मीमांसासूत्र (टीका सहित) · अध्याय 3.4
अथापरं यत् कारणम् उक्तम् - नेमपिष्टम् इति{*3।349*} द्विदेवत्ये पेषणं दर्शयति, अर्धपिष्टं{*3।350*} भवत्य् अर्धम् अपिष्टं द्विदेवत्यत्वायेति [311]{*3।351*} देवताधर्मं दर्शयतीति. अत्रोच्यते - एवं सति वचनम् इदम् अप्राप्ते भवतीति. नन्व् अनेकार्थविधिधानम् एकं वाक्यं प्राप्नोति. उच्यते - सति पक्षान्तरे ऽनेकार्थविधिः पक्षान्तराश्रयणेन परिह्रियते. असति पुनः पक्षान्तरे उच्चारणानर्थक्यप्रसङ्गपरिजिहीर्षयानेकार्थं वाक्यम् अभ्युपगन्तव्यं भवति. तस्मान् न द्विदेवत्ये पेषणम् इति सिद्धम्.
[312]{*3।352*}
नोतेस्:
*{3।349: एबेन्द}*
*{3।350: ए2,4: अर्धं पिष्टं}*
*{3।351: ए2: 4,307; ए4: 4,433; ए6: 1,212}*
*{3।352: ए2: 4,307; ए4: 4,435; ए6: 1,213}*
निवीतम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात्
दर्शपूर्णमासयोर् आम्नातम् - निवीतं मनुष्याणां प्राचीनावीतं पितॄणाम् उपवीतं देवानाम् उपव्ययते देवलक्ष्मम् एव तत् कुरुत इति{*3।353*}. निवीतं मनुष्याणाम् इत्य् अत्र संदेहः - किम् अयं विधिर् उतार्थवाद इति. यदा विधिः, तदा किम् अयं पुरुषधर्म उत कर्मधर्मः? अथ यत् प्रकरणे मनुष्याणाम्, तत्र विधिः, उत मनुष्यप्रधाने कर्मणि निविशत इति.
किं प्राप्तम्? विधिर् मनुष्यधर्मश् चेति, यदि विधिर् एवम् अपूर्वम् अर्थं विदधद् अर्थवान् भवति, इतरथार्थवादमात्रम् अनर्थकम्. विधिश् चेत् पुरुषधर्मो निवीतं मनुष्याणाम् इति पुरुषप्रधानो निर्देशः. कथम् अवगम्यते? नात्र मनुष्या विधीयन्ते, मनुष्याणां निवीतं विधीयते, न चाविहितम् अङ्गं भवति. यदि मनुष्या अपि विधीयेरन् वाक्यं भिद्येत. तस्मान् निवीतं मनुष्याणाम् उपकारकम्.
ननु प्रकरणाद् दर्शपूर्णमासयोर् उपकारकम्. प्रकरणाद् धि वाक्यं बलवत्तरम्. अपि च गुणभूतेषु मनुष्येषु कारकसंबन्धस्य विवक्षितत्वात् तृतीया भवेत्, षष्ठी त्व् एषा संबन्धलक्षणा, तत्र गुणभूतेषु मनुष्येषु मनुष्यग्रहणं नैव कर्तव्यं स्यात्. मनुष्यैर् एव तत् क्रियमाणं क्रियेत, मनुष्यप्रधानपक्षे तु कर्तव्यम्.
[313]{*3।354*}
नोतेस्:
*{3।353: तैत्.स्. 2.5.11.1}*
*{3।354: ए2: 4,309; ए4: 4,438; ए6: 1,213}*
अपदेशो वा, अर्थस्य विद्यमानत्वात्
अपदेश इति ज्ञायमानस्य वचनम्. स एष न विधिः. अनुवाद एषः. कुतः? अर्थस्य विद्यमानत्वात्. प्राप्त एवार्थः, यन् निवीतं मनुष्याणाम्, निवीतं हि मनुष्याः प्रायशः स्वार्थं कुर्वन्ति, तस्माद् अनुवादः.
विधिस् त्व् अपूर्वत्वात्{*3।355*} स्यात्
विधिर् एव भवेत्, तथा प्रयोजनवान्, इतरथा वादमात्रम् अनर्थकम्, पूर्ववान् अनुवादो भवति, अयं त्व् अपूर्वः, यन् नियमेन निव्यातव्यम् इति.
नोतेस्:
*{3।355: ए2,4: अपूर्ववत्त्वात्}*
स प्रायात् कर्मधर्मः स्यात्
यद् उक्तम् - विधिर् इति, एतद् गृह्यते. यत् तु मनुष्यधर्म इति, तन् नानुमतम्. क्रतुधर्मो{*3।356*} ऽयं प्रकरणात्, प्रकृत्यैव{*3।357*} हि कर्मप्रायेषु धर्मेषूच्यमानेष्व् एतद् अभिधीयते, तस्मात् कर्मधर्मः.
नोतेस्:
*{3।356: ए2: कृतधर्मो}*
*{3।357: ए2: प्रकृत्यैवं}*
वाक्यशेषत्वात्
निवीतं मनुष्याणाम् इत्य् अस्य वाक्यशेषः समाख्या, आध्वर्यवम् इति{*3।358*}. यदि दर्शपूर्णमासयोः शेषः, ततो ऽध्वर्युणा कर्तव्यम्. तत्र समाख्यानुगृहीष्यते{*3।359*}.
नोतेस्:
*{3।358: ए2: आध्वर्यवति}*
*{3।359: ए2,4,6: समाख्यानुग्रहीष्यते}*
तत्प्रकरणे, यत् तत्संयुक्तम् अविप्रतिषेधात्
उच्यते - प्रकरणात् समाख्यानाच् च कर्मधर्मो विज्ञायते, [314]{*3।360*} वाक्यान् मनुष्यधर्मः, तस्माद् उत्कर्षम् अर्हति. नेति ब्रूमः, प्रकरण एवाभिनिविशमानस्य मनुष्यप्रधानतावकल्पिष्यते. कथम्? यद् दर्शपूर्णमासयोर् मनुष्यप्रधानम्, तत्र निवेक्ष्यते ऽन्वाहार्यकर्मणि, प्रकरणं चैवम् अनुग्रहीष्यते, वाक्यं च.
नोतेस्:
*{3।360: ए2: 4,310; ए4: 4,441; ए6: 1,214}*
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात्
नैतद् अस्ति - प्रकरणे निवेश इति, मनुष्यप्रधाने कर्मणि निवीतं स्याद् आतिथ्ये. कुतः? तुल्यवत् प्रसंख्यानात्, तुल्यानि चैतानि प्रसंख्यायन्ते. यत् तावत्, उपवीतं देवानाम् उपव्ययत इति, तत् प्रकृतयोर् दर्शपूर्णमासयोर् उपवीतं विदधाति. यत् प्राचीनावीतं पिटॄणाम् इति, तत् पितृप्रधाने कर्मणि प्राचीनावीतं विदधाति. यद् अप्य् एतत्, निवीतं मनुष्याणाम् इति, तद् अप्य् आतिथ्ये निरपेक्षं विदधाति. कथं गम्यते? मनुष्यप्रधाने विदधातीति. मनुष्याणाम् इति षष्ठ्यन्तेन संबन्धात्. मनुष्याणाम् एव प्राप्नोति, न मनुष्यप्रधाने. उच्यते - मनुष्याणां कल्प्यमाने फलं कल्पनीयम्, मनुष्यप्रधाने पुनः षष्ठी भविष्यति, संबन्धश् चैवम् अवकल्पिष्यते, फलं चैवं न कल्पनीयम्. तद् उक्तम् - समेषु वाक्यभेदः स्याद् इति{*3।361*}.
ननु{*3।362*} मनुष्यप्रधानेन सहैकवाक्यतां प्राप्तम्, पुनः प्रकृताभ्यां दर्शपूर्णमासाभ्याम् एकवाक्यतां यास्यति. न हि द्वौ संबन्धाव् एकस्मिन् वाक्ये विधीयेते, भिद्येत हि तथा वाक्यम्. इतरस्य मनुष्यग्रहणस्य निवीतसंबन्धार्थत्वात्, तेनैव सहैकवाक्यता भविष्यति प्रत्यक्षेण शब्देन, तद् एकवाक्यतया चार्थवत्त्वे सति न प्रकृतेनैकवाक्यतावकल्प्यते. तस्मात् प्रकरणं बाधित्वातिथ्ये निवेक्ष्यत इति.
[315]{*3।363*}
नोतेस्:
*{3।361: म्स् 2.1.47}*
*{3।362: ए2,4: न तु}*
*{3।363: ए2: 4,312; ए4: 4,444; ए6: 1,215}*
अर्थवादो वा प्रकरणात्
नैतद् अस्ति - विधिः स च मनुष्यप्रधाने कर्मणीति. मनुष्याणाम् इति मनुष्यसंबन्धो ऽत्र श्रूयते, न मनुष्यप्रधानेन कर्मणा संबन्धः. मनुष्यप्राधान्ये च सति फलं कल्पनीयम्. आतिथ्यकर्मणा त्व् अनिर्दिष्टेनाप्रकृतेनानुमेयेन संबध्येत. तत्र को दोषः? प्रकरणाद् उत्कृष्येत संभवंस् तत्र. कथं संभव इति चेत्. अर्थवाद एषः स प्रकृतं स्तुवन् प्रकरणे संभविष्यति, विधिः सन्न् उत्कृष्येत. तस्मान् न विधिर् मनुष्यप्रधाने कर्मणीति.
विधिना चैकवाक्यत्वात्
इतश् च न विधिः, कुतः? विधिनैकवाक्यत्वात् - उपव्ययते देवलक्ष्मम् एव तत् कुरुते इत्य् एष विधिः, अनेनास्य सहैकवाक्यता भवति. यदीतरो ऽपि विधिः स्यात्, वाक्यं भिद्येत, न हि विधेश् च{*3।364*} विधेश् चैकवाक्यता भवति, वचनव्यक्तिभेदात्. तत्रैकवाक्यतारूपं बाध्येत. किम् एकवाक्यतारूपम्? निवीतं मनुष्याणाम् इति प्राप्तानुवादः. प्राप्तस्य किम् अर्थेन पुनर् वचनम्? उपवीतस्तुत्यर्थेन. कथम् उपवीतस्तुतिः? निवीतम् अयोग्यं देवकर्मणि दर्शपूर्णमाससंज्ञके, मनुष्याणां हि तत्. तथा प्राचीनावीतं पितॄणाम्, न देवकर्मणि. उपवीतं तु तत्र योग्यम्, तस्माद् उपव्यातव्यम् इति. यथा, यादृशो ऽस्य वेशः{*3।365*}, तादृशो नटानाम्, यादृशो देवदत्तस्य तादृशो ब्राह्मणानाम् इति देवदत्तवेशप्रशंसार्थम्{*3।366*} इतरवेशसंकीर्तनम्{*3।367*}. एवम् इहाप्य् उपव्यानस्तुत्यर्थेन निवीतसंकीर्तनम्. नास्त्य् अत्र विधायकः शब्दः - निवीतं मनुष्याणां कर्तव्यम् इति. आतिथ्यप्रयोगवचनम्, तस्य कर्तव्यताविधायकम् इति चेत्. नैतद् एवम्, [316]{*3।368*} स्तुत्यर्थेनार्थवत्त्वे सति न शक्यं कल्पयितुम्, परोक्षं हि तद् आनर्थक्यपरिजिहीर्षया कल्प्येत. परिहृते त्व् आनर्थक्य इह पुनर् न किंचित् कल्पनीयम्, तस्माद् अर्थवादः. एवं च वाक्येनाविरुद्धं प्रकरणम् अर्थवद् भवति.
अ. उपवीतं लिङ्गदर्शनात् सर्वधर्मः स्यात्॥
ब्. न वा प्रकरणात् तस्य दर्शनम्॥
च्. विधिर् वा स्याद् अपूर्वत्वात्॥
द्. उदक्त्वं चापूर्वत्वात्॥
ए. सतो वा लिङ्गदर्शनम्॥
f. विधिस् तु धारणे ऽपूर्वर्त्वात्॥{*3।369*}
नोतेस्:
*{3।364: ए2,4 ओम्. च, ए6 ओम्. विधेश् च}*
*{3।365: ए2,4: वेषः}*
*{3।366: ए2,4: देवदत्तवेषप्रशंसार्थम्}*
*{3।367: ए2,4: इतरवेषसंकीर्तनम्}*
*{3।368: ए2: 4,314; ए4: 4,446; ए6: 1,215}*
*{3।369: zउ दिएसेन् 6 इम् भाष्य निछ्त् कोम्मेन्तिएर्तेन् सूत्राणि व्ग्ल्. ग्.झ, ü., ब्द्.1, स्.494}*
दिग्विभागश् च तद्वत् संबन्धस्यार्थहेतुत्वात्
ज्योतिष्टोमं प्रकृत्य श्रूयते - प्राचीं देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्या उदीचीम् असुरा इति{*3।370*}. अपरेषाम्, उदीचीं रुद्रा इति{*3।371*}. तत्र संदेहः - किं विधिर् उतार्थवादः? [317]{*3।372*} विधिः सन् किं मनुष्यधर्मः, उत कर्मधर्मः? अथ वा प्रकरणे मनुष्यप्रधाने कर्मणि निवेशः? किं वातिथ्य इति.
किं तावत् प्राप्तम्? दिग्विभागश् च तद्वत्, संबन्धस्यार्थहेतुत्वात्. य एष दिग्विभागः, स निवीतवद् विचार्यः. यो निवीते पूर्वपक्षः, स इह पूर्वपक्षः, यो मध्यमः, स मध्यमः, यः सिद्धान्तः, स सिद्धान्तः. अर्थवत्त्वाद् विधिर् मनुष्यसंबन्धान् मनुष्यधर्म इति पूर्वपक्षः. प्रत्यङ्मुखा उदङ्मुखा वा पृष्ठत आदित्यं प्रांशु{*3।373*} पदार्थान् अनुतिष्ठन्ति मनुष्या इत्य् अनुवादः. विधिर् एव प्रकरणानुग्रहाच् च ज्योतिष्टोमधर्मः, वाक्यप्रकरणानुग्रहाय ज्योतिष्टोमे मनुष्यप्रधाने दक्षिणाव्यापारे निवेश इत्य् अपरः पक्षः. भिन्नत्वाद् वाक्यानाम् आतिथ्ये निवेश इत्य् अपरं मतम्. अर्थवादो ऽयं प्रकरणानुग्रहाय, प्राचीनवंशं करोतीत्य् अनेन विधिनैकवाक्यत्वस्य प्रत्यक्षसिद्धत्वाद् इति सिद्धान्तः.
नोतेस्:
*{3।370: तैत्.स्. 6.1.1.1}*
*{3।371: ए1 गिब्त् अपरेषाम्, उदीचीं रुद्रा इति इन् क्लम्मेर्न्}*
*{3।372: ए2: 4,319; ए4: 4,451; ए6: 1,216}*
*{3।373: ए2,4: प्राशु}*
परुषि दितपूर्णघृतविदग्धं च तद्वत्
दर्शपूर्णमासयोर् आम्नायते - नानृतं वदेद् इति{*3।384*}. तत्र संदेहः - किम् अयं प्रतिषेधो दार्शपौर्णमासिकस्य पदार्थस्य [319]{*3।385*} प्रकरण एव निवेशः. अथ प्रायेण प्राप्तस्य कर्मणः पुरुषं प्रति प्रतिषेधः पुरुषधर्मो ऽयम् इति. किं प्राप्तम्? पुरुषधर्मः स्यात्, पुरुषस्यायम् उपदिश्यते, न दर्शपूर्णमासयोः. कुतः? पुरुषप्रयत्नस्य श्रवणात्, वदेद् इति वदनम् अनुतिष्ठेद् इति श्रुत्या गम्यते, तस्य पुरुषसंबन्धः श्रुत्यैव, कर्मसंबन्धः प्रकरणात्. श्रुतिश् च प्रकरणाद् बलीयसी. इतरथा वदनं भवतीत्य् एतावत्य् अर्थे वदनम् अनुतिष्ठेद् इत्य् अविवक्षितस्वार्थः परार्थो विध्यर्थो भवेत्. पुरुषस्योपदेशे पुनर् विवक्षितस्वार्थ एव शब्दः. तस्मात् पुरुषस्योपदेशः. यस्य चोपदेशः, तस्यायं प्रतिषेधः. स चायम् अर्थ उपनयनकाल एव पुरुषस्य प्रतिषिद्धः, तेन संयोगेनायं नित्यानुवादः.
नन्व् एषा श्रुतिस् तस्याः स्मृतेर् मूलम्. नैषा तस्या मूलं भवितुम् अर्हति. यदीयं तन्मूलिका भवेत्, दर्शपूर्णमासयोर् इति स्मर्येत, उपनयनकाल एव चास्योपदेष्टारो भवन्ति. अपि च पुरुषधर्म इत्य् उपदिशन्ति, तस्मान् नैषा स्मृतिर् अतः श्रुतेर् इति.
नोतेस्:
*{3।384: तैत्.स्. 2.5.5.6}*
*{3।385: ए2: 4,322; ए4: 4,460; ए6: 1,217}*
विधिर् वा संयोगान्तरात्
विधिर् वायं दर्शपूर्णमासयोर् नानृतं वदेद् इति, नानुवादः. कुतः? संयोगान्तरात्. नियमानुष्ठानेन पुरुषस्य संबन्धः स्मर्यते, पदार्थप्रतिषेधेनेह संयोगः पुरुषस्य. कथम् अन्यच् छ्रूयमाणम् अन्यस्यानुवादो भविष्यति, तस्माद् विधिः प्रतिषेधस्यायम्. आह गृह्णाम{*3।386*} एतत्, विधिर् इति. पुरुषधर्म इति तु गृह्णामः{*3।387*} पुरुषप्रयत्नस्य श्रुतत्वात्. अत्र ब्रूमः - सर्वेष्व् आख्यातेषु क्रियानुष्ठानं श्रूयते न कारकं किंचित्. कथम् एतद् गम्यते? प्रत्ययात्, यतः क्रियाम् अनुष्ठेयां प्रतीमः.
ननु कर्तारम् अपि प्रतियन्ति. सत्यं प्रतियन्ति, न तु शब्दात्. कुतस् तर्हि? अर्थात्, यदा क्रियानुष्ठातव्या विधीयते, [320]{*3।388*} तदार्थात् कारकव्यापारो गम्यते, यश् चार्थाद् गम्यते. न स श्रौतः, यश् च न श्रौतो न स वाक्याद् गम्यते. कथम् असौ प्रकरणं बाधिष्यते.
आह - प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इत्य् आचार्योपदेशात् कर्ता शब्दार्थः कर्म चेत्य् अवगम्यते, कर्तरि शप्{*3।389*}, कर्मणि यग्{*3।390*} इति प्रत्ययार्थं कर्तारं कर्म च समामनन्त्य् आचार्याः, तस्माच् छब्दार्थः कर्ता कर्म चेति.
उच्यते - नाचार्यवचनात् सूत्रकारवचनाद् वा शब्दार्थो भवति, प्रत्ययाद् असौ गम्यते. अनुष्ठेया च क्रिया प्रतीता सती कारकाणि प्रत्याययतीत्य् अवगतम् एतत्. अपि च, नैव कर्ता प्रत्ययार्थः कर्म वेत्य् आचार्या आहुः. ननु कर्तरि कर्मणि च लकारः श्रूयते. नासौ कर्तरि कर्मणि वा श्रूयते किं त्व् एकस्मिन्, एकवचनम्, द्वयोर् द्विवचनं बहुषु बहुवचनम् इति तत्रापरं वचनम्. तत्रैवम् अभिसंबन्धः क्रियते - एकस्मिन् कर्तरि द्वयोः कर्त्रोर् बहुषु कर्तृष्व् इति. एवं कर्मण्य् एकत्वादिसंबन्धः. तत्र नैवं भवति - कर्तरि भवत्य् एकस्मिंश् चेति. कथं तर्हि? कर्तर्य् एकस्मिन्न् एकवचनम्, कर्तुर् एकत्व इत्य् अर्थः. एवं द्वित्वे बहुत्वे कर्मणि च. एवं वर्ण्यमाने लौकिकन्यायानुगतः सूत्रार्थो वर्णितो भवति. सूत्राक्षराणि च न्यायानुगतानि भवन्ति. आगमो ऽपि चायम् एव, यदैकत्वादयो विभक्त्यर्थाः, तदा कर्मादयो विशेषणत्वेनेति.
नन्व् एतद् अप्य् अस्ति यदा कर्मादयो विभक्त्यर्थाः, तदैकत्वादयो विशेषणत्वेनेति. उच्यते - अर्थप्राप्ता हि कर्मादयस् ते न भवन्ति शब्दस्याभिधेयभूताः. न त्व् एकत्वादयो ऽर्थात् प्राप्नुवन्ति, तेन ते शब्दार्थभूताः, तस्माद् अपि विशेषणम् एकत्वादयः, तथापि विशेषणम् एवाभिधीयते, यथा हिरण्यमालिन ऋत्विजः प्रचरन्तीति हिरण्यमालित्वं विशेषण[321]{*3।391*}त्वेन, तथापि तद् एव विधीयते, तस्मात् कर्तुर् एकत्वं शब्दार्थो न कर्ता.
ननु कर्तुर् एकत्वाद् एकवचनम्, कर्तुर् द्वित्वाद् द्विवचनम्, कर्तुर् बहुत्वाद् बहुवचनम्. तेन नूनं कर्ता शब्दार्थ इति गम्यते. उच्यते - नैतद् अनुमानाच् छक्यम्, कर्तानुष्ठेयक्रियावगमाद् एवावगम्यत इति प्रत्यक्षम्. तत् तावत् केनचिन् न बाध्यते. एकवचननिर्देशे कर्त्रेकत्वं गम्यते, द्विवचननिर्देशे कर्तुर् द्वित्वम्, बहुवचननिर्देशे कर्तृबहुत्वम्{*3।392*}. तद् अपि प्रत्यक्षम्, कतरद् अत्रानुमाणं बाधितुम् अर्हतीति, यथाकृतिवचने शब्दे द्विवचने द्रव्यभेदो ऽवगम्यते, एक-वचने द्रव्यैकत्वम्, एवम् इहापि द्रष्टव्यम्. तस्मान् न श्रौतः, न चेच् छ्रौतः, न प्रकरणं बाधिष्यते.
यत् तु पुरुषप्रयत्नो ऽनर्थको भवति कर्मधर्मपक्षे प्रयोगवचनेन कर्तव्यतावचनाद् इति. तद् उच्यते - अङ्गं सत् प्रकरणेन गृह्येत, न चाविहितम् अङ्गं भवति, तस्माद् अङ्गत्वाय विधातव्यम्, अस्मिन्न् अपि पक्षे. अतो मन्यामहे - प्राकरणिकस्यायं निषेध{*3।393*} इति. तस्माद् तद्{*3।394*} अङ्गम्, यद् अनृतं तन् न वाच्यम् इति, तेन यत् संकल्पितम्, तद् अङ्गम्, तद् एव कर्तव्यम्, व्रीहिम् अयं संकल्प्य न यवमयः प्रदेयः.
आह यदोभयोर् अपि पक्षयोर् नानृतं वदितव्यम्, तदा को विचारेणार्थ इति. उच्यते - पूर्वस्मिन् पक्षे पुरुषधर्मः, तत्र भ्रंशे{*3।395*} स्मार्तं प्रायश्चित्तम्, सिद्धान्ते दर्शपूर्णमासधर्मः, तत्र भ्रंशे{*3।396*} याजुर्वेदिकं प्रायश्चित्तम्.
नोतेस्:
*{3।386: ए2,4,6: गृह्णीम}*
*{3।387: ए2,4,6: गृह्णीमः}*
*{3।388: ए2: 4,348; ए4: 4,475; ए6: 1,218}*
*{3।389: पाण्. 3.1.68}*
*{3।390: पाण्. 3.1.67}*
*{3।391: ए2: 4,356; ए4: 4,475; ए6: 1,218}*
*{3।392: ए2,4: कर्तुर् बहुत्वम्}*
*{3।393: ए1: निषेधः, ए2,4: निषेधे, ए6: निषेध}*
*{3।394: ए2,4 ओम्. तद्}*
*{3।395: ए1: भ्रेंषे (?)}*
*{3।396: ए1: भ्रेंषे (?)}*
अहीनवत् पुरुषस् तदर्थत्वात्
ज्योतिष्टोमे श्रूयते - अङ्गिरसो वेत उत्तमाः सुवर्गं [322]{*3।397*} लोकम् आयन्ते ऽप्सु दीक्षातपसी प्रावेशयंस् तीर्थे स्नाति तीर्थम् एव हि सजातानां भवतीति{*3।398*}. दर्शपूर्णमासयोर् आम्नायते, तस्माज् जञ्जभ्यमानो ऽनुब्रूयात्. मयि दक्षक्रतू इति. प्राणापानाव् एवात्मन्धत्त इति{*3।399*}. तत्र संदेहः - किम् अयं धर्मः प्रकरणे निविशते, उत पुरुषस्योपदिश्यत इति. किं तावत् प्राप्तम्? अहीनवत् पुरुषः, तदर्थत्वात्. एष विधिः प्रकरणाद् उत्कृष्येत. कुतः? पुरुषश्रुतेः, ब्रूयाद् इति पुरुषप्रयत्नस्य विवक्षितत्वात्.
ननु प्रकरणं बाध्यते. उच्यते - बाध्यतां प्रकरणम्, वाक्यं त्व् अस्य बाधकम्, जञ्जभ्यमानसंयोगात्, प्रकरणाद् दर्शपूर्णमासयोर् उपदिश्यत इति गम्यते, वाक्याज् जञ्जभ्यमानस्य, वाक्यं च प्रकरणाद् बलीयः. तस्माद् उत्कृष्येतेति. फलम् अप्य् आमनन्ति, प्राणापानाव् एवात्मन्धत्त इति, स च संयोगो बाध्यते. तस्मात् पुरुषधर्मः, प्रकरणाद् उत्कृष्येताहीनवत्, यथाहीनसंयोगाद्{*3।400*} द्वादशोपसत्ता प्रकरणाद् उत्कृष्यते. एवं जञ्जभ्यमानसंयोगान् मयि दक्षक्रतू इति वचनम्.
नोतेस्:
*{3।397: ए2: 4,379; ए4: 4,508; ए6: 1,219}*
*{3।398: तैत्.स्. 6.1.1.2}*
*{3।399: तैत्.स्. 2.5.2.4; वाज्.स्. 38.27}*
*{3।400: व्ग्ल्. म्स् 3.3.15}*
प्रकरणविशेषाद् वा तद् युक्तस्य संस्कारो द्रव्यवत्
न वोत्क्रष्टव्यम्. कुतः? प्रकरणविशेषात्, प्रकरणयुक्त एव जञ्जभ्यमानो वचनेन संस्क्रियते, यथा यवादिद्रव्यं प्रोक्षणा[323]{*3।401*}दिना. ननु न शक्नोति प्रकरणं जञ्जभ्यमानशब्दम् एकदेशे ऽवस्थापयितुम्, वाक्यं हि प्रकरणाद् बलवत्तरम् इति. उच्यते - न ब्रूमो जञ्जभ्यमानशब्दः प्रकरणेनाप्राकरणिकात् पुरुषान् निवर्त्यत इति. किं तु फलं तत्र कल्पनीयम्. ननु प्रत्यक्षं श्रूयते फलम्, प्राणापानाव् एवात्मन्धत्त इति. नेति ब्रूमः - नात्र विधायकं शब्दम् उपलभामहे, य एषः, प्राणापानाव् एवात्मन्धत्त इति, वर्तमानापदेश एष न विधायकः. स्तावकस् तु भवति मन्त्रवचनस्य, तस्माद् दर्शपूर्णमासाभ्याम् अन्यत्रैतन् न फलवत्. अतः पुरुषस्य दर्शपूर्णमासौ कुर्वतः संस्कारकर्मेति गम्यते.
आह पुरुषसंस्कारकर्मेति गृह्यते, दर्शपूर्णमासाव् एव कुर्वत इत्य् एतन् न. कथम्? यो ऽपि ह्य् अन्यत्र दर्शपूर्णमासाभ्याम्, जञ्जभ्यते, सो ऽपि जञ्जभ्यमानशब्देनोच्यत एव. न च, प्रकरणेन व्यावर्त्यत इत्य् एतद् उक्तम्, तस्माद् उत्कृष्यते. अत्रोच्यते - नैव व्यावर्त्यते, संस्कृतेन तु तेन नास्ति प्रयोजनम्. ननु प्रकरणे पुरुषसंस्कारेणापि नास्ति प्रयोजनम्. उच्यते - संस्कृतपुरुषो दर्शपूर्णमासाव् अनुष्ठास्यति. आह, उत्कर्षे ऽपि सति संस्कृतो ऽन्यद् अनुष्ठास्यति. उच्यते - नान्यस्य संस्कारो गुणो भवति, अप्रकृतत्वात्. आह प्रकृतस्यापि न गुणः, वाक्येन पुरुषधर्म इत्य् अवगमात्. उच्यते - आनर्थक्यान् न पुरुषधर्मो ऽवगम्यते. तस्माद् अस्य प्रकृताभ्यां दर्शपूर्णमासाभ्याम् एकवाक्यता, नान्येन फलवतापि कर्मणा, प्रकरणाभावात्, तस्मान् नोत्कर्षः.
यत् तु प्रकरणे निवेश एतस्मिन्{*3।402*} पक्षे ब्रूयाद् - इत्य् अनुष्ठानवचनम् अविवक्षितस्वार्थम् इति, एवं सति अत्यनुवादो{*3।403*} भविष्यति, न पुरुषसंबन्धविधानस्य प्रयोजनम् अस्तीति.
[324]{*3।404*}
नोतेस्:
*{3।401: ए2: 4,381; ए4: 4,511; ए6: 1,220}*
*{3।402: ए2,4: निवेश इत्य् एतस्मिन्}*
*{3।403: ए2,4: अनुवादो}*
*{3।404: ए2: 4,385; ए4: 4,516; ए6: 1,220}*
व्यपदेशाद् अपकृष्यते
अथ यद् उपवर्णितम् - द्वादशोपसत्ता यथोत्कृष्यते, तथेदम् अप्य् उत्क्रष्टव्यम् इति. उच्यते - तद् धि वाक्येनाहीनानां व्यपदिश्यते, फलवन्तश् चाहीनाः. न च तत्र ज्योतिष्टोमे ऽहीनशब्दः, गौणत्वात्, व्यपदेशाच् च तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*3।405*}. ततो युक्तं द्वादशोपसत्ता यत् प्रकरणाद् उत्कृष्यते. न त्व् इह पुरुषसंबन्धो निष्प्रयोजनत्वात्, अन्यस्य च प्रयोजनवतः प्रकरणे ऽभावात्.
नोतेस्:
*{3।405: तैत्.स्. 6.2.5.1}*
शंयौ च सर्वपरिदानात्
दर्शपूर्णमासयोः श्रूयते - देवा वै शंयुं बार्हस्पत्यम् अब्रुवन् हव्यं नो वहेति प्रकृत्य, वचनम् इदं भवति - किं मे प्रजाया इति ते ऽब्रुवन् यो ब्राह्मणायावगुरेत् तं शतेन यातयाद् यो निहनत् तं सहस्रेण यातयात्, यो लोहितं करवत् यावतः प्रस्कन्द्य पांसून् संगृहणात् तावतः संवत्सरान् पितृलोकं न प्रजानीयाद् इति. तस्मान् न ब्राह्मणायावगुरेन् न हन्यान् न लोहितं कुर्याद् इति{*3।406*}.
तत्र संदेहः - किं दर्शपूर्णमासयोर् अवगोरणप्रतिषेधः, उत पुरुषास्योपदिश्यत इति. किं प्राप्तम्? प्रकरणाद् दर्शपूर्णमासयोर् अवगोरणादिप्रतिषेधः. न दर्शपूर्णमास्योर् ब्राह्मणस्यावगोरितव्यं वधो वा कार्यो लोहितं वा प्रस्कन्दनीयम्. अन्य उपाय आस्थातव्य आनतये, ते नान्वाहार्येणानमन्ति [325]{*3।407*} इति प्रकरणात् प्राप्नोति. एवं प्राप्ते ब्रूमः - शंयौ च प्रकरणाद् उत्कर्षः. कस्मात्? सर्वपरिदानात्, सर्वावस्थस्य ब्राह्मणस्यायं प्रतिषेध उक्तः, न दर्शपूर्णमासगतेनैव नावगोरणादि कर्तव्यम् इति. ननु प्रकरणाद् दर्शपूर्णमासधर्मो ऽयम्. सत्यं प्रकरणात्, एवं वाक्येनावगुरमाणस्य धर्मः, वाक्यं च प्रकरणाद् बलीयः.
ननु जञ्जभ्यमानस्येव प्रकरणे निवेशो भवेत्. नेत्य् उच्यते, तत्र फलं कल्पनीयम्, इह कॢप्तम्. अस्ति ह्य् अत्र विधायकविभक्तिः - शतेन यातयात्, सहस्रेण यातयात्, स्वर्गं लोकं प्रजानीयाद् इति, तस्माद् उत्कर्ष एवंजातीयकस्येति.
नोतेस्:
*{3।406: तैत्.स्. 2.6.10.1}*
*{3।407: ए2: 4,387; ए4: 4,521; ए6: 1,221}*
प्रागपरोधान् मलवद् वाससः
दर्शपूर्णमासयोः श्रूयते - मलवद् वाससा न संवदेत्, नास्या अन्नम् अद्याद् इति{*3।408*}. तत्र संदेहः - किं मलवद् वाससा सह दर्शपूर्णमासाङ्गस्य संवादस्य प्रतिषेधः, उत पुरुषस्य सर्वत्र प्रतिषेध इति. किं प्राप्तम्? प्रकरणाद् दर्शपूर्णमासयोः प्रतिषेधविधिः.
एवं प्राप्ते ब्रूमः - मलवद् वाससा सह संवाद उत्कृष्येत, प्रकरणात्. कस्मात्? प्रागपरोधात्. एवं श्रूयते - यस्य व्रत्ये ऽहनि पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेतेति{*3।409*}. पत्न्या च सह संवादो ऽध्वर्योर् दर्शपूर्णमासयोर् अस्ति - पत्नि पत्न्य् एष ते लोक इति{*3।410*}, प्रसज्यमानः प्रतिषिध्येत, स चाप्राप्त [326]{*3।411*} एव प्रागपरोधाद् अपनीयतां यागम् अनुतिष्ठताम्, कथं संवादः प्रसज्येत? यतः प्रतिषेधम् अर्हेत्. तस्माद् उत्कृष्येत मलवद् वाससा सह संवादः.
नोतेस्:
*{3।408: तैत्.स्. 2.5.1.5-6}*
*{3।409: तैत्.ब्र्. 3.7.1.9}*
*{3।410: मैत्.स्. 1.4.3}*
*{3।411: ए2: 4,389; ए4: 4,524; ए6: 1,222}*
अन्नप्रतिषेधाच् च
अन्नप्रतिषेधश् च भवति - नास्या अन्नम् अद्याद् अभ्यञ्जनं वै स्त्रिया अन्नम् इत्य्{*3।412*} उपगमनप्रतिषेध एष{*3।413*} विधीयते, स च प्रकरणे न प्रसक्त इति, प्रकरणाद् उत्कृष्टः पुरुषधर्म एष निश्चीयते.
नोतेस्:
*{3।412: तैत्.स्. 2.5.1.6}*
*{3।413: ए2,4: एव}*
अप्रकरणे तु तद्धर्मस् ततो विशेषात्
अनारभ्य श्रूयते - तस्मात् सुवर्णं हिरण्यं भार्यं दुर्वर्णो ऽस्य भ्रातृव्यो भवतीति{*3।414*}. सुवाससा भवितव्यं रूपम् एव बिभर्तीति. तत्र किं प्रकरणधर्म उत पुरुषधर्म इति संशयः. अत्रोच्यते - अप्रकरणे तु तद् धर्मः, ततो विशेषात्, पुरुषधर्म एवंजातीयकः स्यात्. कुतः? ततः प्रकरणाधीताद्{*3।415*} विशेषो ऽस्य, नायं प्रकरणाधीतः. यद्य् अप्रकरणे समाम्नातः, सर्वप्रकरणधर्मः स्यात्. अप्रकरणे समाम्नानं न कंचिद् विशेषं कुर्यात्. तस्माद् एवंजातीयकः पुरुषधर्म इति.
नोतेस्:
*{3।414: तैत्.ब्र्. 2.2.4.6}*
*{3।415: ए1 गिब्त् प्रकरणाधीताद् इन् क्लम्मेर्न्}*
अद्रव्यत्वात् तु शेषः स्यात्
तुशब्दः पक्षव्यावृत्तौ. न पुरुषधर्मो भवेत्, अग्निहोत्रादीनां शेषः स्यात्. कस्मात्? अद्रव्यत्वात्, नात्र द्रव्यदेवतं श्रूयते, यच्{*3।416*} छ्रवणात्, भार्यं यष्टव्यम् इति परिकल्प्येत. असति तु द्रव्यदेवतासंबन्धे विभर्तिर् अयं धारणावचनः संस्कारवाची, [327]{*3।417*} संस्कारश् च शेषभूतस्यावकल्पते नान्यथा, तस्मात् कर्मणाम् अग्निहोत्रादीनां शेषः. एवं सुवाससा भवितव्यम् इति.
नोतेस्:
*{3।416: ए2,4: यच्}*
*{3।417: ए2: 4,392; ए4: 4,602; ए6: 1,222}*
वेदसंयोगात्
आध्वर्यवम् इति वेदसंयोगः शेषभूतस्य युज्यते, शेषभूतो ह्य् अध्वर्युणा क्रियते, न पुरुषधर्मः, दर्शपूर्णमासादीनां हि कर्मणां साङ्गानाम् अङ्गानाम् अर्ध्वयुः कर्ता. तस्माद् अपि कर्मधर्मा एवंजातीयका इति.
द्रव्यसंयोगाच् च
द्रव्यपरश् चात्र भवति निर्देशः - सुवर्णं भार्यम् इति द्वितीयार्थसंयोगात्. द्रव्यसंस्कारश् च कर्मशेषपक्षे प्रयोजनवान्, अनर्थकः पुरुषधर्मे.
स्याद् वास्य संयोगवत् फलेन संबन्धस् तस्मात् कर्मैतिशायनः
स्याद् वा फलेनैवंजातीयकानां संबन्धः पुरुषधर्म इत्य् अर्थः, सुवर्णस्य वाससो वा धर्मो भवन् निष्प्रयोजनः स्यात्. ननु संस्कृतेन सुवर्णेन वाससा च कर्म सेत्स्यति. नैतद् एवम्, सुवर्णस्याङ्गं न कर्मण उपकुर्यात्. श्रुत्यादीनाम् अभावान् न कर्माङ्गम्. तस्मात् दुर्वर्णो ऽस्य भातृव्यो भवतीत्येवमादिना एवंजातीयकानां फलेन संबन्धः.
ननु वर्तमानापदेशो ऽयम्. सत्यम् एवम् एतत्, आनर्थक्यपरिहाराय फलचोदनया संबन्ध एषि-तव्यो भवति. अन्यस्माच् चैषितव्याद् एकवाक्यगतस्य विपरिणामो{*3।418*} लघीयान्. कुतः? [328]{*3।419*} प्रत्यक्षा तेनैकवाक्यता, परोक्षान्येन, विपरिणामश् च वर्तमानकालस्याविवक्षा, संबन्धस्य च तात्पर्याध्यवसानम्. तस्माद् एवंजातीयकः प्रधानकर्मोपदेशः स्यात्, यथा प्रजापतिव्रतानां फलेन संबन्धः. एतावता हैनसावियुक्तो भवतीति. एवम् अत्रापि द्रष्टव्यम्. तस्माद् एवंजातीयकः पुरुषधर्म इति.
नोतेस्:
*{3।418: ए2,4: विपरिमाणो}*
*{3।419: ए2: 4,394; ए4: 4,610; ए6: 1,223}*
शेषो ऽप्रकरणे ऽविशेषात् सर्वकर्मणाम्
इह कर्मसंयुक्ता होमा जयादय उदाहरणम्. येन कर्मणेत्सत्{*3।420*}, तत्र जयाञ् जुहुयात्, राष्ट्रभृतो जुहोतीति, अभ्यातानाञ् जुहोतीति{*3।421*}. तत्रैते किं सर्वकर्मणां कृष्यादीनां शेषभूताः, उत वैदिकानाम् अग्निहोत्रादिनाम् इति. शेषत्वं तु निर्ज्ञातकर्मसंबन्धात्, फलाश्रवणाच् च. किं तावत् प्राप्तम्? सर्वकर्मणां शेषाः, विशेषान् अभिधानाद् इति.
नोतेस्:
*{3।420: ए2,4,6: कर्मणेर्त्सेत् (कर्मणा ईर्त्सेत्)}*
*{3।421: व्ग्ल्. तैत्.स्. 3.4.6.2; दzउ औछ् झ, üब्स्., ब्द्.1, स्.516}*
होमास् तु व्यतिष्ठेरन् नाहवनीयसंयोगात्
न चैतद् अस्ति - सर्वकर्मणां कर्षणादीनाम् अप्य् अङ्गभूता इति. होमा एते, अतो व्यवतिष्ठेरन्, आहवनीयसंयोगो भवति होमेषु. यदाहवनीये जुहोति तेन सो ऽस्याभीष्टः प्रीतो भवतीति{*3।422*}. तेन यस्याहवनीयः, तस्यैते ऽङ्गम्. न [329]{*3।423*} च कृष्यादीन्य् आहवनीये वर्तन्ते. न चैषां गार्हपत्यो ऽस्ति, यतः प्रणीत आहवनीयः स्यात्. तस्मान् न कर्मणादीनां जयादयः.
नोतेस्:
*{3।422: तैत्.ब्र्. 1.1.10.5}*
*{3।423: ए2: 4,396; ए4: 4,617; ए6: 1,224}*
शेषश् च समाख्यानात्
इतश् च पश्यामो वैदिकानां शेषभूता इति. कुतः? सामख्यानात्, आध्वर्यवम् इति हि समाख्याते वेदे जयादयः समाम्नाताः सन्तो ऽध्वर्युणा करिष्यन्ते. कर्षणादिष्व् अध्वर्योर् अभावाद् अनध्वर्युणापि क्रियमाणाः समाख्यां बाधेरन्, तस्माद् वैदिकानां शेषभूता इति.
दोषात् त्विष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिके न दोषः स्यात्
अस्त्य् अश्वप्रतिग्रहेष्टिः - वरुणो वा एतं गृह्णाति, यो ऽश्वं प्रतिगृह्णाति, यावतो ऽश्वान् प्रतिगृह्णीयात्, तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इति{*3।424*}. तत्र संदेहः - किं लौकिके ऽश्वप्रतिग्रह इष्टिः, अथ वैदिक इति. कः पुनर् लौकिको ऽश्वप्रतिग्रहः? को वा वैदिक इति. लोके भिक्षमाणो वाभिक्षमाणो वा यत्राश्वं लभते, तत्र लौकिकाश्वप्रतिग्रहः. वैदिको ऽपि पौण्डरीके ऽश्वसहस्रं दक्षिणा ज्योतिष्टोमे गौश् चाश्वश् चेति.
तत्रोच्यते - वैदिकत्वसामान्याद् वैदिक इति प्राप्ते. [330]{*3।425*} उच्यते - दोषात् त्विष्टिर् लौकिके स्यात्. दोषो हि श्रूयते - वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातीति, स चायम् अनुवादो यत्र दोषः, तत्रेति, स च लौकिके ऽश्वप्रतिग्रहे शूद्राद् अन्यस्माद् वा पापकर्मणः कृतो भवतीत्य् उपपद्यते. दोषसंयोगाल् लौकिक इति गम्यते. आह न दोषसंकीर्तनं प्रायश्चित्तविषयविशेषणम्, किं तु प्रायश्चित्त-स्तुत्यर्थेन. उच्यते - दोषनिर्धातार्थे सत्य् एवं स्यात्, वरुणप्रमोचनम् इदं कर्म, तल् लौकिके भवितुम् अर्हति, लोके वरुणग्रहणस्य विद्यमानत्वात्. वैदिके त्व् अश्वप्रतिग्रहे तन् न स्यात्, शास्त्राद् धि वचनेन{*3।426*} तस्य कर्तव्यतावगम्यते. यदि च ततः पापं स्यात्, न तस्य कर्तव्यतावगम्येत, अकर्तव्यं हि पापफलम्.
ननु वैदिके ऽपि प्रतिग्रहे ऽप्रतिग्राह्यात् प्रतिगृह्णतः पापम् अस्ति. उच्यते - भवेद् एवम्, यदि प्रतिग्रहस्य कर्तुर् इष्टिर् भवेत्, सा तु खलु यथा हेतुकर्तुः, तथोत्तराधिकरणे वक्ष्यामः. तस्मान् न वेदचोदिते ऽश्वप्रतिग्रहे, इष्टिर् इत्य् एतावद् इहाधिकरणे सिद्धम्.
नोतेस्:
*{3।424: तैत्.स्. 2.3.12.1}*
*{3।425: ए2: 4,398; ए4: 4,620; ए6: 1,224}*
*{3।426: ए1 गिब्त् वचनेन इन् क्लम्मेर्न्}*
अर्थवादो ऽवानुपपातात् तस्माद् यज्ञे प्रतीयेत
न चैतद् अस्ति, यद् उक्तम् - यः शूद्राद् अन्यस्माद् वा पापकृतो लोके ऽश्वं प्रतिगृह्णीयात् स एताम् इष्टिं निर्वपेत्. स हि वरुणगृहीत इत्य् उच्यते, जलोदरेण यो गृहीतः, यस्योदरं जलवृद्ध्या श्वयति. जलोदरम् इत्य् एव लोके तत् प्रसिद्धम्. न च तस्याश्वप्रतिग्रहो लौकिको निदानम् इति प्रति[331]{*3।427*}ज्ञायते. न चानेन विधीयते. तस्मान् नाश्वप्रतिग्रहाज् जलोदरोपपातः.
अथ पापं वरुणशब्देनोच्यते, वृणीत इत्य् एषो ऽभिप्राय इति. तदा प्रसिद्धौ त्यक्तायां क्लेशमात्रम्, वृण्वद् वरुणशब्देनोच्यते, तत्र याज्ञे ऽपि प्रतिग्रहे वरुणगृहीतः स्यात्, रक्षणपोषणविचिकित्सादिना क्लेशेन नैष पक्षो व्यवतिष्ठेत - लौकिके ऽश्वप्रतिग्रह इति, प्रसिद्धिश् च बाध्येत. तस्माद् अर्थवाद एषः, यावद्{*3।428*} वरुणगृहीतस्य वरुणोन्मोचने श्रेयः, तावद् एतेत्य् उपमानेनैषा स्तुतिः. यो ऽस्य प्रतिग्रहः, तद् वरुणग्रहणम् इव, येष्टिः, सा तद् उन्मोचनीव, यथा वरुणगृहीतेनोन्मोचनम् अवश्यकर्तव्यम्, तादृग् एवैतद् इति, तस्माद् यज्ञे प्रतीयेत. लौकिके हि फलं कल्पनीयम्, वैदिके यस्मिन्न् अश्वप्रतिग्रहः, तस्याङ्गभूता भविष्यति. तत्र प्रयोगवचनेन सहैकवाक्यता संबन्धाद् अवकल्प्यमाना, परोक्षायाः फलवचनेन सहैकवाक्यताया लघीयसीति युक्तम् इष्टिर् वैदिके दान इति.
नोतेस्:
*{3।427: ए2: 4,403; ए4: 4,626; ए6: 1,225}*
*{3।428: ए1: यावत}*
अचोदितं च कर्मभेदात्
यावतो ऽश्वान् प्रतिगृणीयात्, तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इति{*3।429*}. तत्रैतत् समधिगतम् - वैदिके ऽश्वप्रतिग्रह इष्टिर् इति. अथेदानीं संदिह्यते - किं प्रतिग्रहकर्त्रा कर्तव्या, यस्मै दीयते, उत हेतुकर्त्रा, यो ददातीति. किं प्राप्तम्? अचोदितं च कर्मभेदात्, न दानस्य कर्तुर् इष्टिश् चोद्यते, प्रतिग्र्हकर्तुस् ताम् अवगच्छामः - यावतो ऽश्वान् [332]{*3।430*} प्रतिगृह्णीयात् तावतश् चतुष्कपालान् वारुणान् निर्वपेद् इति, तस्मात् प्रतिग्रहीत्रर्त्विजा कर्तव्येति.
नोतेस्:
*{3।429: तैत्.स्. 2.3.12.1}*
*{3।430: ए2: 4,407; ए4: 4,630; ए6: 1,226}*
सा लिङ्गाद् आर्त्विजे स्यात्
नैषा प्रतिग्रहकर्तुः, किं तर्हि हेतुकर्तुः स्यात्. कुतः? लिङ्गात्. किं लिङ्गम्? पूर्वपदानाम् उत्तरैः पदैर् यथार्थम् अभिसंबन्धः. इदं श्रूयते - प्रजापतिर् वरुणायाश्वम् अन्यद् इति{*3।431*}, प्रजापतिर् अश्वस्य दाता कीर्तितः, वरुणः प्रतिग्रहीता, स स्वां देवताम् आर्च्छद् इति. स इति सापेक्षं पूर्वप्रकृतं वाक्यशेषम् अपेक्षते, स इति प्रजापतिं प्रतिनिर्दिशतीति तेन सहैक्यवाक्यतां याति. सामानाधिकरण्याच् च प्रजापतेर् एव प्रतिनिर्देशो ऽवकल्पते, न तु वरुणस्य, वैयधिकरण्यात्. स पर्यदीर्यत इत्य् एषो ऽपि प्रजापतिम् एव प्रतिनिर्दिशति पूर्वप्रकृतम्, तेन च सहैकवाक्यतां याति. स एवैतं वारुणं चतुष्कपालम् अपश्यद् इति प्रजापतिर् एवेति, निरवपत्{*3।432*} प्रजापतिर् एवेति, ततो वै स वरुणपाशाद् अमुच्यत प्रजापतिः. वरुण एतं{*3।433*} गृह्णातीति हेत्वपदेशो ऽयम्, यस्माद् एव प्रजापतिर् वरुणायाश्वं दत्त्वा परिदीर्णः, तस्माद् यो ऽश्वं प्रति गृह्णाति प्रयच्छति{*3।434*} तं वरुणो गृह्णाति, स परिदीर्यत इति. यतस् तु वारुणेन प्रतिमुक्तः, तस्माद् अन्येनाप्य् अश्वं प्रयच्छता वारुणो निर्वप्तव्य इत्य् अश्वस्य दातुर् वारुणीष्टिः प्रशस्यते, कर्तव्यानेनाख्यातेन. तस्माद् अश्वं दत्त्वा वारुणीम् इष्टिं निर्वपेद् इति.
आह, ननु यो ऽस्वं प्रतिगृह्णाति स निर्वपेद् इत्य् उच्यते. एवं सत्य् अन्यथोपक्रान्ते वाक्ये ऽन्यथोपसंहृत उपक्रमो ऽप्य् अनर्थकः स्यात्, उपसंहारो ऽपि. तस्माद् उपक्रमे वा शब्दार्थ उपसंहारवशेन कल्पनीयः, उपसंहारे वोपक्रमवशेन. तत्र [333]{*3।435*} प्रजापतिर् वरुणायाश्वम् अनयद् इति, वरुणाद् अश्वं प्रत्यगृह्णाद् इत्य् उपसंहारानुरोधेन कल्प्येत, यद् वोपक्रमवशेनोपसंहारम्, यो ऽश्वं प्रतिगृह्णातीति, यो ऽश्वं प्रतिग्राहयतीति. तत्र - मुख्यं वा पूर्वं चोदनाल् लोकवद् इति{*3।436*} प्रथमम् अनुग्रहीतव्यं विरोधाभावात्. पश्चात् तनं तु विरोधाल् लक्षणया कल्पनीयम्.
अपि च, प्रजापतिर् वरुणायाश्वम् अनयद् इति वरुणाद् अश्वं प्रत्यगृह्णाद् इति बह्वसमञ्जसं कल्पयितव्यम्. प्रतिगृह्णातीत्य् एष शब्दः, प्रतिग्राहयतीत्य् एतम् अर्थं शक्नोति यया कयाचिच् छक्त्या वक्तुम्, यो हि तद् आचरति, येन च{*3।437*} क्रिया प्रणाड्यापि सिध्यति, स तस्याः क्रियायाः कर्तेति शक्यते वदितुम्, यथा षड्भिर् हलैः कर्षतीति संविधानं कुर्वन् विलेखनम् अकुर्वन्न् अप्य् उच्यते, तत्समर्थम् आचरतीति. एवम् इहापि स प्रतिग्रहसमर्थम् आचरति यो ददाति{*3।438*}. तस्माद् ददत् प्रतिगृह्णातीति शक्यते वदितुम्. तस्माद् अध्यवधार्येदम् अवकॢप्तम्. ददत् प्रतिगृह्णातीत्य् उच्यते, तस्य च वारुणीष्टिर् इति.
नोतेस्:
*{3।431: तैत्.स्. 2.3.12.1}*
*{3।432: ए2,4: तं निरवपत्}*
*{3।433: ए2,4: वरुणो वा एतं}*
*{3।434: ए1 गिब्त् प्रयच्छति इन् क्लम्मेर्न्}*
*{3।435: ए2: 4,409; ए4: 4,633; ए6: 1,226}*
*{3।436: म्स् 12.2.23 (व्.ल्.: पूर्वचोदनाल्)}*
*{3।437: ए2 ओम्. च}*
*{3।438: ए1 गिब्त् यो ददाति इन् क्लम्मेर्न्}*
पानव्यापच् च तद्वत्
इदं समामनन्ति - सोमेन्द्रं चरुं निर्वपेच् छ्यामाकं सोमवामिन इति{*3।439*}. तत्र संदेहः - लौकिकस्य सोमपानस्य वमने सौमेन्द्रश्{*3।440*} चरुः, उत वैदिकस्येति. किं लौकिकं सोमपानम्? किं च वैदिकम्? उच्यते - वैदिकं सोमपानं ज्योतिष्टोमे तद्विकृतिषु च, लौकिकं सोमपानं यत् सप्तरात्रेषु [334]{*3।441*} दशरात्रेषु धातुसाम्यार्थम्{*3।442*} आसेव्यमाने सोमे. किं तावत् प्राप्तम्? पानव्यापच् च तद्वत्, लौकिके वमन इष्टिर् भवितुम् अर्हति, न वैदिके, तद्वद् इति पूर्वः पक्षः प्रतिनिर्दिष्टः, यथा तत्र दोषसंयोगेन श्रवणात्, लौकिके ऽश्वप्रतिग्रह इत्य् उक्तम्, एवम् इहापि दोषसंयोगेन श्रवणं भवति, इन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं पिबतीति{*3।443*} लोके धातुसाम्यार्थम् आसेविते वमनेन विनष्ते धातुसाम्यव्यापदा, इन्द्रियेण व्यृद्धिर् उपपद्यते, शास्-त्राद् धि वैदिके न दोषः स्यात्. तत्र शेषः पातव्य इति शब्दाच् चोदिते निर्वृत्ते नास्ति दोषः. यद्य् अपि वम्यते, तथापि पानक्रिया तत्र निर्वर्तिता, कृतो वचनार्थ इति न दोषः स्यात्. तस्माल् लौकिकस्य सोमपानस्य व्यापदि सौमेन्द्रः{*3।444*} स्यात्.
नोतेस्:
*{3।439: तैत्.स्. 2.3.2.7}*
*{3।440: ए2,4: सोमेन्द्रश्}*
*{3।441: ए2: 4,414; ए4: 4,639; ए6: 1,227}*
*{3।442: ए2,4: च धातुसाम्यार्थम्}*
*{3।443: ए2: सोम वमति, इति, ए4: सोमं वमित्य् इति}*
*{3।444: ए2,4: सोमेन्द्रः}*
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात्
वैदिकस्य पानस्य व्यापदि भवितुम् अर्हति, न लौकिकस्य. कस्मात्? दोषात्, दोषसंबन्धो ऽत्र श्रूयते - इन्द्रियेण वा एष वीर्येण व्यृध्यत इति. लौकिके पुनर् धातुसाम्याद्यर्थं क्रियमाणे न किंचिद् दुष्यति, वमनायैव हि तं पिबन्ति लोके. अथाप्य् अयम् अर्थवादः, तथापि फलकल्पनापरीहाराय वैदिक एवेति कल्पना न्याय्या.
तत् सर्वत्राविशेषात्
तद् एतत् सोमपानव्यापदि सौमेन्द्रं{*3।445*} कर्म, सर्वत्र वमने स्यात्, आर्त्विजे याजमाने च. कुतः? अविशेषात्, न विशेषः [335]{*3।446*} कश्चिद् आश्रीयते ऽस्य वमने स्यात्, नास्येति, तस्मात् सर्वत्र भवेत्.
नोतेस्:
*{3।445: ए2,4: सोमेन्द्रं}*
*{3।446: ए2: 4,416; ए4: 4,649; ए6: 1,228}*
स्वामिनो वा तद् अर्थत्वात्
स्वामिनोः वा वमने स्यात्. कुतः? तद् अर्थत्वात्, तद् अर्थं कर्म यजमानार्थम्{*3।447*}, यत्र सोमो वम्यते, यत् त्व् अत्र सौमेन्द्रं{*3।448*} कर्म. तद् अपि तद् अर्थम् एव. इदं हि सोमवामिन उपकाराय श्रूयते, तत् सोमवामिनः, यजमानस्योपकर्तुं{*3।449*} शक्नोति नार्त्विजः, न हि तद् ऋत्विग् अर्थं कर्म, यत्र सोमो वम्यते. अथोच्यते - सोमवामिनो ऽध्वर्योर् होतुर् वात्मीया ऋत्विजः, तदीयेष्व् अग्निषु निर्वर्तयिष्यन्तीति. तथा सति यदि वा व्यृद्धसोमस्य कर्मणो नाङ्गम्, न सोमवामिनो ऽध्वर्योर् होतुर् वा, तत्रात्यन्तगुणभूता अध्वर्य्वादयः स्वैर् ऋत्विग्भिः कारयन्तो न फलं प्राप्नुवन्ति. तद् अर्थं च क्रियमाणं न यजमानस्योपकारे वर्तत इति न ऋत्विजो वमने क्रियेत.
नोतेस्:
*{3।447: ए1 गिब्त् यजमानार्थम् इन् क्लम्मेर्न्}*
*{3।448: ए2,4: सोमेन्द्रं}*
*{3।449: ए2,4: सदुपकर्तुं}*
लिङ्गदर्शनाच् च
लिङ्गं च भवति, यजमानस्य सोमवामिन इति. कथम्? सोमपीथेन वा एष व्यृध्यते यः सोमं वमतीति. यजमानः, सोमसंस्कारे विनष्टे विगुणम् अस्य कर्मेति व्यृध्येत, न कथंचिद् ऋत्विजो व्यृद्धिः. ऋत्विजो यस्य सोमं वमन्तीति वमनेन संबन्धः स्यात्, न यः सोमं वमतीति. तस्माद् अपि पश्यामो यजमानस्य वमने सौमेन्द्रम्{*3।450*} इति.
[336]{*3।451*}
नोतेस्:
*{3।450: ए2,4: सोमेन्द्रम्}*
*{3।451: ए2: 4,419; ए4: 4,662; ए6: 1,228}*
सर्वप्रदानं हविषस् तदर्थत्वात्
स्तो दर्शपूर्णमासौ, तत्र सामाम्नायते - यद् आग्नेयो ऽष्टाकपालो ऽमाव् आस्यायां पौर्णमास्यां चाच्युतो भवतीति{*3।452*}. तत्र संदेहः - किं कृत्स्नं हविः, अग्नये प्रदातव्यम्, उत शेषयितव्यं किंचित्, किंचिद् दातव्यम् इति. किं प्राप्तम्? कृत्स्नं हविः प्रदीयेत. कुतः? तदर्थत्वात्. पुरोडाश आग्नेयः कर्तव्य इति वचनम्. तस्मात् सर्वं प्रदातव्यम् इति.
नोतेस्:
*{3।452: तैत्.स्. 2.6.3.3}*
निरवदानात् तु शेषः स्यात्
निष्कृष्यावदानं निरवदानम्. तद् धि श्रूयते - द्विर् हविषो ऽवद्यतीति. अपरम् अपि वचनम् - द्व्यवदानं जुहोतीति, तेन{*3।453*} द्व्यवदानमात्रं होतव्यम्, अन्यत् परिशेषणीयम्.
नोतेस्:
*{3।453: ए2 ओम्. तेन}*
उपायो वा तदर्थत्वात्
न चैतद् अस्ति - द्व्यवदानमात्रं होतव्यम् इति, यज् जुहोति, तद् द्विर् अवखण्डनेन संस्कर्तव्यम् इति, होतव्ये द्विर् अवखण्डमात्रं विधीयते, नाद्विर् अवखण्डितस्य होमः प्रतिषिध्यते, कृत्स्नं च होतव्यम् इति तद् एवं न्याय्यम्, नान्यथा.
कृतत्वात् तु कर्मणः सकृत्स्याद् द्रव्यस्य गुणभूतत्वात्
उच्यते - यदा द्विर् अवखण्डनविषिष्टं होमे श्रुतम्, तदा सकृद् [337]{*3।454*} अवदानं{*3।455*} यावच् छ्रुतं{*3।456*} तत् सर्वं कृतम्, तदा नापरं द्रव्यम् अस्तीति पुनर् यागो नावर्तितव्यः. कथं? तद् धि द्रव्यं यागनिर्वृत्त्यर्थम्, न द्रव्यं यागेन संबन्धयितव्यम् इति. यदि हि यागेन हविः संबन्धयितव्यं स्यात्, ततो यागेन द्व्यवदाने संबन्धिते, अपरम् अपि संबन्धनीयम् अस्तीति, तत्संबन्धार्थं पुनर् याग आवर्तेत. न तु यागो द्रव्यसंबन्धार्थः. किं तर्हि, द्रव्यं यागे गुणभूतम्, यागः कथं निर्वृत्तिम् उपेयाद् इति द्रव्यम् उपादीयते. तेन निर्वृत्ते यागे सिद्धे च पुरुषार्थे{*3।457*} न नियोगेन गुणानुरोधेन प्रधानावृत्तिर् युक्तेति.
कथं न द्रव्यं प्रधानम्, येनावृत्तिर् त भवेत्. यतो यागात् फलम्, भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति. न च यागेन द्रव्यस्योपकारो निर्वर्त्यते प्रत्यक्षः कश्चित्, तस्माद् द्व्यवदानं हुत्वा शेषयितव्यम् इति. यत् तूक्तम् - आग्नेयं हविर् इतिवचनात्, सर्वं होतव्यम् इति गम्यत इति, तत्रानुमानिको होमसंबन्धः, इह तु प्रत्यक्षो द्विर् अवदाने. अपि चाकृत्स्नसंबन्धे ऽपि तद् धितस्योपपत्तिः, ततो ग्रहीतव्यम् इति. सामान्यं खल्व् आग्नेय इति द्व्यवदानं जुहोतीति विशेषः. तस्माच् छेषयितव्यं किंचिद् इति.
नोतेस्:
*{3।454: ए2: 4,422; ए4: 4,669; ए6: 1,229}*
*{3।455: ए2,4: सकृद् द्व्यवदानेन}*
*{3।456: ए1 गिब्त् यावच् छ्रुतं इन् क्लम्मेर्न्}*
*{3।457: ए2,4: च कथं पुरुषार्थे}*
शेषदर्शनाच् च
शेषाद् इडाम् अवद्यति शेषात् स्विष्टकृतं यजतीत्य् अनुवादाद् अस्ति शेष इति पश्यामः.
[338]{*3।458*}
नोतेस्:
*{3।458: ए2: 4,433; ए4: 4,681; ए6: 1,230}*
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात्
स्तो दर्शपूर्णमासौ, तत्र शेषकार्याणि, ऐडप्राशित्रसौविष्टकृदादीनि{*3।459*}. तत्र संदेहः - किं हविषो हविषः कर्तव्यानि, उतैकस्माद् धविष इति. किं प्राप्तम्? अप्रयोजकत्वाद् एकस्मात् क्रियेरन्, अप्रयोजकानि शेषकार्याणि हविषाम्. यदि शेषकार्यैः प्रयुक्तानि, भवेयुः सर्वाणि प्रयुक्तानीति सर्वेभ्यः क्रियेरन् अन्यथार्थानि त्व् एतानि, नावश्यं शेषकार्येषु विनियोक्तव्यानि. संनिधानात् तु यतः - कुतश्चिद् अनुष्ठातव्यानि, शेषो हि साधनम् अमीषाम् इति.
नोतेस्:
*{3।459: ए2,4: ऐडप्राशित्रसौविष्टकृतादीनि}*
संस्कृतत्वाच् च
सकृच् चैवंजातीयकेन शेषकार्येण संस्कृतं प्रधानम् इति कृत्वा नापरस्माद् अपि कर्तव्यम् इति.
सर्वेभ्यो वा कारणाविशेषात्, संस्कारस्य तदर्थत्वात्
सर्वेभ्यो वा हविर्भ्यः शेषकार्याणि कर्तव्यानि. कुतः? कारणाविशेषात्, यद् एकस्य हविषः शेषकार्यक्रियायां कारणम्, तत् सर्वेषाम्. स हि शेषः प्रतिपादयितव्यः, यस्यैव न प्रतिपाद्यते, तस्य तेन संस्कारेण वर्जनं स्यात्, तस्मात् सर्वेभ्यः कर्तव्यानीति.
लिङ्गदर्शनाच् च
लिङ्गं च दृश्यते - देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वह [339]{*3।460*} इति, सो ऽब्रवीद् वरं वृणै भागो मे ऽस्त्व् इति, वृणीष्वेति ते ऽब्रुवन्, सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति वीप्सादर्शनम्. तस्मात् सर्वेभ्यः शेषकार्याणीति.
नोतेस्:
*{3।460: ए2: 4,435; ए4: 4,686; ए6: 1,230}*
एकस्माच् चेद् यथाकाम्यविशेषात्
अथ कृत्वाचिन्ता. यदैकस्माद् भवेयुः{*3।461*}, किं तदा यतः - कुतश्चिद् उत प्रथमाद् इति. किं प्राप्तम्? यतः कुतश्चिद् इति. कुतः? न कश्चिद् विशेष आश्रीयत इति. तस्माद् अनियम इति.
नोतेस्:
*{3।461: ए2,4: कर्तव्यानि भवेयुः}*
मुख्याद् वा पूर्वकालत्वात्
मुख्याद् वा कर्तव्यानि. कुतः? पूर्वकालत्वात्, ततः कर्तव्येषु नास्ति निमित्तविघातः, असति निमित्तविघाते नैमित्तिकं कर्तव्यम् इति. ततः कृतेषु द्वितीयादीनां निमित्तविधात इत्य् अक्रिया. तस्मान् मुख्याद् एव क्रियेरन्न् इति.
भक्षाश्रवणाद् दानशब्दः परिक्रये
दर्शपूर्णमासयोः श्रूयते - इदं ब्रह्मणः, इदं होतुः, इदम् अध्वर्योः, इदम् अग्नीध इति{*3।462*}. तत्र संदेहः - किम् अयम् [340]{*3।463*} ऋत्विजां विभागः परिक्रयाय, उत भक्षणायेति. किं प्राप्तम्? परिक्रयार्थो विभागः. कुतः? भक्षाश्रवणात्, न श्रूयते - भक्षितव्यम् इति. य एव श्रुतस्योत्सर्गे दोषः, स एवाश्रुतपरिकल्पणायाम्. कर्मकरेभ्यश् च दीयते, तस्मात् परिक्रय एषः.
नोतेस्:
*{3।462: तैत्.ब्र्. 3.3.8.8}*
*{3।463: ए2: 4,436; ए4: 4,701; ए6: 1,231}*
तत्संस्तवाच् च
एषा वै दर्शपूर्णमासयोर् दक्षिणेति दक्षिणासंस्तवाच् च परिक्रयार्थं मन्यामहे.
भक्षार्थो वा द्रव्ये समत्वात्
भक्षार्थ एष विभागः. कुतः? दानस्याभावात्. कथम् अभावः? प्रभवता हि शक्यं दातुम्,
नाप्रभवता. कथं न प्रभुत्वम्? संकल्पितं हि यजमानेन, देवताया एतद् इति. न च देवतायै संकल्पितेन शिष्टाः स्वेनेव व्यवहरन्ति. तस्माच् छिष्टाचारम् अनुवर्तमानेनाशक्यं प्रभवितुम्, तस्मान् न परिक्रयः.
अथ यद् उक्तम् - न श्रूयते, भक्षयितव्यम् इति, यावांश् च श्रुतस्योत्सर्गे दोषः, तावान् अश्रुतपरिकल्पनायाम् इति. उच्यते - इदं ब्रह्मण इत्येवमादिभिर् ब्रह्मादीनाम्, भागैर् अभिसंबन्धः, तत्र भागा ब्रह्मादीनाम् उपकुर्युर् ब्रह्मादयो वा भागानाम्. ब्रह्मादिभिर् भागानाम् उपकुर्वद्भिर् न किंचिद् दृष्टम् अस्ति, बागैस् तु ब्रह्मादीनाम् उपकारकैः शक्यते केनचित् प्रकारेण दृष्ट उपकारः कर्तुं भक्ष्यमाणैः. तस्माद् भक्षणाय विभाग इति. कः पुनर् उपकार इति चेत्. तृप्तानां कर्मशेषपरिसमापने सामर्थ्यं भवतीति.
[341]{*3।464*}
नोतेस्:
*{3।464: ए2: 4,439; ए4: 4,706; ए6: 1,231}*
व्यादेशाद् दानसंस्तुतिः
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0