो न शासितव्यो बहिर्वेदिनिर्देशो{*3।655*} भवति. वेद्यां यूपस्याङ्गभावेनोपदिश्यमानायाम्, अर्धं बहिर्वेदीत्य् एतद् उच्चार्यमाणं न कस्मिंश्चिद् उपकारे वर्तते.
अथ बहिर्वेदिदेशम् अपि यूपाङ्गभावेनोपदिशेत्. वाक्यं भिद्येत. तस्माद् यूपाङ्गभावेन वेद्या निर्देशे बहिर्वेदिशब्दः सर्वथा न शासितव्यः. यदि तु देशलक्षणा, ततो विशिष्टे देशे लक्ष्यमाणे ऽवश्यवक्तव्यो बहिर्वेदिशब्दो भवति, अनुच्यमाने वेद्यभ्यन्तरे यस्मिन् कस्मिंश् च प्रदेशे यूप इति गम्यते. अथ पुनर् बहिर्वेदिशब्दे श्रूयमाणे, यतरस्मिन् देशे मीयमानस्यार्धम् अन्तर्वेद्य् अर्धं बहिर्वेदि, स देशो लक्षयितुम् इष्टो भवति. स च बहिर्वेदिशब्देन विना न शक्यते लक्षयितुम् इत्य्, अवश्यं शासितव्यो भवति. तस्माद् देशलक्षणेति.
नोतेस्:
*{3।654: ए2,4: वेदिर् यूपाङ्गम्}*
*{3।655: ए2,4: बहिर्वेदिदेशो}*
स्वामिधेनीस् तद् अन्वाहुर् इति हविर्धानयोर् वचनात् सामिधेनीनाम्
ज्योतिष्टोमे श्रूयते - उत यत् सुन्वन्ति सामिधेनीस् तद् अन्वाहुर् [394]{*3।656*} इति, हविर्धानयोर् यस्मिन् हविर्धाने सुन्वन्ति, तत् सामिधेनीभिः संबन्धयेद् इत्य् अर्थः. तत्र संदेहः - किं सामीधेनीनाम् अङ्गभावेन हविर्धानं चोद्यते, हविर्धानविशिष्टाः सामिधेन्यो ऽनुवक्तव्याः, उत हविर्धानेनामूषाम् अनूच्यमानानां देशो लक्ष्यत इति. किं तावत् प्राप्तम्? सामिधेनीनाम् अङ्गत्वेन हविर्धानं चोद्यते - यस्मिन् हविर्धाने सुन्वन्ति, तत् सामिधेनीभिः संबन्धयेद् इति, तेन हविर्धानसंबद्धाः सामिधेन्यो ऽनुवक्तव्या इति वचनात् सामिधेन्यङ्गभावे सति हविर्धानश्रुतिर् अनुग्रहीष्यते. इतरथा देशं लक्षयेद् इति. तस्मात् सामिधेन्यङ्गं हविर्धानम्.
नोतेस्:
*{3।656: ए2: 4,560; ए4: 4,861; ए6: 1,265}*
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य
देशलक्षणार्थं वैतद् उच्यते - यस्मिन् सुन्वन्ति, तस्मिन् देशे सामिधेन्यो ऽनुवक्तव्या इति, प्रत्यक्षं ह्य् अर्थकर्म सोमस्य तेन क्रियते. दक्षिणे हविर्धाने सोमम् आसादयतीति{*3।657*}, सोमासादनार्थं तावद् एतद् उपादेयम्. सामिधेन्यो ऽप्य् अग्निसमिन्धनार्थम् उपादेया इति. इह त्व् एतावच् छ्रूयते - यस्य हविर्धानस्य समीपे सुन्वन्ति तत्संबद्धाः सामिधेन्यो ऽप्य्{*3।658*} अग्निसमिन्धनार्थम् उपादेया{*3।659*} इति, तत्र न ज्ञायते, किं सामिधेन्यः संबद्धाः हविर्धानस्योपकुर्वन्ति? किं हविर्धानं सामिधेनीनाम् इति. तद् उच्यते - सामिधेन्यस् तावद् धविर्धानस्य नोपकुर्वन्ति, न हि तावद् विधीयन्ते, सामिधेन्यो ऽनुवक्तव्या इति. किं तर्हि? हविर्धानविशेषसंबन्धस् तासां विधीयते, [395]{*3।660*} न चाविहितम् अङ्गं भवति. नाप्य् एवं विधीयते, हविर्धानमासाम् अनुच्यमानानाम् उपादातव्यं संबन्धयितुम् इति. कथं तर्हि? हविर्धानीविशेषसंबन्धः{*3।661*} सामिधेनीनां श्रूयते, हविर्धानसंबन्धो{*3।662*} विधीयते, न च सामिधेनीसंबन्धो हविर्धानस्य प्राप्तः, यो विशेषार्थम् अनूद्येत. केन तर्हि हविर्धानस्य संबन्धः? प्रत्यक्षं ह्य् अर्थकर्म सोमस्य, न तु सामिधेनीकर्म प्रत्यक्षं हविर्धानस्य. भवति तु देशस्य सामिधेनीसंबन्धः, अपरेण वेदिम् इति होतुर् देशो लक्षितः, स उत्तरस्य दक्षिणस्य वा हविर्धानस्य समासन्नः. तत्र यत्{*3।663*} सुन्वन्ति, तद् अन्वाहुर् इत्य् उपपद्यते वचनम्. तस्माद् देशलक्षणार्थं हविर्धानग्रहणम्.
अथैवम् अभिसंबन्धः कस्मान् न भवति? यस्मिन् हविर्धाने सुन्वन्ति, तस्य हविर्धानस्य सामिधेनीसंबन्ध इति. नैवं शक्यम्, एवं द्वाव् अर्थौ विधातव्यौ भवतः, हविर्धानसंबन्धो हविर्धानविशेषसंबन्धश् च. तत्र वाक्यं भिद्यते. तस्मान् नैवम् अभिसंबन्ध इति.
नोतेस्:
*{3।657: ए2,4: आसादयन्तीति}*
*{3।658: ए2,4 ओम्. ऽप्य्}*
*{3।659: ए2 उन्द् 4 गेबेन् सामिधेन्यो ऽग्निसमिन्धनार्थम् उपादेया इन् क्लम्मेर्न्}*
*{3।660: ए2: 4,561; ए4: 4,863; ए6: 1,266}*
*{3।661: ए2,4: हविर्धानीविशेषसंबन्धो ऽत्र}*
*{3।662: ए2,4: न हविर्धानसंबन्धो}*
*{3।663: ए2,4: तत्}*
समाख्यानं च तद्वत्
समाख्यानं च तद्वद् एव भवति, यथास्माभिर् न्याय उपदिष्टः - सोमार्थं हविर्धानम् इति.
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात्
इह कर्माण्य् उदाहरणम् - अग्निहोत्रं जुहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेति. तत्र संदेहः - किम् एतानि कर्माणि स्वयम् [396]{*3।664*} अनुष्ठातव्यानि, उतात्रोत्सर्गमात्रं स्वयं कुर्यात्, शेषम् अन्यः स्वयं वा, उत शेषम् अन्य एवेति. किं प्राप्तम्? स्वयं प्रयोगे स्यात्. कुतः? यतः स्वयं प्रयुञ्जानस्य फलं भवति. कथम् अवगम्यते? तल्लक्षणत्वात्, शब्दो ऽस्यार्थस्य लक्षणम्, स्वयं प्रयुञ्जानस्य फलं भवतीति. कतमः स शब्दः? स्वर्गकामो यजेतेति, यः स्वर्गं कामयते, स एवोच्यते, यागे कर्ता भवन् फलं साधयेद् इति. साङ्गे च कर्ता भवन् फलं प्राप्नोति, तस्मात् स्वयं प्रयोगे स्यात्.
नोतेस्:
*{3।664: ए2: 4,563; ए4: 4,867; ए6: 1,267}*
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य, तस्माद् अन्यः स्वयं वा स्यात्
उत्सर्गे प्राधान्यम् अस्ति. कथम्? य उत्सर्गं करोति तेन सर्वं कृतं भवति. कथम्? परिक्रय उत्सर्गः, तेनानन्ताः सर्वं कुर्वन्ति. तस्माद् यः परिक्रयं करोति तेन स्वयम् एव सर्वं कृतं भवति. तस्माद् उत्सर्गमात्रं स्वयं कुर्यात्, शेषम् अन्यः स्वयं वा.
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यगात्मनि
शेषस्यान्य एव स्यात् कर्ता. कुतः? परिक्रयस्याम्नानत्वात्. पुरुषान् अतिप्रकारेषु बहुषु प्राप्तेषु परिक्रयो नियतः. तस्मात् परिक्रयेणानतैः सर्वे पदार्थाः कर्तव्या इति. विप्रतिषेद्धश् चात्मनि परिक्रयः. यदि स्वयं कुर्यात्, अपरिक्रीतेन कृतं स्यात्, तत्र परिक्रयाम्नानानर्थक्यम्, अदृष्टार्थो वा प्रतिज्ञायेत. तस्माद् अन्यैः परिक्रीतैः शेषाः पदार्थाः कर्तव्या इति. उत्सर्गं तु स्वयं कुर्वता सर्वं स्वयं कृतं भवति.
[397]{*3।665*}
नोतेस्:
*{3।665: ए2: 4,566; ए4: 4,875; ए6: 1,268}*
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात्
तत्र तैः परिक्रीतैः कर्तव्येष्व् अनियमेन कर्तृपरिमाणं स्यात्. कुतः? अविशेषात्, न कर्तृपरिमाणे विशेषः कश्चिद् आम्नायते. अर्थेन तत्परिमाणम्, यावाद्भिर् असाव् इतिकर्तव्यता निर्वर्तते, तावतो वृणीत{*3।666*}.
नोतेस्:
*{3।666: ए2,4: वृणीतेति, ए6: वृणीते}*
अपि वा श्रुतिभेदात् प्रतिनामधेयं स्युः
यावन्ति कर्तृनामधेयानि कर्माणि श्रूयन्ते - तावन्तो वरीतव्या भिद्यन्ते, तानि च{*3।667*} नामधेयश्रवणानि. तान् पुरो ऽध्वर्युर् विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्टा पत्नीम् अभ्युदायति{*3।668*}, उन्नेता चमसान् उन्नयतीति. तथा - प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्याम् आह, होता प्रातरनुवाकम् अनुब्रूते, मैत्रावरुणः प्रेष्यति, चानुचाह, अच्छावाको यजति, ग्रावस्तोत्रीयाम् अन्वाह. एतावद्भिः कर्मणि प्रयोजनम्, तेन ते ऽवश्यम् एतानि यथाश्रुतानि कर्तुं वरीतव्याः, एतद् व्यतिरिक्तो ऽन्यः पदार्थो न विद्यते. यो ऽपि वाक्येन नोपदिष्टः, स समाख्यया गम्यते. तस्माद् एतावतो वृणीतेति.
नोतेस्:
*{3।667: ए2,4 ओम्. च}*
*{3।668: ए2,4: अभ्युदानयति}*
एकस्य कर्मभेदाद् इति चेत्
एवं चेत् प्रतिज्ञायते - एतावतो वृणीतेति. तन् न, यो यस् तत्कर्म करिष्यतीति संकल्पते, स स तत् तच् छब्दाभिधेयो [398]{*3।669*} भवति, एको ऽपि बहून् पदार्थान् कर्तुं बहुभिर् नामधेयैर् उच्येत, तस्माद् अनियमः.
नोतेस्:
*{3।669: ए2: 4,567; ए4: 4,878; ए6: 1,268}*
नोत्पत्तौ हि
नैतद् एवम्, उत्पत्तौ पुरुषाणाम्, उत्पाद्यमानेषु पुरुषेषु नामधेयानि भिद्यन्ते - ब्राह्मणं{*3।670*} वृणीते, होतारम् वृणीते, उद्गातारं वृणीते, अध्वर्युं वृणीत इत्येवमादि. तस्मात् कर्मणि तैर् एवं नामकैः प्रयोजनम्, अवश्यन्ते वरीतव्याः. तस्माद् एषां वरणे संकीर्तनं न विधिः. प्रयोजनस्याभावन् नानुवादः. न वेदे तावन्तो वरीतव्या इति ब्रूयात्, अनर्थकम् एव स्यात्. शक्नोति चेदं प्रत्याययितुं संख्याविशेषम्. तस्माद् यः संख्याविशेषो एषां प्रतीयते तदर्थम् एतद् वचनम्. तस्मात् षोडश कर्तारो वरीतव्याः, सोमस्{*3।671*} तावत् कर्तृकश् च स्यात्{*3।672*}. एवं दर्शपूर्णमासयोर् अपि.
नोतेस्:
*{3।670: ए2,4,6: ब्रह्माणं}*
*{3।671: ए2,4 ओम्. सोमस्}*
*{3।672: ए2,4: च सोमः स्यात्}*
चमसाध्वर्यवश् च तैर् व्यपदेशात्
सन्ति ज्योतिष्टोमे चमसाध्वर्यवः - चमसाध्वर्यून् वृणीतेति. तेषु संदेहः - किम् एषाम् अन्यतमाः, उतैतेभ्यो ऽन्य इति. किं तावत् प्राप्तम्? एतावतां संकीर्तनाद् एषाम् एवान्यतमाः. इति{*3।673*} प्राप्ते ब्रूमः - चमसाध्वर्यवश् चापरे भवेयुस् तेभ्यो ऽन्य इति. कुतः? तैर् व्यपदेशात्, तैः परिगणितैर् एषां व्यपदेशो भवति - मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति.
ननु य एव प्रकृतास् ते चमसाध्वर्यवो भवेयुः. नेति ब्रूमः. कुतः? तैर् व्यपदेशात्, मध्यतःकारिणां चमसाध्वर्यवो [399]{*3।674*} होत्रकाणां चमसाध्वर्यव इति, षष्ठी संबन्धे सति भवति. ऋत्विग्भिस् ते व्यपदिश्यन्ते, ऋत्विजस् तेषां स्वामिनो न यजमानः, यजमानपुरुषेभ्यश् चैते ऽन्य इति नः प्रतिज्ञातम्. न यजमानेन चमसाध्वर्यवं{*3।675*} कर्तुं वरीतव्याः, ऋत्विग्भिस् ते वरीतव्या इति. अपि चैषाम् उत्पत्तिवाक्य एव भेदः, चमसाध्वर्यून् वृणीतेति.
नोतेस्:
*{3।673: ए2: संकीर्तनाद् एषाम् एवम् अन्यतमा इति, ए4: संकीर्तनादेशाम् एवान्यतमा इति}*
*{3।674: ए2: 4,569; ए4: 4,882; ए6: 1,269}*
*{3।675: ए2,4: चमसाध्वर्युत्वं}*
उत्पत्तौ तु बहुश्रुतेः
तेष्व् व संदेहः - किम् अनियमः, एको द्वौ बहवो वा, उत बहव एवेति? अनियम इति प्राप्त उच्यते - बहव इति. कुतः? उत्पत्तौ बहुश्रुतेः, चमसाध्वर्यव इत्य् एषाम् उत्पत्तौ बहुश्रुतिर् भवति, तस्माद् बहव इति.
दशत्वं लिङ्गदर्शनात्
ज्योतिष्टोमे सन्ति चमसाध्वर्यवः{*3।676*}, ते च बहव इत्य् उक्तम्. कियन्तो बहव इति संदेहे त्रयः, बहुवचनसामर्थ्याद् इति प्राप्ते ब्रूमः - दशत्वं लिङ्गदर्शनात्. ते दश भवेयुः, तथा हि लिङ्गं ज्योतिष्टोमविकारे दशपेये श्रूयते - दश चमसाध्वर्यवो दश दशैकैकं चमसम् अनुसर्पन्तीति, एतस्मात् कारणाद् दशपेयो भवतीति ब्रुवन् दश चमसाध्वर्यून् दर्शयति, यदि त्रयो भवेयुः, एतद्दर्शनं नोपपद्यते. तस्मात् त्रीन् अतीत्यैषा संख्या, यदि च दश न भवेयुर् नोपपद्येतैतद्दर्शनम्. तस्माद् [400]{*3।677*} भवन्ति दश, दश चैषां स्वामिनः. तस्मात् प्रयोजनभावाद् दशसंख्योपादीयते, तस्यां चोपादीयमानायाम् अपरापि संख्यानुगृह्यते, तेनापि दश भवेयुः.
नोतेस्:
*{3।676: ए2,4: सन्ति चमसाध्वर्यवः}*
*{3।677: ए2: 4,570; ए4: 4,884; ए6: 1,270}*
शमिता च शब्दभेदात्
अस्ति शमिता - शमितारम् उपनयीतेति. स किं संकीर्तितानाम् अन्यतमः, उतान्यस् तेभ्य इति. किं प्राप्तम्? तेषां वरणे संकीर्तनात्, तेषाम् अन्यतमः, इति प्राप्ते उच्यते - शमिता च शब्दभेदात्, शब्दो भिद्यते, एवंसंज्ञकेनेदं कर्म कर्तव्यम् इति, तस्माद् एवंसंज्ञक उत्पादयितव्यः. अस्य संकीर्तनात् संख्याव् वृद्धिर् गम्यते, तस्माद् अन्यः शमिता स्यात्. अपि च - क्लोमा चोर्धं{*3।678*} वैकर्तनं च शमितुः तद् ब्राह्मणाय दद्याद् यद्ब्राह्मणः स्याद् इत्य्{*3।679*} अब्राह्मणाशङ्का भवति, सा ऋत्विजि नोपपद्यते.
नोतेस्:
*{3।678: ए2,4: चार्धं}*
*{3।679: ऐ.ब्र्. 7.1}*
प्रकरणाद् वोत्पत्त्यसंयोगात्
सत्यं संख्याविवृद्धिर् गम्यते, न तूत्पद्यमानेषु, या त्व् अनुत्पत्तिस् तेषु गम्यते, तत्रैकस्य कर्मभेदाद् इत्य् एवम् अप्य् अवकल्पते. यत् तूक्तम् - अब्राह्मणाशङ्का भवतीति, यजमानाभिप्राया सा, यद्य् अब्राह्मणो यजमानः स्याद् इति. ननु यद्य् अब्राह्मणः स्याद् इति प्रकृतः शमिता संबध्यते. उच्यते - शमयतीति शमिता, यौगिक एष शब्दः प्रकृतेष्व् अप्य् अवकल्पते. शामित्रम् अप्य् आध्वर्यवे समाम्नानाद् अध्वर्युणा कर्तव्यम्. [401] तस्माच् छमनाद् अध्वर्युः शमिता. एवं सति अप्रकृतो यजमानः संबन्ध्यते.
उपगाश् च लिङ्गदर्शनात्
ज्योतिष्टोमे सन्त्य् उपगा नाम, ते शब्दभेदात् संख्याविवृद्धिं प्रत्याययन्तीत्य् अध्वर्य्वादिभ्यो ऽन्य इति प्राप्ते ब्रूमः - तेषाम् एव केचित् स्युर् इति. कस्मात्? उत्पत्तौ परिगणनात्, यौगिककत्वाच् च शब्दस्य. लिङ्गम् इदं भवति - नाध्वर्युर् उपगायेद् इति, यद्य् एभ्यो ऽन्ये भवेयुर् नाध्वर्युं प्रतिषेधेत्. अप्राप्तत्वात्. यतस् तु प्रतिषेधति, अतो ऽवगछामः, उत्पत्तौ संकीर्तितानाम् एवान्यतम इति.
विक्रयी त्व् अन्यः कर्मणो ऽचोदितत्वात्
अस्ति सोमविक्रयी, तत्र संदेहः - स किम् अध्वर्य्वादीनाम् अन्यतमः, उतैभ्यो ऽन्य इति. किं प्राप्तम्? तेषां संकीर्तनात्, तेषाम् अन्यतम इति प्राप्ते ब्रूमः - विक्रयी त्व् अन्यः स्याद् इति, विक्रयो न चोद्यते क्रयचोद्यते, तत्रार्थाद् विक्रयः, ज्योतिष्टोमस्य च पदार्थान् कर्तुम् अध्वर्य्वादय उत्पाद्यन्ते, न तु विक्रयो ज्योतिष्टोमस्य श्रूयते. तस्मान् नाध्वर्य्वादीनाम् अन्यतम इति.
[402]{*3।680*}
नोतेस्:
*{3।680: ए2: 4,572; ए4: 4,891; ए6: 1,271}*
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात्
य एते पुरुषा ज्योतिष्टोमस्य श्रूयन्ते, ते किं सर्व एत ऋत्विजः, उत केचिद् एषाम् इति. किं प्राप्तम्? सर्वे. कुतः? कर्मकार्यात्, सर्वे यागस्य साधनं कुर्वन्ति, तस्मात् सर्व ऋतौ यजन्ति. ये चर्तौ यजन्ति त ऋत्विजः, न कश्चिद् विशेष आश्रीयते, इम एवर्तौ यजन्तीत्य् ऋत्विजः, इमे नेति. तस्मात् सर्वेषाम् ऋत्विक्त्वम्.
ननु परिसंख्या श्रूयते - सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति. उच्यते - परिसंख्यायां बहवो दोषाः सन्तीति, अवयुत्यवादो ऽयं भविष्यति.
न वा परिसंख्यानात्
न वा सर्वे. कस्मात्? परिसंख्यानात्, एवं हि श्रूयते, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति, स एष न विधिः, बहुतराणां प्राप्तत्वात्, नानुवादः, पर्योजनाभावात्. न चेत् परिसंख्यापि, आनर्थक्यम् एव स्यात्.
ननु परिसंख्यायां स्वार्थहानं परार्थकल्पना प्राप्तबाधश् च. उच्यते - स्वार्थहानम् अदोषः प्राप्तत्वात्. परार्थकल्पना च प्रत्ययात्. कथम्{*3।681*}? बहूनाम् ऋत्विक्त्वे ज्ञाते पुनः सप्तदश ऋत्विज इत्य् उच्यते, सप्तदशभिर् ऋत्विक्शब्दस्य संबन्धः पुनः प्रकाश्यते, अधिकैश् च न प्रकाश्यते. तत्र विज्ञायत एतत्, ऋत्विक्शब्दस्य पुरुषैः संबन्धे पुनः प्रकाश्यमाने सप्तदशभ्यो ऽभ्यधिका वर्जिता इति गम्यते. तत्र किं सप्तदशभिः संबन्धो [403]{*3।682*} विवक्षितः, किं वाधिकानां वर्जनम् इति, सप्तदशसंबन्धस्याप्रयोजकत्वाद् अधिकानां वर्जनं विवक्षितम् इति गम्यते.
आह - ननु प्रतिषिध्यमानेष्व् अप्य् अधिकेषु प्रतिषेधो न प्राप्नोति, न हि त ऋतौ न यजन्ति, न वर्तौ यजन्तो न ऋत्विजः स्युः. उच्यते - सत्यम्, न, प्रतिषेधाद् ऋत्विक्शब्देन न संबध्यते{*3।683*}, किं तु प्रतिषेधसामर्थ्याद् ध्य् ऋत्विक्कार्ये न भवन्ति. किं पुनर् ऋत्विक्कार्यम्? ऋत्विज उपवसन्तीति{*3।684*}, ऋत्विजो वृणीते, ऋत्विग्भ्यो दक्षिणां ददातीति.
आह - यद् ऋत्विजां कार्यम्, कथं तत् केषांचिद् ऋत्विक्शब्दकानां न स्यात्. उच्यते - एवं तर्हि द्विविधो ऽयम् ऋत्विक्शब्दः, ऋतुयजननिमित्तः, वरणभरणनिमित्तश् च, तत्र यागनिमित्तस्य ग्रहणम् अनर्थकम्, तस्माद् वरणभरणनिमित्तो गृह्यत इति.
आह - नन्व् इतरेतराश्रयम् एवं भवति - य ऋत्विजस् ते वरीतव्याः, ये व्रियन्ते त ऋत्विज इति तद् इतरेतराश्रयम्. उच्यते - न ह्य् ऋत्विजो वृणीत इत्य् अयम् अर्थः, ऋत्विजः सन्तो वरीतव्या इति. कथं तर्हि? वरणेनर्त्विजः क्रियन्त इति, एवं द्वितीयानिर्देशो युक्तो भविष्यति, अध्वर्यं वृणीत इत्य् एवंलक्षणः. दृष्टार्थता च वरणस्य भविष्यति.
कथम् आत्मेच्छयाध्वर्युर् भवतीति चेत् कश्चिद् ब्रूयात्, भवतीति ब्रूयाम्. कथम्? एवंशब्दकेनायं पदार्थः कर्तव्य इति, नास्त्य् एवंशब्दकः. यश् च नास्ति, स यदि शक्यते कर्तुम्, कर्तव्यो भवति. यथा - जुह्वा जुहोतीत्य् अविद्यमाना जुहूः क्रियते, एवम् एतद् अपि द्रष्टव्यम्. तत्रार्थाद् अनियमेनर्त्विक्शब्दसंबन्धे कर्तव्ये, एवं वरणविशेषेण कृतव्य इति नियम्यते. तस्मान् नेतरेतराश्रयम्. तस्मात् सप्तदशैव ऋत्विजः[404]{*3।685*} कर्तव्या इति परिसंख्या, सप्तदश ऋत्विजः संस्कारैः कर्तव्या इति.
नोतेस्:
*{3।681: ए2,4 ओम्. कथम्}*
*{3।682: ए2: 4,574; ए4: 4,892; ए6: 1,271}*
*{3।683: ए2,4: संबध्यन्ते}*
*{3।684: ए2,4 ओम्. इति}*
*{3।685: ए2: 4,577; ए4: 4,893; ए6: 1,272}*
पक्षेणेति चेत्
एवं चेन् मन्यसे - यथोक्तपक्षेणैतद् एवम् उच्यते, अवयुत्यवादपक्षेण सप्तदश ऋत्विज इति, तत् परिहर्तव्यम्.
न सर्वेषाम् अनधिकारः
नैतद् एवम्, नात्र सर्वेषां पुरुषाणां वचनम्, यान् अधिकृत्यावयुत्यवादो भविष्यति. यत्र परा संख्या कीर्त्यते, तत्रावयुत्यवादो भवति, यथा - द्वादशकपाले यद् अष्टाकपालो भवतीति, न च, इह परा संख्या कीर्त्यते. तस्मान् नावयुत्यवाद इति.
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात्
सप्तदश ऋत्विज इति समधिगतम्. कतमे ते सप्तदश इतीदं चिन्त्यते. किं प्राप्तम्? अज्ञानम्. एवं प्राप्ते ब्रूमः - नियमस् तु दक्षिणाभिः, श्रुतिसंयोगात्, दक्षिणासंबन्धेन नियम्येरन्. एवं ह्य् आम्नायते - ऋत्विग्भ्यो दक्षिणां ददातीति, एवम् अभिधाय दक्षिणादानक्रमपरे वाक्ये ब्रह्मादयः श्रूयन्ते - अग्नीधे ऽग्रे ददातीति, ततो ब्रह्मणे, ततो ऽमुष्मै चामुष्मै चेति{*3।686*} केचिद् एव विशिष्टाः श्रूयन्ते - एवं ये श्रूयन्ते, ते तावद् ऋत्विजः, ततो ऽभ्यधिका नान्ये भवितुम् अर्हन्ति. दक्षिणाभिर् नियम इति.
[405]{*3।687*}
नोतेस्:
*{3।686: तैत्.ब्र्. 1.1.6.10}*
*{3।687: ए2: 4,579; ए4: 4,903; ए6: 1,273}*
उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात्
य ऋत्विजस् ते यजमाना इत्य् एवम् अभिधाय ब्रह्मादीनां दीक्षाक्रमपरे च वाक्ये दीक्षां दर्शयति. कथम्? अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत् उद्गातारम्, ततो होतारम्. ततस् तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच् छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः. ततस् तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीधं{*3।688*} ब्रह्मणः, प्रतिहर्तारम् उद्गातुः, अच्छावाकं होतुः. ततस् तम् उन्नेता दीक्षयित्वा पादिनो दीक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः. ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति. दीक्षा च यजमानसंस्कारः. तस्माद् ब्रह्मादय ऋत्विजः सप्तदश इति.
नोतेस्:
*{3।688: ए2,4: आग्नीध्रं}*
स्वामिसप्तदशाः कर्मसामान्यात्
एतद् उक्तम् - सप्तदश ऋत्विज इति, ते च ब्रह्मादयः. तत्र संदेहः - किम् एषां सदस्यः सप्तदशः, उत गृहपतिः? किं तावत् प्राप्तम्? सदस्य इति. स हि कर्मकरः, इतरः स्वामी. यश् च कर्मकरः, स परिक्रेतव्यः, ऋत्विजश् च परिक्रीयन्ते, तस्मात् सदस्यः सप्तदश ऋत्विग् इति. अपि च - तस्य चमसम् आमनन्ति वरणं च. ऋत्विग्वरीतव्यो न स्वामी. तस्मात् सदस्यः सप्तदश इति प्राप्ते, उच्यते - स्वामिसप्तदशाः कर्मसामान्यात्, स्वाम्य् एषां सप्तदशः स्यात्. कुतः? कर्मसामान्यात्, यज्ञे कर्तार ऋत्विजो भवन्ति, यज्ञे च कर्ता गृहपतिः, तस्माद् ऋत्विक्, [406]{*3।689*} यज्ञकर्मसामान्यात्. यद् उक्तम् - तं समामनन्ति, तस्य चमसम् आमनन्ति वरणं च, तस्मात् सदस्यः सप्तदश इति. उच्यते - ब्रह्माणम् एव ते समामनन्ति, वरणम् अपि चमसश् च ब्रह्मण एव, स हि सदसि भवः, तस्मात् स्वामिसप्तदशाः.
नोतेस्:
*{3।689: ए2: 4,581; ए4: 4,905; ए6: 1,274}*
ते स्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात्
स्वामिसप्तदशा ज्योतिष्टोमस्यर्त्विजः समधिगताः. अत्रेदानीम् अयं संदेहः - किं सर्वं पुरुषकार्यं तैः कार्यम्, अग्निभिश् च गार्हपत्यादिभिर् अग्निकार्यम्, उत काचिद् व्यवस्थेति. किं तावत् प्राप्तम्? ते सर्वार्थाः, प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात्, ते वृताः सर्वस्मै पुरुषकार्याय स्युः, अग्नयश् चाग्निकार्याय. कुतः? तैः कार्यैर् आकाङ्क्षित्वात्, प्रति स्वं ग्रहणम् एषाम् अनुवादः, स्वकालत्वाद् अग्नयश् च सर्वार्था इति, समधिगतम् एतत्.
[407]{*3।690*}
नोतेस्:
*{3।690: ए2: 4,584; ए4: 4,914; ए6: 1,274}*
तत्संयोगात् कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात्
तत्संयोगाद् विशिष्टपुरुषसंयोगात्, व्यवतिष्ठेत, ये येन पुरुषेण समाख्यायन्ते, ते तेन कर्तव्याः, एवं तेषां पुरुषसंयोगो ऽर्थवान् भविष्यति. आध्वर्यवम् अध्वर्युणा, हौत्रं होत्रा, औद्गात्रम् उद्गात्रेति.
तस्योपदेशसमाख्यानेन निर्देशः
किम् एष एवोत्सर्गः? सर्वं समाख्यातं समाख्यातपुरुषैः कर्तव्यम् इति. नेति ब्रूमः, तस्योपदेशाद् विशेषसमाख्यानाच् च निर्देशः. यथोपदेशः - तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति{*3।691*}. समाख्या - पोत्रीया नेष्ट्रीयेति. एष समाख्यायाश् चापवाद इति.
नोतेस्:
*{3।691: तैत्.ब्र्. 3.12.9.5}*
तद्वच् च लिङ्गदर्शनम्
यत्र हेतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयाद् इति होत्रे{*3।692*} प्रातरनुवाके समाख्यया प्राप्तं होतारं दर्शयति. तथेदम् अपरं लिङ्गं भवति - उद्गीथ उद्गातॄणाम् ऋचः प्रणव उक्थशंसिनां{*3।693*} [408]{*3।694*} प्रतिहारो{*3।695*} ऽध्वर्यूणाम् इति, समाख्याकृतं भेदं दर्शयति. तथेदम् अपि लिङ्गं भवति - यो वाध्वर्योः स्वं वेद स्ववानेव भवति, एतद् वाध्वर्योः स्वं यद् आश्रावयतीति{*3।696*} समाख्याकृतं नियमं दर्शयति.
नोतेस्:
*{3।692: ए2,4: हौत्रे}*
*{3।693: ए2,4: उक्थ्यशंसिनां}*
*{3।694: ए2: 4,586; ए4: 4,918; ए6: 1,275}*
*{3।695: ए2: प्रतिगरो, ए4: प्रतिरो}*
*{3।696: तैत्.स्. 3.1.2.3}*
प्रैषानुवचनं मैत्रावरुणस्योपदेशात्
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*3।697*}. तत्रेदं समामनन्ति - तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति. तत्र संशयः - किं सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात्, उत यत्रानुवचने प्रैष इति. किं तावत् प्राप्तम्? सर्वानुवचनेषु, अविशेषात्. न हि कश्चिद् विशेष आश्रीयते - अस्मिन्न् अनुवचने मैत्रावरुणो ऽस्मिन् नेति. तस्मात् सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात्.
नोतेस्:
*{3।697: तैत्.स्. 6.1.11.6}*
पुरो ऽनुवाक्याधिकारो वा प्रैषसंनिधानात्
पुरो ऽनुवाक्यं वा मैत्रावरुणो ऽनुब्रूयात्. कुतः? यत्र प्रैषश् चानुवाक्या च सहोच्येते, तत्र मैत्रावरुणः, यत्र केवलानुवाक्या न तत्र मैत्रावरुणः, यत्र वा केवलः प्रैषः, तत्रापि न. यत्रोभे समुच्चीयेते, तत्र स भवेत्. तथा हि समुच्चितयोस् तं समामनन्ति, तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति, चशब्दात् समुच्चितयोर् इति गम्यते.
[409]{*3।698*}
नोतेस्:
*{3।698: ए2: 4,588; ए4: 4,923; ए6: 1,275}*
प्रातरनुवाके होतृदर्शनात्
इतश् च पश्यामो न सर्वानुवचनेषु मैत्रावरुण इति. कुतः? यतः प्रातरनुवाके होतारं दर्शयति. कथम्? यत्र होतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयात्, तदाध्वयुर् गृह्णीयाद् इति. तस्मान् न सर्वानुवचनेषु मैत्रावरुण इति.
चमसांश् चमसाध्वर्यवः समाख्यानात्
सन्ति चमसाध्वर्यवस् तेषु संदेहः - किं चमसाध्वर्यवश् चमसाञ् जुहुयुर् उताध्वर्युर् इति. चमसाध्वर्यव इति ब्रूमः. कस्मात्? चमसेष्व् आध्वर्यवं ते कुर्वन्तीति चमसाध्वर्यवः, तस्मात् ते जुहुयुर् इति.
अध्वर्युर् वा तन् न्यायत्वात्
अध्वर्युर् वा जुहुयात्, एस हि न्यायः - यद् आर्ध्वर्यवपदार्थम् अध्वर्युः कुर्यात्, आध्वर्यवश् च होमः, तस्माद् अध्वर्युर् जुहुयात्. ननु चमसाध्वर्यव इति विशेषसमाख्यानाच् चमसाध्वर्यवो होष्यन्तीति. नेत्य् उच्यते, चमसेष्व् एते ऽध्वर्युवद् भवन्तीति चमसाध्वर्यवः. यदि तैर् अध्वर्युर् जुहोति, ततस् तैश् चमसाध्वर्युभिर् अपि होतव्यम्. यदि चमसाध्वर्यवो जुह्वति, नाध्वर्युः. तदा ते न तद्वत् स्युश् चमसाध्वर्यवः. तस्मान् न जुहुयुर् इति.
चमसे चान्यदर्शनात्
चमसे चान्यं चमसाध्वर्योर् दर्शयति. कथम्? यमसांश् च[410]{*3।699*}मसाध्वर्यवे प्रयच्छति, तान् स वषट्कर्त्रे हरति, अन्यो हुत्वा{*3।700*} चमसाध्वर्यवे प्रयच्छतीति गम्यते. कथम्? स{*3।701*} वषट्कर्त्रे हरति, भक्षयितुम् इति गम्यते. तस्माद् धुतस्य चमसाध्वर्यवे प्रदानम्, यो जुहोति, स प्रयच्छति. तस्माद् अन्यो जुहोतीति. अपि च - यो वाध्वर्योः स्वं वेद स्ववानेव भवति, स्रुग्वाध्वर्योः स्वं वायव्यम् अस्य स्वं चमसो ऽस्य स्वम् इति. न तावद् अस्य चमसः स्वम्, यजमानस्य हि सः. चमसो ऽस्य स्वम् इति ब्रुवन्, अध्वर्योश् चमसेन होमं दर्शयति.
नोतेस्:
*{3।699: ए2: 4,589; ए4: 4,925; ए6: 1,276}*
*{3।700: ए2,4: स हुत्वा}*
*{3।701: ए2,4: एवं स}*
अशक्तौ ते प्रतीयेरन्
अथ कथं चमसाध्वर्यव इति समाख्यानम्? उच्यते - अशक्तौ ते प्रतीयेरन्, यदा व्यापृतत्वात्, न शक्नोत्य् अध्वर्युर् होतुम्, तदा समाख्यासाम् अर्थात् ते होष्यन्ति.
वेदोपदेशात् पूर्ववद् वेदान्यत्वे यथोपदेशं स्युः
अस्त्य् औद्गात्रे समाख्यातः श्येनः, आध्वर्यवे वाजपेयः. तत्र संदेहः - किं श्येन उद्गातृभिर् एव पदार्थाः कर्तव्याः, वाजपेये ऽध्वर्युभिः, उतोभयत्र नानर्त्विग्भिर् इति. किं प्राप्तम्? वेदोपदेशात्, समाख्यानाद् इत्य् अर्थः{*3।702*}, पूर्ववत्, यथा, आध्वर्यवम् इति समाख्यानात् पदार्थान् अध्वर्युः करोति, एवम् एव वेदान्यत्वे यथोप्देशं स्युः, यो येन समाख्याते वेद उपदिष्टः, तस्य पदार्थास् तेनैव कर्तव्याः. साङ्गः स तत्रोपदिश्यते. तस्माच् छ्येन उद्गातृभिर् वाजपेये चाध्वर्युभिः पदार्थाः कर्तव्या इति.
[411]{*3।703*}
नोतेस्:
*{3।702: ए1 गिब्त् समाख्यानाद् इत्य् अर्थः इन् क्लम्मेर्न्}*
*{3।703: ए2: 4,591; ए4: 4,928; ए6: 1,277}*
तद्ग्रहणाद् वा स्वधर्मः स्याद् अधिकारसामर्थ्यात् सहाङ्गैर् अव्यक्तः शेषे
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0