भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 3.6

3.6.1

ब्राह्मणा वा राजन्यचमसम् अनुप्रसर्पेयुः. कथम्? शतं ब्राह्मणाः सोमं भक्षयन्तीति विधिः श्रुत्या ब्राह्मणगताम् एव संख्याम् आह. तस्माच् छतं ब्राह्मणाः, तेषां भक्षणार्थम् अनुप्रसर्पताम् एकैकस्मिंश् चमसे दशदशोपदिश्यन्ते. तस्माद् ब्राह्मणाशतस्य दश ब्राह्मणा राजन्यचमसम् अनुप्रसर्पेयुर् इति.
[366]{*3।556*}
नोतेस्:
*{3।556: ए2: 4,488; ए4: 4,769; ए6: 1,247}*
सर्वार्थम् अप्रकरणात्

3.6.2

अनारभ्य किंचिद् उच्यते - यस्य खादिरः स्रुवो भवति स छदसाम् एव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति. यस्य पर्णमयी जुहूर् भवति न स पापं श्लोकं शृणोतीत्य्{*3।557*}एवमादि. तत्र संदेहः - किं खादिरता स्रुवे, पालाशता जुह्वाम्, प्रकृतौ निविशते, उत प्रकृतौ विकृतौ चेति. किं प्राप्तम्? सर्वार्थम् अप्रकरणात्, प्रकृतिविकृत्यर्थम् एवंजातीयकम्. कुतः? अप्रकरणात्, न कस्य-चिद् प्रकरणे श्रूयन्ते, तानि वाक्येन सर्वत्र भवेयुर् इति.
नोतेस्:
*{3।557: तैत्.स्. 3.5.7.1}*
प्रकृतौ वाद्विरुक्तत्वात्

3.6.3

प्रकृतौ वा निविशेरन्न् अनारभ्याधीतानि पात्राणि. कुतः? अद्विरुक्तत्वात्, एवम् अद्विरुक्तं भविष्यतीति. द्विरुक्तायां को दोषः? असंभव इति ब्रूमः - यद् धि प्रकृतौ विकृतौ च भवति, अस्ति तत् प्रकृतौ. प्रकृतौ चेद् अस्ति, चोदकेनैव विकृतिं प्राप्नोति, ततो नानारभ्य विधिम् आकाङ्क्षति. तस्माद् अनाकाङ्क्षितत्वाद् अनारभ्यविधिर् न तत्र विदधाति, तेन ब्रूमः - प्रकृत्यर्थ एवेति.
तद् वर्जन्तु वचनप्राप्ते

3.6.4

अप्रकरणात् प्रकृतिविकृत्यर्थम् एवेत्य् उच्यते - यत् तु चोद[367]{*3।558*}केन प्राप्नोतीत्य् अनारभ्यविधिना प्राप्ते न चोदकम् आकाङ्क्षति. तस्माद् अनारभ्यविधिवर्जं चोदकः प्रापयिष्यति, अनारभ्यविधिवाक्येन प्रत्यक्षेण स्रुवे खादिरता, चोदकवाक्येनानुमानिकेन विकृतौ. आनुमानिकाच् च प्रत्यक्षं बलवत्. तस्मात् प्रकृतिविकृत्यर्थो ऽनारभ्यविधिः.
नोतेस्:
*{3।558: ए2: 4,489; ए4: 4,771; ए6: 1,247}*
दर्शनाद् इति चेत्

3.6.5

यद्य् अनारभ्यविधिश् चोदकाद् बलीयान्, अनारभ्यविधिना प्राप्ते न चोदकम् आकाङ्क्षति, निराकाङ्क्षे वैकृते कर्मणि चोदको नैव प्राप्नोति. तत्र प्रयाजादीनां दर्शनं नैवोपपद्येत, दृश्यन्ते च प्रयाजादयः क्वचित्, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*3।559*}. अथ चोदको बलीयान्{*3।560*} तत एतद्दर्शनम् उपपद्यते. तस्मात् प्रकृत्यर्थो ऽनारभ्यविधिः.
नोतेस्:
*{3।559: तैत्.स्. 2.3.2.3}*
*{3।560: ए2,4: बलीयास्, ए6: बलीयांस्}*
न चोदनैकार्थ्यात्

3.6.6

न प्रकृत्यर्थः, सर्वार्थ{*3।561*} इति ब्रूमः, अप्रकरणे समाम्नानात्. यद् उक्तम्, अनारभ्यविधिना निराकाङ्क्षस्य न चोदक इति, तन् नोपपद्यते. न ह्य् अनारभ्यविधिश् चोदनां निराकाङ्क्षीकरोति, प्राप्ते हि चोदके न स्रुवे खादिरतानारभ्यविधिना शक्या विधातुम्. असति चोदके ऽनारभ्यविधिर् अपि नास्ति, न चानारभ्यविधिः स्रुवं प्रापयति, तस्य च खादिरताम्. कुतः? चोदनैकार्थ्यात्. एकार्था हि चोदना, यस्य खादिरः स्रुवो भवतीति. न चात्र स्रुवः खादिरता चोभयं विधीयते, स्रुवस्य सतः खादिरताम् एष शब्द आह, स च चोदकेन प्राप्तः. तस्माद् अस्ति चोदकः, स ह्य् अनारभ्यविधिवाक्यस्य प्रत्यक्षत्वात् तं वर्जयित्वान्यं प्रापयति. तस्मात् प्रकृतिविकृत्यर्थो ऽनारभ्यविधिः.
[368]{*3।562*}
नोतेस्:
*{3।561: ए2: सर्वार्थम्, ए4: सर्वार्थे, ए6: सर्वार्थ}*
*{3।562: ए2: 4,491; ए4: 4,773; ए6: 1,248}*
उत्पत्तिर् इति चेत्

3.6.7

इति चेत् पश्यसि - उत्पत्तिर् एषां प्रकृतिविधिभिस् तुल्या, प्रकृताव् अङ्गानि संक्षेपेण विस्तरेण चोच्यन्ते - पञ्च प्रयाजान् यचतीति संक्षेपेण. समिधो यजतीत्य्{*3।563*}एवमादिना विस्तरेण. इहापि यस्य खादिरः स्रुवो भवतीत्येवमादिर् विस्तारः, यस्यैवंरूपाः स्रुव इति संक्षेपः. एवंरूपः प्रकृतौ विधिर् दृष्टः, अयम् अप्य् एवंरूपः, तस्मात् प्राकृत इति सामान्यतो दृष्टानुमानम्. तस्मात् प्रकृत्यर्थो ऽनारभ्यविधिर् इति.
नोतेस्:
*{3।563: तैत्.स्. 2.6.1.1}*
न, तुल्यत्वात्

3.6.8

नैतद् एवम्. न ह्य् एवंजातीयकं सामान्यतोदृष्टं साधकं भवति, केवलम् अत्र प्राकृतविधिसारूप्यम्, न तु प्रकृताव् एतद् भवतीति प्रमाणम् अस्ति. अपि च विकृताव् अपि संक्षेपविस्ताराभ्याम्{*3।564*} अङ्गानि विधीयन्ते, तिस्र आहुतीर् जुहोतीति{*3।565*} संक्षेपः, आमनम् अस्यामनस्य देवा इति{*3।566*} विस्तारः{*3।567*}. अतो वैकृतैर्{*3।568*} अप्य् अनारभ्यविधयस् तुल्याः, तस्माद् अयम् अहेतुः प्रकृतिनिवेशस्य.
नोतेस्:
*{3।564: ए2,4: संक्षेपविस्तराभ्याम्}*
*{3।565: तैत्.स्. 2.3.9.3}*
*{3।566: तैत्.स्. 2.3.9.3}*
*{3।567: ए2,4: विस्तरः}*
*{3।568: ए2,4: वैकृतेर्}*
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः

3.6.9

तुशब्दः पक्षं व्यावर्तयति. न सर्वार्थो ऽनारभ्यविधिः, प्रकृत्यर्थः स इति ब्रूमः. कुतः? चोदनार्थकार्त्स्न्यात्, कृत्स्नं चोदकः प्रापयति, नानारभ्यविधिना वैकृतम् अपूवं? निराकाङ्क्षम्, पात्राणां हि तद् वाक्येन न यागानाम्. यागाश् चोदनालिङ्गसंयोगात् प्रकृतिम् अपेक्षन्ते, तया सहैकवाक्यतां यान्ति. प्राकृताश् च ताञ् शक्नवन्ति निराकाङ्क्षीकर्तुम्, नानारभ्य[369]{*3।569*}विधयः. तस्माद् अवश्यं चोदक उत्पादयितव्यः. स चेद् उत्पाद्यते, नार्थो ऽनारभ्यविधिना. न चासौ प्रकरणादीनाम् अभावात् प्रवर्तमानो ऽपि वैकृतेन यागेन संबध्येत. तस्माद् वैकृतेन कर्मणा
नानारभ्यविधिः संबध्यते. तस्य{*3।570*} वैकृतस्य मुख्यस्य, अनारभ्यविधिर् वाक्यशेषः, प्रकृतौ वेति विप्रतिषेधे{*3।571*} चोदकसामर्थ्यात्, प्राकृते वाक्यशेषे प्राप्ते ऽनारभ्यविधिर् न भविष्यति. तस्माद् अनारभ्यविधिः प्रकृत्यर्थ इति{*3।572*}.
नोतेस्:
*{3।569: ए2: 4,493; ए4: 4,775; ए6: 1,249}*
*{3।570: ए2,4: न तस्य}*
*{3।571: ए2,4: विप्रतिषेधे}*
*{3।572: ए2,4,6 ओम्. इति}*
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात्

3.6.10

अनारभ्य, किंचित्, सामिधेनीनां परिमाणम् आम्नातम् - सप्तदश सामिधेनीर् अनुब्रूयाद् इति{*3।573*}. तत्र संदेहः - किम् एतत् प्रकृतौ, उत विकृताव् इति. किं प्राप्तम्? पूर्वेण न्यायेन प्रकृताव् इति प्राप्तम्, प्रकृतौ च पाञ्चदश्यम् आम्नातम्, तेन विकल्प इति.
एवं प्राप्ते ब्रूमः - विकृताव् एवंजातीयको विधिः स्यात्. कस्मात्? प्रकृतेः पाञ्चदश्येन निराकाङ्क्षत्वात्. ननु विकल्पो भवैष्यतीत्य् उक्तम्. प्रकरणविशेषात् पाञ्चदश्येन न विकल्पः, विषमशासनात्. विकृतौ त्व् आनुमानिकं पाञ्चदश्यं बाधित्वा, अनारभ्यविधिवाक्येन प्रत्यक्षेण साप्तदश्यं निवेक्ष्यते. अद्वि[370]{*3।574*}रुक्तं चैतत् प्रयोगवचनम् उपसंहरिष्यति. तस्माद् एवंजातीयकं विकृत्यर्थम्.
नोतेस्:
*{3।573: ऐ.ब्र्. 1.1}*
*{3।574: ए2: 4,495; ए4: 4,777; ए6: 1,249}*
नैमित्तकं तु प्रकृतौ, तद्विकारः संयोगविशेषात्

3.6.11

दर्शपूर्णमासयोर् आम्नातम् - गोदोहनेन पशुकामस्य प्रणयेद् इति, तथा - अग्नीषोमीये पशौ श्रूयते यूपं प्रकृत्य, बैल्वो ब्रह्मवर्चस्कामेन कर्तव्य इति{*3।575*}. एवंजातीयकेषु संदेहः - किं प्रकृतौ निवेशः, विकृतौ वेति{*3।576*}. किं प्राप्तम्? विकृताव् इति, प्रकृतीर् अन्येन पात्रेण यूपेन च निराकाङ्क्षाः. एवं प्राप्ते ब्रूमः - प्रकृतौ नैमित्तिकं निविशते, निमित्तसंयोगेन विधानात्, खादिरपालाशरौहितका अविशेषेणोक्ताः चमसश् च, गोदोहनं बैल्वश् च विशेषविहितौ, विशेषविधिना चाविशेषविधिर् बाध्यते. प्रकरणं सामान्यम्, निमित्तसंयोगो विशेषः, सामान्येन यत् प्राप्नोति, तत् परोक्षं लक्षणया. यत् तु विशेषेण, तत् प्रत्यक्षं श्रुत्या, श्रुतिश् च लक्षणाया बलीयसी, प्रत्यक्षं च परोक्षात्. तस्मात् प्रकृताव् एव स्यात्.
नोतेस्:
*{3।575: तैत्.स्. 2.1.8.1}*
*{3।576: ए1 ओम्. वा}*
इष्ट्यर्थम् अग्न्याधेयं प्रकरणात्

3.6.12

सन्ति पवमानेष्टयः - अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचय इति{*3।577*}. तासां प्रकरणे, समाम्नातम् - ब्राह्मणो वसन्ते ऽग्निम् आदधीतेति{*3।578*}. तत्र संदेहः - किम् अग्न्याधेयं पवमानेष्ट्यर्थम्, उत नेति. किं प्राप्तम्? [371]{*3।579*} इष्ट्यर्थम् इति. कुतः? प्रकरणात्, तासां प्रकरणे श्रूयते - अतस् तदर्थम्.
नोतेस्:
*{3।577: तैत्.स्. 2.2.4.2}*
*{3।578: तैत्.ब्र्. 1.1.2.6}*
*{3।579: ए2: 4,503; ए4: 4,785; ए6: 1,250}*
न वा तासां तदर्थत्वात्

3.6.13

पवमानेष्टयो ह्य् अग्न्यर्थाः, यद्य् अग्निर् इष्ट्यर्थः स्यात्, ततस् तदर्थम् अग्न्याधेयम् इष्टीनाम् उपकुर्यात्. निष्फलास् त्व् इष्टयः, तदर्थम् अग्न्याधेयम् अपि निष्फलं स्यात्. कथं पुनर् अग्न्यर्थता पवमानेष्टीनाम्? निष्प्रयोजनत्वाद् एव, प्रयोजनवत्त्वाच् चाग्नीनाम्. भावयितव्या अपीष्टयो भूतानाम् अग्नीनाम् अर्थेन क्रियेरन्. तस्माद् अग्न्याधेयं पवमानेष्ट्यर्थम्.
लिङ्गदर्शनाच् च

3.6.14

लिङ्गं दर्शयति{*3।580*}, यथाग्न्यर्थाः पवमानेष्टय इति. किं लिङ्गम्? जीर्यति वा एष आहितः पशुर् यद् अग्निः, तद् एतान्य् एवाग्न्याधेयस्य हवींषि संवत्सरे निर्वपेत्, तेन वा एष न जीर्यति, तेनैनं{*3।581*} पुनर् नवं करोति तन् न सूक्ष्मम् इति{*3।582*}.
नोतेस्:
*{3।580: ए2,4: लिङ्गं च दर्शयति:}*
*{3।581: ए2,4: तेनैवं}*
*{3।582: व्ग्ल्. तैत्.स्. 1.5.7.3}*
तत्प्रकृत्यर्थं यथान्येनारभ्यवादाः

3.6.15

तद् एतद् आधानं किं प्रकृत्यर्थम्, उत सर्वकर्मार्थम् इति संदेहः. किं प्राप्तम्? उच्यते, तत् प्रकृत्यर्थम्. कथम्? यथान्ये ऽनारभ्यवादाः प्रकृत्यर्थाः, तेनैव हेतुना.
सर्वार्थं वाधानस्य स्वकालत्वात्

3.6.16

सर्वकर्मार्थं वाधानम्. को ऽर्थः? सर्वकर्मार्थं यद् अग्निद्रव्यम्, तदर्थम् आधानं न प्रकृत्यर्थम्. न प्रकृतीः प्रकृत्य श्रूयते. न [372]{*3।583*} च श्रुत्यादयो ऽस्य सन्ति, ये ऽङ्गभावम् उपपादयन्ति. अन्येष्व् अनारभ्यवादेष्व् अन्यतो निर्ज्ञाते ऽङ्गभावे ततो विचारः - किं प्रकृतेर् अङ्गभूतानि विकृतेर् इति, तस्मात् तेषु युक्तम्. इह त्व् अङ्गभावे न कारणम् अस्ति, तस्माद् अग्निप्रयुक्तम् आधानम्, न कर्मप्रयुक्तम्, सर्वकर्मार्था अग्नय{*3।584*} इति सर्वार्थम् इत्य् उच्यते.
अपि चास्य स्वतः कालो विधीयते, स न विधातव्यः, यदा ज्योतिष्टोमस्य प्रयोगः, तदेदं कर्तव्यम्. तदा च वसन्तः. एवं यदा दर्शपूर्णमासयोः प्रयोगः, तदा कर्तव्यम्. तदा पौर्णमास्य् अमावास्या वा. अप्रकृत्यर्थं तु न प्रकृतिप्रयोगे क्रियेत, तत्र कालवचनं युक्तम्. तस्मान् न प्रकृत्यर्थम्.
नोतेस्:
*{3।583: ए2: 4,505; ए4: 4,787; ए6: 1,251}*
*{3।584: ए2,4: सर्वकर्मार्थास् त्व् अग्नय}*
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात्

3.6.17

सन्ति पवमानेष्टव्यः - अग्नये पवमानायेत्य्{*3।585*}एवमाद्याः. तत्र संदेहः - किं पवमानेष्टिसंस्कृते ऽग्नौ पवमानेष्टयः कर्तव्याः, उत नेति. किं प्राप्तम्? तासां खलु पवमानेष्टीनां पवमानेष्टिसंस्कृतो ऽग्निः प्रकृतितः स्यात्. कुतः? चोदकसामर्थ्यात्, प्रयाजवत्, यथासु प्रयाजा भवन्ति चोदकेन, एवं पवमानेष्टिसंस्कृता अग्नयो ऽपि भवेयुः.
नोतेस्:
*{3।585: तैत्.स्. 2.2.4.2}*
न वा तासां तदर्थत्वात्

3.6.18

न वेष्टिसंस्कारः, अग्नीनां पवमानेष्तिषु स्यात्. कस्मात्? [373]{*3।586*} तासां तदर्थत्वात्, ताः पवमानेष्टयो ऽग्निसंस्कारार्था इत्य् उक्तम्. यच् च नामाङ्गभूतं तच् चोदकेन गृह्यते. अग्निप्रयुक्तश् च पवमानेष्टिसंस्कारो न दर्शपूर्णमासप्रयुक्तः, तेन न चोदकेनाकृष्यते. अपि च पवमानेष्-टय इष्टिसंस्कारवर्जितां प्रकृतिम् अपेक्षन्ते, अविहितत्वात् तस्याम् अवस्थायां पवमापनेष्टीनाम्.
नोतेस्:
*{3।586: ए2: 4,508; ए4: 4,790; ए6: 1,251}*
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात्
ज्योतिष्टोमे, पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*3।587*}, तथा सवनीयो ऽनुबन्ध्यश् च. सन्ति च पशुधर्माः, उपाकरणम् उपानयनम् अक्षया बन्धः, यूपे नियोजनं संज्ञपनं विशसनम् इत्येवमादयः. ते किं सर्वेषाम् अग्नीषोमीयसवनीयानुबन्ध्यानाम्, उत अग्नीषोमीयस्य सवनीयस्य वा{*3।588*}, उताग्निषोमीयस्यैवेति. किं प्राप्तम्? अविशेषत्, सर्वपशूनाम्. कथम् अविशेषः? ज्योतिष्टोमप्रकरणे सर्वे पशवः समाम्नाताः, तत्प्रकरणापन्नत्वात् सर्वे पशुधर्माः{*3।589*} संबध्यन्ते, न चैषां तत्र कश्चिद् विशेषः.
एवं प्राप्ते ब्रूमः - सवनीयस्यैते धर्माः भवेयुः, तुल्यः सर्वेषां पशुविधिः स्यात्, यदि प्रकरणे विशेषो न भवेत्. भवति तु प्रकरणे विशेषः, सवनीयानां प्रकरणे पशुधर्माः समाम्नाताह्, आग्नेयः पशुर् अग्निष्टोम आलभ्यः, आग्नेयो ह्य् अग्निष्टोमः. ऐन्द्राग्नः पशुर् उक्थ्य आलभ्यः, ऐन्द्राग्नानि ह्य् उक्थ्यानि. ऐन्द्रो वृष्णिः षोडशिन्य् आलभ्यः, ऐन्द्रो वै वृष्णिर् ऐन्द्रः षोडशी. सारस्वती मेष्य् अतिरात्र आलभ्या, वाग् वै सरस्वती [374]{*3।590*} इति{*3।591*} प्रकृत्य पशुधर्मा आम्नाताः, तस्मात् सवनीयस्य प्रकरणाद् भवितुम् अर्हति

3.6.19

नोतेस्:
*{3।587: तैत्.स्. 6.1.11.6}*
*{3।588: ए2,4: च}*
*{3।589: ए2,4: पशुधर्मैः}*
*{3।590: ए2: 4,511; ए4: 4,592; ए6. 1,252}*
*{3।591: श्प्ब्र् 4.2.5.14}*
स्थानाच् च पूर्वस्य

3.6.20

यद् उक्तम् - प्रकरणात् सवनीयार्था इति, एतद् गृह्णीमः, क्रमाच् चाग्नीषोमीयस्य. तस्य हि क्रम औपवसथ्ये ऽहनि समाम्नातम्, तस्माद् द्वयोर् अपीति.
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था

3.6.21

एकेषां शाखिनां श्वः सवनीयानाम् आम्नानम्, तद् अपेक्ष्येयम् एषां गुणार्था पुनःश्रुतिः. कः पुनर् गुणः? यद् अर्थैषा श्रुतिः. उच्यते - पशून् संकीर्त्य, यथा वै मत्स्यो ऽविदितो जनम् अवधुउते{*3।592*}, एवम् वैते{*3।593*} ऽप्रज्ञायमाना जनम् अवधुन्वत इत्य् एषाम् अविज्ञाने दोषम् अभिधाय, एभिः कथं सवनानि पशुमन्तीतिप्रश्नरूपकेण वपाप्रचारो गुणो विधीयते, तद् अर्थैषा श्रुतिः, वपाप्रचारेणैकवाक्यत्वात्. किम् अतः? यद्य् एवम्, न, सवनीयानां प्रकरणेन पशुधर्माः, क्रमाद् अग्नीषोमीयार्था एवेति. किं पुनस् तच् छ्व आम्नानम्? आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयपशुम्{*3।594*} उपाकरोतीति.
नोतेस्:
*{3।592: ए2,4: अवधूनुते}*
*{3।593: ए2,4 ओम्. वा}*
*{3।594: ए2,4: पशुम्, ए6: सवनीयं पशुम्}*
तेनोत्कृष्टस्य कालविधिर् इति चेत्

3.6.22

नैतद् अस्ति - क्रमाद् अग्नीषोमीयार्था एवेति, प्रकरणात् सवनीयार्थाः, पूर्वेद्युर् एवाम्नानं विधानार्थम्, आश्विनवाक्यं कालगुणविधानार्थम्. कथम्? तेन वपाप्रचारेणोकृष्टस्य काल एष विधीयते, प्रातःसवने वपाप्रचारे चोदिते सति पश्वालम्भो ऽपि तत्रैव प्रप्नोति. तत्र कालानियमे प्राप्ते, आश्विनं ग्रहं गृहीत्वेति कालमात्रं विधीयते. त्रिवृता यूपं [375]{*3।595*} परिवीयोपाकरोतीत्य्{*3।596*} अनुवादः. इतरथा हि{*3।597*} परिव्याणस्य कालो विधीयेत, उपाकरणस्य च. तत्रानेकगुणविधानाद् वाक्यं भिद्येत. तस्मात् सवनीयार्थाः पशुधर्मा इति.
नोतेस्:
*{3।595: ए2: 4,514; ए4: 4,796; ए6: 253}*
*{3।596: ए2,4: परिवीयोपकरोतीत्य्}*
*{3।597: ए2,4 ओम्. हि}*
नैकदेशत्वात्

3.6.23

नैतद् एवम्, अग्नीषोमीयार्था एवैते क्रमात्. आश्विनकालं ह्य् आम्नानं विधानार्थम्. गुणार्थ एतस्मिन् वाक्यं भिद्येत, न विधानार्थे. न हि वपाप्रचारेणोत्कृष्टस्य कालविधिः संभवति. एकदेशो हि वपाद्रव्यं तेन संनिपातिनो वपासंस्कारात्, उत्कर्षेन् नोपाकरणम्.
अर्थेनेति चेत्

3.6.24

आह - अर्थेन तर्ह्य्{*3।598*} उत्कृष्टस्य कालो विधीयते. मुष्टिना पिधाय वपोद्धरणम् आसीत आ वपाहोमाद् इति श्रूयते. पूर्वेद्युर् वपोद्धरणं मुष्टिना पिधाय न शक्नुयाद् एतावन्तं कालमासीनेनावस्थातुम्, अवश्यम् आहारविहारादयस् तेन कर्तव्या इति.
नोतेस्:
*{3।598: ए2,4: हि}*
न श्रुतिविप्रतिषेधात्

3.6.25

नैतद् एवम्, श्रुतिविप्रतिषेधो{*3।599*} भवेद् एवम्, न च श्रुतिविप्रतिषेधः, तृणमुष्टिना पर्णमुष्टिना वा पिधायिष्यते. नन्व् आस्त इत्य् उपवेशने भवति. नावश्यम् उपवेशन एव{*3।600*}, औदासीन्ये ऽपि दृश्यते. तद् यथा - गृह्याणि परिगृह्यास्ते, क्षेत्राणि परिगृह्यास्त इत्य् अनुपदेशने ऽपि भवति, व्यापारनिवृत्तौ. इहापि तृणमुष्टिना पर्णमुष्टिना वा पिधाय, आ वपाहोमाद् उदासिष्यते. तस्माद् आश्विनकालम् आम्नानं विधानार्थम्, न सवनीयानां प्रकरणे पशुधर्माः, तस्मान् न सवनीयार्थाः.
[376]{*3।601*}
नोतेस्:
*{3।599: ए2,4: श्रुतिविप्रतिषेधे}*
*{3।600: ए2,4: उपवेशेनैव}*
*{3।601: ए2: 4,519; ए4: 4,802; ए6: 1,253}*
स्थानात् तु पूर्वस्य संस्कारस्य तद् अर्थत्वात्

3.6.26

नास्ति सवनीयानां प्रकरणम् इत्य् एवं सति पूर्वेणैव हेतुना स्थानेन पूर्वस्याग्नीषोमीयस्य भवितुम् अर्हति. संस्कारो ऽयं पशुयागप्रयुक्तः, न ज्योतिष्टोमप्रयुक्तः, ज्योतिष्टोमप्रयुक्तत्वे न विशेषः पशूनां स्यात्. पशुयागा अपि हि धर्मान् प्रयोक्तुम् अपूर्वत्वात् समर्थाः, प्रकरणवन्तश् च. तस्मात् क्रमाद् अग्नीषोमीयधर्मा इति.
लिङ्गदर्शनाच् च

3.6.27

इतश् च पश्यामो ऽग्नीषोमीयार्ताः पशुधर्मा इति. कुतः? लिङ्गदर्शनात्. लिङ्गम् अस्मिन्न् अर्थे भवति, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिने सवन इति पशुपुरोडाशं दर्शयति. इतरथा समानविधानेषु सर्वेषु पशुष्व् अग्नीषोमयोर् देवतयोः संस्कारार्थः सन् पुरोडाशः सामर्थ्याद् अग्नीषोमीयस्य भवेन् न सवनीयस्य, तयोर् देवतयोर् अभावात्, दर्शयति च. तस्माद् अग्नीषोमीयार्था इति.
अचोदना गुणार्थेन

3.6.28

इदं पदोत्तरं सूत्रम्{*3।602*}. आह, ननु छिद्रापिधानार्थः पशुपुरोडाशः. नेति ब्रूमः, अचोदना गुणार्थेन, तस्य छिद्रापिधानार्थेन न चोदना, अर्थवादः स इत्य् उक्तम्. तस्माद् देवतासंस्कारार्थः, तस्माद् अग्नीषोमीयार्थत्वे{*3।603*}, सवनीये पुरोडाशस्य दर्शनम् उपपद्यते, न साधारण्ये. तस्माद् अग्नीषोमीयार्थाः पशुधर्मा इति.
[377]{*3।604*}
नोतेस्:
*{3।602: ए1 गिब्त् इदं पदोत्तरं सूत्रम् इन् क्लम्मेर्न्}*
*{3।603: ए2,4: तस्याग्नीषोमीयार्थत्वे}*
*{3।604: ए2: 4,521; ए4: 4,805; ए6: 1,254}*
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात्

3.6.29

अस्ति सायंदोहः, तथास्ति प्रातर्दोहः. सन्ति तु दोहधर्माः शाखाहरणम्, गवां प्रस्थापनम्, प्रसावनम्, गोदोहनम् इत्येवमादयः. ते किं सायंदोहार्थाः, उतोभयार्था इति. किं तावत् प्राप्तम्? दोहयोस् तयोर् असंयुक्तं धर्मैः शृतं भवेत्. कस्मात्? सायंदोहस्य हि क्रम औपवसथ्ये ऽहनि शाखाहरणादीन् समामनन्ति, तस्मिन्न् एवाहनि सायंदोहः. तस्मात् क्रमात् सायंदोहार्था दोहधर्मा इति.
प्रकरणाविभागाद् वा तत्संयुक्तस्य कालशास्त्रम्

3.6.30

प्रकरणं हि साधारणम्, यथैव दध्न एवं पयसः, क्रमाच् च प्रकरणं बलवत्तरम्, तस्माद् उभयार्था दोहधर्माः. अपि च, न सायंदोहस्य पूर्वेद्युर् आम्नानम्. क्व तर्हि? उत्तरेद्युः. कथम्? एवम् आमनन्ति - ऐन्द्रं दध्य् अमावास्यायाम्, ऐन्द्रं पयो ऽमावास्यायाम् इति{*3।605*}, अमावास्यायां ह्य् उभयं{*3।606*} साङ्गं चोद्यते. स एष सायंदोहो ऽर्थात् पूर्वेद्युर् अनुष्ठीयते, स्वभाव एष दध्नः, यत् पूर्वेद्युर् उपक्रान्तम् अपरेद्युर् अभिनिर्वर्तते. तस्मात् सायंदोहस्य क्रम आमाता इत्य् एतद् एव तावन् नास्ति. अत उभयार्था दोहधर्मा इति.
नोतेस्:
*{3।605: तैत्.स्. 2.5.4.1}*
*{3।606: ए2,4: उभये}*
तद्वत् सवनान्तरे ग्रहाम्नानम्

3.6.31

अस्ति ज्योतिष्टोमः - ज्योतिष्तोमेन स्वर्गकामो यजेत [378]{*3।607*} इति{*3।608*}. तत्रैन्द्रवायवाद्या ग्रहाः प्रातःसवने दश आम्नाताः, तत्र धर्मा श्रूयन्ते - उपोप्ते ऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवाः. दशापवित्रेण ग्रहं समार्ष्टीति. सन्त्य् अपरे माध्यंदिने सवने, अपरे तृतीयसवने ग्रहाः. तेषु माध्यंदिनीयेषु तार्तीयेषु च सवनेषु संदेहः{*3।609*} - किं सर्वेषु ग्रहधर्माः कर्तव्याः, उत प्रातःसवने ये ग्रहास् तेष्व् इति. किं प्राप्तम्? प्रातःसवनग्रहेषु भवेयुः, तेषां हि क्रमे{*3।610*} समाम्नानात्{*3।611*} नेतरेषाम्. एवं प्राप्ते ब्रूमः - सवनान्तरे प्रातःसवनात्, माध्यंदिने तृतीयसवने च ग्रहाम्नानं तद्वद् एव भवितुम् अर्हति. सर्वेषां हि तुल्यं प्रकरणम्, यत्रैते धर्माः समाम्नाताः, वाक्येन ग्रहमात्रस्य विधीयन्ते. क्रमाच् च वाक्यप्रकरणे बलीयसी. तस्मात् सर्वार्था ग्रहधर्मा इति.
नोतेस्:
*{3।607: ए2: 4,522; ए4: 4,807; ए6: 1,255}*
*{3।608: तैत्.स्. 6.5.2.2}*
*{3।609: ए2,4: तार्तीयसवनीयेषु च संदेहः}*
*{3।610: ए2,4: तेषां हि क्रमे}*
*{3।611: ए2,4: समाम्नाता}*
रशना च लिङ्गदर्शनात्

3.6.32

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*3।612*}. तत्र रशना श्रूयते, रशनाधर्माश् च - त्रिवृद् भवति, दर्भमयी भवति, प्रपिष्टानां{*3।613*} कर्तव्या चेति. तत्र संदेहः - किम् एते धर्मा अग्नीषोमीयरशनायाः सवनीयरशनायाश् च साधारणाः, उताग्नीषोमीयरशनाया एवेति. किं प्राप्तम्? प्रकरणाद् अग्नीषोमीयरशनाया इति.
एवं प्राप्ते ब्रूमः - उभयोः साधारणा इति. कुतः? लिङ्गदर्शनात्, लिङ्गं भवति, एवम् आह - आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं पशुम्{*3।614*} उपाकरोतीति [379]{*3।615*} सवनीयपरिव्याणे रशनां दर्शयति, सा यदि साधारणी, तत एतद् दर्शनम् अवकल्पते. यद्य् अग्नीषोमीयार्थाः, ततो ऽप्राकृतात् सवनीयपरिव्याणान् निवर्तेत. सवनीये च परिव्याणान्तरप्राकृतम्, यत्र त्रिवृत्त्वं दृश्यते. कथम्? स वै आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्ययतीति. तत्र यदि न साधारणी रशना, वाससा परिव्याणं प्राप्नोति, रशणां तु दर्शयति. तस्मात् साधारणी रशना, तत् सा-धारण्याच् च तद्धर्मा अपि साधारणाः. तद् एतल् लिङ्गाद् रशनासाधारण्यम्. को ऽत्र खलु न्याय इति. उच्यते - प्रकरणाद् अग्नीषोमीयस्य, वाक्याद् यूपमात्रस्येति.
नोतेस्:
*{3।612: तैत्.स्. 6.1.11.6}*
*{3।613: ए2,4: प्रतिष्टानां}*
*{3।614: ए2,4: सवनीयं पशुम्}*
*{3।615: ए2: 4,524; ए4: 4,809; ए6: 1,255}*
आराच्छिष्टम् असंयुक्तम् इतरैः संनिधानात्

3.6.33

दूराद् यच् छिष्यते ज्योतिष्टोमस्य, यथौपसदानुवाक्याकाण्डे ऽंश्वदाभ्यौ{*3।616*}. तत्र संदेहः - किं ज्योतिष्टोमसमाम्नाता ग्रहधर्माः कर्तव्याः, उत नेति. किं प्राप्तम्? न कर्तव्याः, असंनिधानात्, यथा - पयसा मैत्रावरुणं श्रीणातीति{*3।617*} वचनात्, मैत्रावरुणस्यैव श्रवणम्, न सर्वेषाम्. एवम् इदम् अपि धर्मजातं प्रकरणस्थानाम् एव, न सर्वेषाम् इति.
नोतेस्:
*{3।616: ए2,4: ऽश्वदाभ्यौ}*
*{3।617: तैत्.स्. 6.4.8.2}*
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात्

3.6.34

संयुक्तं वा धर्मैः, एवंजातीयकं स्यात्, अप्रकरणस्थम् अपि. कुतः? यतः प्रकरणाद् वाक्यं बलीयः. नन्व् अन्यत्र क्रिय[380]{*3।618*}माणा ज्योतिष्टोमस्य नोपकुर्युः. उच्यते - उपकरिष्यन्ति, अंश्वदाभ्ययोस् तदर्थत्वाज् ज्योतिष्टोमार्थत्वाच्{*3।619*} छेषो ऽयं ग्रहधर्मः, ग्रहनिमित्तो ज्योतिष्टोमस्योपकारकः. यावान् ग्रहो ज्योतिष्टोमस्योपकरोति, तस्य सर्वस्य भवितुम् अर्हति. तस्माद् अंश्वदाभ्ययोर् अपि ग्रहधर्माः कर्तव्या इति.
नोतेस्:
*{3।618: ए2: 4,525; ए4: 4,811; ए6: 1,256}*
*{3।619: ए1 गिब्त् ज्योतिष्टोमार्थत्वाच् इन् क्लम्मेर्न्}*
निर्देशाद् व्यवतिष्ठेत

3.6.35

यद् उक्तम् - यथा मैत्रावरुणं पयसा श्रीणातीति, तद् युक्तम्, श्रयणे वचनात्, प्रकरणं बाधित्वा व्यवस्थानम्. इह तु विपरीतम्, तत्र सर्वेषु ग्रहेषु प्रकरणम्, विशिष्टेषु वाक्यम्. इह तु सर्वेषु ग्रहेषु वाक्यम्, विशिष्टेषु प्रकरणम्. तस्माद् अप्रकरणस्थस्यापि धर्मा इति.
अग्न्यङ्गप्रकरणे तद्वत्

3.6.36

अनारभ्याग्निम् उच्यते - चित्रिणीर् उपदधाति, वज्रिणीर् उपदधाति{*3।620*}, भूतेष्टका उपदधातीति{*3।621*}. सन्ति तु प्रकरणे, इष्टकाधर्माः, अखण्डाम् अकृष्णलाम् इष्टकां कुर्याद् इति. तथ भस्मना इष्टकाः संयुज्याद् इति. तत्र संदेहः - किम् अप्रकरणे समाम्नातानाम् इमे धर्माः कर्तव्याः, उत नेति. किं प्राप्तम्? न कर्तव्याः. कुतः? असंनिधानाद्, इति प्राप्ते, उच्यते - अग्न्यङ्गम् एवंजातीयकं तद्वद् एव स्यात्, यद्वद् ग्रहाः. प्रकरणाद् धि वाक्यं बलवत्. अमूषां चेष्टकानाम् अग्न्यर्थत्वात्.
[381]{*3।622*}
नोतेस्:
*{3।620: तैत्.स्. 5.7.3.1}*
*{3।621: तैत्.स्. 5.6.3.1}*
*{3।622: ए2: 4,526; ए4: 4,813; ए1: 1,257}*
नैमित्तिकम् अतुल्यत्वाद् असमानविधानं स्यात्

3.6.37

ज्योतिष्टोमे श्रूयते - स यदि राजन्यं वा{*3।623*} वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीर् आहृत्य ताः संपिष्य दधन्य् उन्मृज्य तमस्मै भक्षं प्रयच्छेन् न सोमम् इति. ज्योतिष्टोमे सन्ति सोमधर्माः, मानम् उपावहरणं क्रयो ऽभिषव इत्येवमादयः. तत्र संदेहः - किं समानविधाना इमे धर्माः सोमस्य फलचमस्य च, उत सोमधर्माः, फलचमसस्य तु तद्विकारत्वाद् इति. गुणकामानां प्रवृत्तिर् वा प्रयोजनम् अधिकरणचिन्तायाः{*3।624*}.
किं प्राप्तम्? समानविधानाः प्रकरणाविभागाद् इति प्राप्ते, उच्यते - नैमित्तिकम् एवंजातीयकं असमानविधानं{*3।625*} स्यात्. कुतः? अतुल्यत्वात्, अतुल्यः सोमेन फलचमसः, सोमो नित्यवद् आम्नाताः, फलचमसो नैमित्तिकः. किम् अतः? यद्य् एवम्, धर्मा अपि नित्यवद् आम्नाताः न शक्या अनित्यवत् कर्तुम्. यदि साधारणाः, तत्रानारभ्यो ऽर्थो विधीयेत. अपि च नैमित्तिकः फलचमसः स सोमधर्मान् गृह्णाति, तत्र धर्माः साधारणाः सन्तो द्विरुक्ता इत्य् उच्येरन्. तस्माद् असमानविधानाः.
नोतेस्:
*{3।623: ए2,4 ओम्. वा}*
*{3।624: ए1 गिब्त् गुणकामानां प्रवृत्तिर् वा प्रयोजनम् अधिकरणचिन्तायाः इन् क्लम्मेर्न्}*
*{3।625: ए2,4: एवंजातीयकसमानविधानं}*
प्रतिनिधिश् च तद्वत्

3.6.38

अस्ति प्रतिनिधिः, श्रुते द्रव्ये ऽपचरति, यथा व्रीहिष्व् अपचरत्सु नीवाराः. तत्र संदेहः - किं नीवाराः समानविधानाः, उत नेति. किं प्राप्तम्? प्रतिनिधिश् च तद्वत्, यथा नैमि[382]{*3।626*}त्तिकं नित्येनासमानविधानम्, एवं प्रतिनिधिः, अतुल्यत्वात्. कातुल्यता? व्रीहीणां विहिताः, न नीवाराणाम्. इयम् अतुल्यता, व्रीहीणां विहिताः, नीवाराणाम् अर्थापत्त्या भवन्ति.
नोतेस्:
*{3।626: ए2: 4,528; ए4: 4,816; ए6: 1,257}*
तद्वत्{*3।627*} प्रयोजनैकत्वात्

3.6.39

नैतद् अस्ति - असमानविधानः प्रतिनिधिर् इति, तद्वत् स्यात्, यद्वच् छ्रुतः, न प्रकृतिविकारभावः. कुतः? व्रीहित्वं हि व्रीहिधर्माणां व्रीहिव्यक्तौ निमित्तम्. न च व्रीहित्वस्य स्थाने नीवारत्वं भवतीति श्रूयते, तस्मान् न प्रकृतिविकारभावः. कथं तर्हि नीवारेषु धर्मा भवन्तीति. उच्यते -या व्रीहित्वेन परिच्छिन्ना व्रीहिव्यक्तयः, नीवारेषु ताः सन्ति. तासाम् अर्थेन ते धर्माः क्रियन्ते, तासां च व्यक्तीनाम् अन्यासां च व्रीहिगतानां तुल्य एष विधिः. का तुल्यता? उभये ऽपि व्रीहित्वलक्षिता इति. तस्मात् समानविधाना इति.
नोतेस्:
*{3।627: ए2,4: न तद्वत्}*
अशास्त्रलक्षणत्वाच् च

3.6.40

इतश् च न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावः. कुतः? अर्थलक्षणत्वात्, अर्थाद् धि प्रतिनिधिः क्रियते. न चार्थेनैतद् अवगन्तुं शक्यते, व्रीहित्वस्य स्थाने नीवारत्वं भवतीति. तस्मान् न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावो भवतीति.
नियमार्था गुणश्रुतिः

3.6.41

अथ यः श्रुतः प्रतिनिधिः, तत्र किं सामानविध्यम् उत न [383]{*3।628*} इति. यथा - यदि सोमं न विन्देत पूतीकान् अभिषुणुयाद् इति{*3।629*}. असामानविध्यम् इति ब्रूमः, अश्रुताद् ध्य् एतद् विपरीतम्. एवं प्राप्त उच्यते - नियमार्था गुणश्रुतिः, अत्राप्य् अर्थलक्षण एव प्रतिनिधिः, सोमे ऽविद्यमाने सोमसदृशं द्रव्यं प्राप्तम्. तत्र सुसदृशे द्रव्ये प्राप्त ईषत्सदृशं नियम्यते. अन्यस्मिन् प्रतिनिधातव्ये ऽन्यत् प्रतिनिधीयते श्रुतस्य स्थाने. न यागद्रव्यत्वेन.
नोतेस्:
*{3।628: ए2: 4,530; ए4: 4,818; ए6: 1,258}*
*{3।629: पुब्र् 9.5.3}*
संस्थास् तु समानविधानाः प्रकरणाविशेषात्

3.6.42

अस्ति ज्योतिष्टोमः, तत्र संस्थाः समाम्नाता अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्र इति. तत्र दीक्षणीयादयो धर्माः. तेषु संदेहः - किं सर्वसंस्थं ज्योतिष्टोमं प्रकृत्य दीक्षणीयादयो धर्मा उक्ताः, उताग्निष्टोमसंस्थ्यम्{*3।630*} अभिप्रेत्येति. किं प्राप्तम्? सर्वसंस्थासु समानं विधानम्. कुतः? प्रकरणाविशेषात्, नास्ति प्रकरणे विशेषः, येन ज्ञायेताग्निष्टोमसंस्थं प्रकृत्येति. तस्मात् समानविधानाः संस्था इति.
नोतेस्:
*{3।630: ए2,4,6: उताग्निष्टोमसंस्थाम्}*
व्यपदेशश् च तुल्यवत्

3.6.43

तुल्य इव प्रकरणे व्यपदेशो भवति - यद्य् अग्निष्टोमो जुहोति, यद्य् उक्थ्यः परिधिमनक्ति, यद्य् अतिरात्र एतद् एव यजुर् जपन् हविर्धानं प्रतिपद्येतेति सर्वावस्थस्य विशेषवचनाद् अवगम्यते. यदि अपि सामान्यम्, तद् अपि सर्वावस्थस्यैवेति. यदि हि न{*3।631*} समानं विधानम्, अग्निष्टोमसंस्थस्यैव [384]{*3।632*} स्यात्. नेहाग्निष्टोमं संकीर्तयेत्, असंकीर्त्यमाने ऽपि धर्मसंबन्धो भवतीति, सर्वावस्थस्य कीर्तनात् सर्वावस्थप्रकरणम्{*3।633*} इत्य् अवगच्छामः.
अपि च श्रूयते - आग्नेयम् अजम् अग्निष्टोम आलभेत, ऐन्द्राग्नं द्वितीयम् उक्थ्ये, ऐन्द्रं वृष्णिं तृती-यं षोडशिनीति द्वितीयस्य तृतीयस्य च दर्शनं सामानविध्ये घटते. उक्थ्ये हि द्वे निमित्ते स्तः, अग्निष्टोमस्तोत्रम् उक्थ्यस्तोत्रं चेति, तत्र द्वौ नैमित्तिकाव् आग्नेयः पशुः, ऐन्द्राग्नश् चेति तेन द्वितीयदर्शनं तत्र युज्यते. एवं षोडशिन्य् अतिरात्रे च. प्रकृतिविकारभावे तु प्रत्यक्षश्रुतैर् ऐन्द्राग्नादिभिर् अतिदेशेन प्राप्त आग्नेयो बाध्येत. तत्र द्वितीयादिदर्शनं नोपपद्येत. भवति च. तस्मात् सर्वावस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा इति.
नोतेस्:
*{3।631: ए2 उन्द् 4 गेबेन् न इन् क्लम्मेर्न्}*
*{3।632: ए2: 4,532, ए4: 4,821; ए6: 1,259}*
*{3।633: ए2,4: सर्वावस्थस्य प्रकरणम्}*
विकारास् तु कामसंयोगे स नित्यस्य{*3।634*} समत्वात्

3.6.44

नैतद् अस्ति, समानविधाना इति. किं तर्ह्य् उक्थ्यादयः संस्थाविकारभूताः स्युः, अग्निष्टोमसंस्थ्यमुरीकृत्य{*3।635*} दीक्षणीयादयो धर्माः समाम्नाताः. कुतः? उक्थ्यादीनां कामसंयोगेन श्रवणात्. पशुकाम उक्थ्यं गृह्णीयात्, षोडशिना वीर्यकामः स्तुवीत, अतिरात्रेण प्रजाकामं याजयेद् इति. काम्यो गुणः श्रूयमाणो नित्यम् अर्थं विकृत्य निविशते. कथम्? गुणाद् एवंजातीयके काम्ये फलनिर्वृत्तिः, पशुकाम उक्थ्यं गृह्णीयात्, न ज्योतिष्टोमकाम उक्थ्यग्रहणकामो वा, यथा पशवो भवन्ति, तथा गृह्णीयाद् इत्य् अर्थः. कथम् इति. तत्रावश्यम् इतिकर्तव्यतापेक्षितव्या, संनिधानान् नित्यस्येतिकर्तव्यतयेति गम्यते.
कथं पुनर् येयम् इतिकर्तव्यता, सा नित्यस्येत्य् अवधार्यते, [385]{*3।636*} न पुनर् अस्यैव काम्यस्य, साधारणी वेति. उच्यते - यत्र यत्र गुणे कामो भवति, तत्र तत्र क्रियायां साध्यमानायां नान्यथा. सा तत्रेतिकर्तव्यता, यान्तिकम् उपनिपतति, सा साधनस्य वा साध्यस्य वेति संदिह्यमाना साध्यस्य भवितुम् अर्हति. नासौ साध्यस्याभवन्ती साधनेन संबध्यते, एवं हि स इतिकर्तव्यताविशेषश् चोद्यते, अनेन साधने{*3।637*} साधकम् उपकुर्याद्{*3।638*} इति. न चास्ति स प्रकारः, येनासाध्यमानायां क्रियायां तेन साधकः कृतो भवेत्. तस्मात् साधकस्यापीतिकर्तव्यताविशेषम् अभ्युपगच्छता, साध्यस्यापीत्य् एतद् अभ्युपगमनीयम्, साध्यश् च ज्योतिष्टोमः, साधिकाः संस्थाः, तस्माज् ज्योतिष्टोमस्य तावत् सेतिकर्तव्यतेति सिद्धम्.
अथ कस्मान् न साधारणी? नित्यवद् आम्नानात्, यदैव ज्योतिष्टोमः, तदैव दीक्षा. यदा तु ज्योतिष्टोमे पशुकामः, तदोक्थ्यसंस्थाः, सर्वदा ज्योतिष्टोमे धर्माः कर्तव्याः, एकदोक्थ्यसंस्थाः, तत्र सर्वदा ज्योतिष्टोमस्य धर्माः कर्तव्याः, ते चोक्थ्यादिसंस्थस्यार्थेनेति पूर्वम् उत्तरेण विरुध्यते, यदि सर्वदा नोक्थ्यादीनाम् अर्थेन. अथोक्थ्यादीनाम् अर्थेन न सर्वदा, उभयं विप्रति-षिद्धम्. तस्मान् न साधारणी. नित्यवद् आम्नानं च यद्य् अनित्यस्य स्यात्, नित्यवद् आम्नानं तद् अनित्यं क्रियेत, तत्र नित्यवद् आम्नानं बाध्येत. तस्मान् नित्यसंस्थस्य ज्योतिष्टोमस्य, न काम्यस्योक्थ्यादिसंस्थस्येति.
नोतेस्:
*{3।634: ए2,4: स नित्यस्य}*
*{3।635: ए2,4: संस्थ्यमूरीकृत्य}*
*{3।636: ए2: 4,541; ए4: 4,826; ए1: 1,259}*
*{3।637: ए2,4: साधनं}*
*{3।638: ए2,4: कुर्याद्}*
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति

3.6.45

नन्व् अग्निष्टोमसंस्थापि काम्या श्रूयते. द्वे हि तत्राम्नाते{*3।639*}, एकं नित्यवत्, एकं काम्यम्, तत्र द्वयोर् वाक्ययोः सामर्थ्यान् नित्य एव सकामो भविष्यति. नित्यताविधातो [386]{*3।640*} नास्तीत्य् अग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा भविष्यन्तीति.
नोतेस्:
*{3।639: ए2,4: तत्राम्नाने}*
*{3।640: ए2: 4,544; ए4: 4,826; ए1: 1,260}*
वचनात् तु समुच्चयः

3.6.46

अथ यद् उक्तम् - द्वितीयतृतीयदर्शनं समानविधित्वे ऽवकल्पते, नान्यथेति, वचनं तद् भविष्यति, न दर्शनम्. ऐन्द्राग्न उक्थ्ये द्वितीयो विधीयते, तथैन्द्रः षोडशिनि तृतीयः.
प्रतिषेधाच् च पूर्वलिङ्गानाम्

3.6.47

इतश् च पश्यामः प्रकृतिविकारभाव इति. कुतः? प्रतिषेधात् पूर्वलिङ्गानाम् - यद्य् अग्निष्टोमो जुहोति, यद्य् उक्थ्यः परिधिमनक्ति न जुहोतीति होमाभावदर्शनं न स्यात्. प्राप्ते निमित्ते वचनप्रामाण्यात् सामानविध्ये.
गुणविशेषाद् एकस्य व्यपदेशः

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc