मीमांसासूत्र (टीका सहित) · अध्याय 3.3
यद् उक्तम् - अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति, तन् न, सर्वेषां समन्त्रकं भक्षणम् इति, यथासमाम्नातश् च मन्त्रः स्यात्. नेन्द्रपीत इति सोम उच्यते. किं तर्हि? सवनम्, प्रातःसवनशब्देन सामानाधिकरण्यात्. ननु सोमे ऽपि षष्ठी. सत्यम् अस्ति षष्ठी, न तु तेन सामानाधिकरण्यम्. नासाव् इन्द्रेण सोमः पीतः, नापीन्द्राय दत्तः, अन्य एव पीतो दत्तो वा, स गत एव. न चातीतः समुदायो व्यपदिश्यते, [277]{*3।233*} प्रत्यक्षवचनो ह्य् अयं शब्दः. सवने तु न दोषः, इन्द्रपीतं भवति सवनम्, यत्रेन्द्रेण पीतम्. तस्माद् अनैन्द्रो ऽपीतसवने ऽन्तर्भवतीति शक्यते मन्त्रेण वदितुम्. शक्यते चेत् समानविधाने कथम् इव मन्त्रो न भविष्यति. भक्त्या ह्य् अपीतः पीत इत्य् उच्यते. एवम् एव ऐतिशायन आचार्यो मन्यते स्म. अस्माकम् अप्य् एतद् एव मतम्. आचार्यग्रहणम्, तस्माद् आगतम् इति तस्य संकीर्त्यर्थम्.
नोतेस्:
*{3।233: ए2: 4,195; ए4: 4,146; ए6: 1,190}*
श्रुतेर् जाताधिकारः स्यात्
ज्योतिष्टोमे श्रूयते - उच्चैर् ऋचः क्रियते, उच्चैः साम्ना, उपांशु यजुषा इति{*3।234*}. तत्र संदेहः - किं ऋगादिजातिम् अधिकृत्यैते शब्दाः प्रवृत्ताः, उत वेदम् अधिकृत्येति. किं तावत् प्राप्तम्? जाताधिकारः स्यात्. कुतः? श्रुतेः, एषां शब्दानां श्रवणाद् एव जातिं प्रतिपद्यामहे, तेनोपांशुत्वं जात्याधिकृतया संबध्यते, वेदानाम् अधिकारकः शब्दो नास्तीति. अपि च - ऋग्वेदव्यतिक्रान्तानाम् ऋचां यजुर्वेद उच्चैः प्रयोगो भविष्यति, इतरथा तस्या एव ऋच उभौ धर्मौ वैकल्पिकौ स्याताम्, तत्र पक्षे बाधः स्यात्. प्रकरणं चैवम् अनुगृहीतं भवति, इतरथा वेदसंयोगे सर्वस्मिन्न् अपि क्रताव् उपांशुत्वं स्यात्. तस्माज् जाताधिकारा एते शब्दा इति.
नोतेस्:
*{3।234: मैत्.स्. 3.6.5}*
वेदो वा प्रायदर्शनात्
वेदं वाधिकृत्येदम् उच्यते. कुतः? प्रायदर्शनात्. किम् इदं प्रायदर्शनाद् इति? वेदप्राये वाक्ये वेदोपक्रमे निगम्यमाना इमे शब्दाः श्रूयन्ते - प्रजापतिर् वा इदम् एक आसीत्, स तपो ऽतप्यत, तस्मात् तपस् ते पानात् त्रयो देवा असृज्यन्त - अग्निर् वायुर् आदित्यः, ते तपो ऽतप्यन्त तेभ्यस् ते पानेभ्यस् त्रयो वेदा असृज्यन्त. अग्नेर् ऋग्वेदो वायोर् यजुर्वेद आदित्यात् सामवेद इत्य् एवम् उपक्रम्य निगमन इदं श्रूयते - उच्चैर् ऋचा क्रियते, उच्छैः साम्ना, [279]{*3।235*} उपांशु यजुषेति. एतस्मात् कारणाद् एभिः प्रकृतैर् उपांश्वादि कर्तव्यम्, न जात्या ऋगादिभिर् इत्य् उच्यते. कुत एतद् अवगम्यते? वाक्योपसंहारे श्रुतत्वात्, यस्माद् इत एते वेदा जाताः, तस्माद् एतैर् उपांश्वादि कर्तव्यम् इति, ऋगादिभिर् अपि वेदवचनैर् एवोपसंहारेण भवितव्यम्. इतरथा वाक्यम् एव नावकल्पेत, तत्रानर्थका एव भवेयुः, तस्माद् वेदाधिकारा इति.
नोतेस्:
*{3।235: ए2: 4,200; ए4: 4,157; ए6: 1,191}*
लिङ्गाच् च
लिङ्गम् अप्य् अस्मिन्न् अर्थे भवति, यथा ऋगादयः शब्दाः शक्नुवन्ति वेदम् अभिवदितुम् इति, ऋग्भिः प्रातर्दिवि देव ईयते. यजुर्वेदेन तिष्ठति मध्ये अह्नः. सामवेदेनास्तमये महीयते. वेदैर् अशून्यैस् त्रिभिर् एति सूर्य इति{*3।236*}, द्वौ वेदौ संकीर्त्य, ऋक्शब्दं च त्रिषु पादेषु, चतुर्थे पाद उपसंहरति बहुवचनेन, वेदैर् अशून्यस् त्रिभिर् एति सूर्य इत्य् ऋक्शब्दं वेदवचनं दर्शयति. तस्माद् अपि पश्यामः. वेदाधिकारा एते शब्दा इति.
नोतेस्:
*{3।236: तैत्.ब्र्. 3.12.9.1}*
धर्मोपदेशाच् च न हि द्रव्येण संबन्धः
धर्मोपदेशश् च भवति साम्नः, उच्चैः साम्नेति, स वेदाधिकारपक्षे युज्यते. जाताधिकारे त्व् ऋच उच्चैस् त्वेन साम्न उच्चैस् त्वं सिद्धम्, नास्य सामद्रव्येण सह संबन्धो वेदितव्यः, तस्माद् अपि वेदाधिकारा इति.
त्रयीविद्याख्या च तद्विदि
त्रयी यस्य विद्या स त्रयीविद्यः, यस् त्रीन् वेदान् अधीते, स एवं प्रख्यायते{*3।237*}. त्रयीति चैष शब्दा ऋक्सामयजुःषु प्रसिद्धः, यद्य् [280]{*3।238*} ऋक्सामयजूंषीति त्रयो वेदा उच्यन्ते, एवं तद्विदि त्रयीविद्याख्या युज्यते, भवति च. तस्माद् वेदाधिकारा एते.
नोतेस्:
*{3।237: ए4 (fन्.): आख्यायते}*
*{3।238: ए2: 4,202; ए4: 4,166; ए6: 1,191}*
व्यतिक्रमे यथाश्रुतीति चेत्
अथ यद् उक्तम् - ऋग्वेदम् अतिक्रान्तानाम् ऋचां यजुर्वेदे ऽप्य् उच्चैस् त्वं भविष्यतीति, तत्र मत्पक्षे यथाश्रुतः प्रयोगो भविष्यतीति यद् उक्तम्, तत्परिहर्तव्यम् इति. आभाषान्तं सूत्रम्{*3।239*}.
नोतेस्:
*{3।239: ए2 हत् आभाषान्तं सूत्रम् गेक्लम्मेर्त्}*
न सर्वस्मिन् निवेशात्
नैष दोषः, सर्वस्मिन्न् ऋग्वेद उच्चैस् त्वं सर्वस्मिंश् च यजुर्वेद उपांशुत्वम्, तत्र यद्य् ऋग्वेदव्यतिक्रान्ताया ऋचो यजुर्वेद उपांशुत्वं भवतीति, नैतद् दूष्यति. वेदधर्मः सन्{*3।240*} ऋग्धर्म इति, वेदस्य च न धर्मद्वयेन संबन्धः.
नोतेस्:
*{3।240: ए2,4: स न}*
वेदसंयोगान् न प्रकरणेन बाध्येत
यद् उक्तम् - प्रकरणम् एवम् अनुगृहीतं भवतीति, वेदसंयोगाद् वाक्येन प्रकरणे बाध्यमाने न दोषो भविष्यति.
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः
अस्त्य् आधानम्, य एवं विद्वान् अग्निम् आधत्त इति{*3।241*}. तद् याजुर्वैदिकम्, तत्र सामगानम् आमनन्ति - य एवं विद्वान् वारवन्तीयं गायति{*3।242*}, य एवं विद्वान् यज्ञायज्ञीयं गायति, य एवं विद्वान् वामदेव्यं गायति{*3।243*} इति. तत्र संदेहः - किम् आधाने सामगानम् उच्चैः, उतोपांश्व् इति.
[281]{*3।244*} उच्चैर् इति प्राप्तम्. कुतः? सामवेदेनैतत् क्रियते यद् वारवन्तीयादिभिः, तस्माद् उच्चैर् एतानि सामानि गेयानीति.
एवं प्राप्ते ब्रूमः - गुणानुरोधेन वा मुख्यं व्यतिक्रमेत्, मुख्यानुरोधेन वा गुणम् इति, गुणो व्यतिक्रमितव्यो न्याय्यः, मुख्यश् चानुग्रहीतव्य इति. कुतः? मुख्यार्थत्वाद् गुणस्य, गुणस्यानुष्ठानेन मुख्यः सगुणः कथं स्याद् इति गुणे प्रवर्तते, गुणप्रवृत्त्या चेन् मुख्यस्य गुणहानिर् भवति, गुणप्रवृत्तौ फलम् एव नावाप्तं भवति. अथ प्रधानं सगुणं करिष्यामीति गुणे प्रवर्तमानो गुणस्य गुणं विनिपातयति, नास्य स्वार्थो हीयते. नासौ गुणं सगुणं कर्तुं प्रवर्तते, गुणश् च सामगानम्, प्रधानम् आधानम्, आधानस्य याजुर्वैदिकत्वात्{*3।245*}, उपांशुता गुणः, स गणधर्मम् उच्चैस् त्वं सामवैदिकं{*3।246*} बाधते. तस्माद् उपांशु सामानि गेयानीति.
नोतेस्:
*{3।241: मैत्.स्. 1.6.6}*
*{3।242: मैत्.स्. 1.6.7}*
*{3।243: मैत्.स्. 1.6.7}*
*{3।244: ए2: 4,204; ए4: 4,170; ए6: 1,191}*
*{3।245: ए2,4: याजुर्वेदिकत्वाद्}*
*{3।246: ए2,4: सामवेदिकं}*
भूयस्त्वेनोभयश्रुति
यजुर्वेदे ज्योतिष्टोमं समामनन्ति - ज्योतिष्टोमेन स्वर्गकामो यजेत इति, तथा सामवेदे ऽप्य् अस्यैवम् एव समाम्नानम्. सकृच् च कृतायां बुद्धौ द्वितीयं गुणार्थं श्रवणं भवति. तत्र संदेहः - किं याजुर्वैदिकम्{*3।247*} आम्नानं क्रियार्थम्, सामवैदिकं{*3।248*} गुणार्थम् उत विपरीतम् इति. यतरच् चाम्नानं क्रियार्थं तद्धर्मा भविष्यन्ति. किं तावत् प्राप्तम्? सामवेदिकं{*3।249*} क्रियार्थं याजुर्वेदिकं{*3।250*} वेत्य् अनिश्चयो विशेषान् अवगमाद् इति.
[282]{*3।251*} एवं प्राप्ते ब्रूमः - भूयस्त्वेन गुणानां परिच्छिद्येत, यत्र भूयांसो गुणाः समाम्नाताः, तत्र क्रियार्था{*3।252*} चोदनेति गम्यते. यत्र हि कर्तव्यतया चोदना, तत्रेतिकर्तव्यताकाङ्क्ष्यते, यत्राकाङ्क्षितेतिकर्तव्यता, तत्रेतिकर्तव्यतावचनं न्याय्यम्. ये च भूयांसो गुणाः, सेतिकर्तव्यता, तद् इतिकर्तव्यतालिङ्गेन कर्तव्यताचोदनाम्{*3।253*} अनुमिमीमहे, यथा बहुषु राजप्रतिमेषूपविष्टेषु यस्य श्वेतं छत्रं बालव्यजनं च, स राजेत्य् अवगम्यते, अनाख्यातो ऽपि राजलिङ्गेन. एवं कर्तव्यतालिङ्गेन गुणानां भूयस्त्वेन ज्योतिष्टोमस्य याजुर्वैदिकस्य{*3।254*} चोदनानुमीयते. तस्माज् ज्योतिष्टोमस्योपांशुप्रयोगः, यजुर्वेदेन हि ज्योतिष्टोमः क्रियते, यत् तेन चोद्यते. अचोदितं न शक्यते कर्तुम् इति.
नोतेस्:
*{3।247: ए2,4: याजुर्वेदिकम्}*
*{3।248: ए2,4: सामवेदिकं}*
*{3।249: ए2,4: सामवेदिकं}*
*{3।250: ए2,4: याजुर्वेदिकं}*
*{3।251: ए2: 4,211; ए4: 4,187; ए6: 1,193}*
*{3।252: ए2: क्रियार्थं}*
*{3।253: ए2: कर्तव्यताचोदनाद्}*
*{3।254: ए2,4: याजुर्वेदिकस्य}*
असंयुक्तं प्रकरणाद् इतिकर्तव्यतार्थित्वात्
उक्तानि विनियोगकारणानि श्रुतिर् लिङ्गं वाक्यम् इति. श्रुतिर् ऐन्द्र्या गार्हपत्यम् इति{*3।255*} द्वितीया विभक्तिः, लिङ्गं मन्त्रेषु वचनसामर्थ्यं बहिर्देवसदनं दामीति{*3।256*}, वाक्यम् अरुणया क्रीणातीति{*3।257*}. अथ किम् एतावन्त्य् एव विनियोगकारणानि? नेत्य् उच्यते. किम् अपरं कारणम् इति प्रश्नेनैवोपक्रमः, भवति च प्रश्नेनैवोपक्रमः, यथा का नामेयं नदी? को नामायं प्रवतः? किम् इदं फलम् इति.
तद् उच्यते - असंयुक्तं प्रकरणात्, इतिकर्तव्यतार्थित्वात्, यद् असंयुक्तं श्रुत्या लिङ्गेन वाक्येन वा, तत् प्रकरणात्, इतिकर्तव्यतार्थित्वात्. यद् इतिकर्तव्यताकाङ्क्षिणः संनिधौ पूरणसमर्थम् उपनिपतति यद् वचनम्, तत्{*3।258*} तेन प्रकृतेन सहैकवाक्यतां याति. [283]{*3।259*} तस्मात् प्रकृते विनियुज्यते. किम् इहोदाहरणम्? किं च प्रयोजनम् इति. दर्शपूर्णमासौ प्रकृत्य श्रूयते - समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर् यजति, स्वाहाकारं यजति{*3।260*} इति{*3।261*}, तानि तत्रैव प्रकरणसामर्थ्याद् विनियुज्यन्ते, नाग्निहोत्रे ज्योतिष्टोमे वा.
नोतेस्:
*{3।255: मैत्.स्. 3.2.4; व्ग्ल्. म्स् 3.2.3}*
*{3।256: मैत्.स्. 1.1.2; व्ग्ल्. म्स् 3.2.1}*
*{3।257: तैत्.स्. 6.1.6.7; व्ग्ल्. म्स् 3.1.12}*
*{3।258: ए2,4: यत्}*
*{3।259: ए2: 4,215; ए4: 4,192; ए6: 1,193}*
*{3।260: ए2,4,6 ओम्. इति}*
*{3।261: तैत्.स्. 2.6.1.1}*
क्रमश् च देशसामान्यात्
अथ किम् एतावन्त्य् एव विनियोगकारणानि. नेत्य् उच्यते. किं च? क्रमश् च देशसामान्यात्, क्रमवताम् आनुपूर्वेणोपदिश्यमानानां{*3।262*} यस्य पर्याये यं धर्मम् आमनन्ति, तस्य तं प्रत्य् आकाङ्क्षानुमीयते, सत्याम् आकाङ्क्षायां एकवाक्यभावः, तस्मात् ततो विनियोग इति. किम् इहोदाहरणम्? किं च प्रयोजनम्? आनुपूर्व्यवतां यागानाम् अनुमन्त्रणेष्व् आम्नातेषूपांशुयाजस्य क्रमे दब्धिर् नामासीति{*3।263*} समाम्नातः, तस्याकाङ्क्षाम् उत्पाद्य तेनैकवाक्यतां यात् वा तत्रैव विनियोगम् अर्हतीति, तथा चैन्द्राग्नं कर्म वियातसजातस्यास्ति भ्रातृव्यवतः{*3।264*}, तस्य याज्यानुवाक्यायुगलम् अप्य् आम्नायत ऐन्द्राग्नम्, इन्द्राग्नी रोचनादिवः प्रवर्षणिभ्य{*3।265*} इत्य्{*3।266*} एकम्, अपरम् इन्द्राग्नी नवतिं पुरः [284]{*3।267*} श्लथद् वृत्रम् इति{*3।268*}. तत्र लिङ्गाद् विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वं युगलं पूर्वस्यैन्द्राग्नस्य, उत्तरम् उत्तरस्येति, एतद् उदाहरणं प्रयोजनं चेति.
नोतेस्:
*{3।262: ए2,4,6: आनुपूर्व्येणोपदिश्यमानानां}*
*{3।263: तैत्.स्. 1.6.11.6.; व्ग्ल्. मान्श्स् 1.4.2.4}*
*{3।264: व्ग्ल्. मैत्.स्. 2.1.1}*
*{3।265: ए2,4,6: प्रवर्षिणिभ्य}*
*{3।266: व्ग्ल्. मैत्.स्. 4.10.4}*
*{3।267: ए2: 4,217; ए4: 4,200; ए6: 1,194}*
*{3।268: मैत्.स्. 4.10.5}*
आख्या चैवं तद् अर्थत्वात्
अथ किम् एतावन्त्य् एव विनियोगकारणानीति. नेत्य् उच्यते. किं च? समाख्या चैवं स्यात्. कथं विनियोगकारणम् इति. समाख्या सति संबन्धे भवति, यथा पाचको लावक इति, तत्र पाचकशब्दम् उपलभ्य पचतिनास्य संबन्ध इति गम्यते, एवं वेदे ऽपीति. अकृतकार्थसंबन्धं{*3।269*} समाचक्षाणं शब्दम् उपलभ्य भवति संबन्धे तस्मिन् संप्रत्ययः. किम् इहोदाहरणं प्रयोजनं च? आध्वर्यवम् इति समाख्यातानि कर्माण्य् अध्वर्युणा कर्तव्यानि, हौत्रम् इति च होत्रा. एतद् उदाहरणं प्रयोजनं चेति.
नोतेस्:
*{3।269: ए2,4: अकृतकार्यसंबन्धं}*
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात्
उक्तानि विनियोगकारणानि, श्रुतिलिङ्गं वाक्यं प्रकरणं स्थानं समाख्यानम् इति, तेषां समवाये किं बलीय इति चिन्त्यते, एकार्थवृत्तित्वाद् वाचो युगपद् असंबन्धाद् द्वयोर् द्वयोः संप्रधारणा. तत्र श्रुतिलिङ्गयोः किं श्रुतिबलीयस्य् आहोस्विल् लिङ्गम् इति. किं पुनर् अत्रोदाहरणम्? ऐन्द्र्या [285]{*3।270*} गार्हपत्यम् उपतिष्ठत इति, अत्र चिन्त्यते - किम् इन्द्रस्य गार्हपत्यस्य वोपस्थानं कर्तव्यम् इत्य् अनियमः, उत गार्हपत्यस्यैवेति. यदि तुल्यबले एते कारणे ततो विकल्पः, अथ श्रुतिर् बलीयसी, गार्हपत्य एवोपस्थेयः.
का पुनर् अत्र श्रुतिः? किं लिङ्गम्? श्रुतिर् गार्हपत्यशब्दश्रवणम्, लिङ्गं पुनः, कदा च न स्तरीरसि नेन्द्रसश्चसि दाशुषे, इतीन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्यम्. अथ किं वाक्यं नाम? संहत्य अर्थम् अभिदधति पदानि वाक्यम्. यद्य् एवम् इदम् अपि वाक्यम् - ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति, इदम् अपि - कदा चन स्तरीर् असीति{*3।271*}, उभयत्रापि संहत्यार्थम् अभिदधति पदानि. तेन वाक्यस्य वाक्यस्य चैषा संप्रधारणा, न श्रुतिलिङ्गयोः, यदि वा श्रुतिलिङ्गवाक्यानि विवेक्तव्यानि, इदं श्रुतिवाक्ययोर् अन्तरम्, इदं लिङ्गवाक्ययोर् इति.
तद् अभिधीयते - यत् तावच् छब्दस्यार्थम् अभिधातुं सामर्थ्यम्, तल्लिङ्गम्, यद् अर्थस्याभिधानं शब्दस्य श्रवणमात्रादेवावगम्यते, स श्रुत्यावगम्यते, श्रवणं श्रुतिः. एकार्थम् अनेकं पदं वाक्यम् इत्य् उक्तम् एव. तद् एतत् सर्वेष्व् एव वाक्येषु समवेतं विविक्तं च दृश्यते. इह तावत् कदा चन स्तरीर् असीत्य्{*3।272*} अनेन मन्त्रेण इन्द्र उपस्थातव्य इति, नैतत् कस्यचिच् छब्दस्य श्रवणाद् एवावगम्यते. नापि शब्दान्तरस्य समीप उच्चारितस्य सामर्थ्यम् अस्ति, येनैतद् अवगम्यते. एतस्यां खल्व् ऋचीन्द्रशब्दो विद्यते, यो विशिष्टां देवताम् अवगमयितुं शक्नोति, तया चावगमितया प्रयोजनम् अस्तीति. तेनेन्द्रोपस्थान इन्द्रशब्दः प्रयुज्यते, तदेकवाक्यताच् चावशिष्टानि पदानि, न त्व् [286]{*3।273*} एवम् अस्याम् ऋचि कस्यचिच् छब्दस्य सामर्थ्याद् गार्हपत्यस्योपस्थानं भवति. श्रवणाद् एव तु गार्हपत्यशब्दस्य, वयम् अग्निं प्रतीमो न लिङ्गात्. यदि तु लिङ्गं बलीयः, इन्द्र उपस्थातव्यः, यदि गार्हपत्यश्रवणम्, ततो गार्हपत्यः.
एवं तर्हि लिङ्गवाक्ये विरुध्यमान इह संप्रधार्ये न श्रुतिलिङ्गे, इन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्याद् इन्द्रोपस्थानम्, यदि लिङ्गं बलीयः. अथ तु वाक्यम्, गार्हपत्य उपस्थेयः. वाक्यं ह्य् एतद् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति. नैतद् एवम्, यद्य् अप्य् एतद् वाक्यं श्रुतिर् अप्य् अत्रास्ति, या त्व् अत्र श्रुतिः, सा लिङ्गेन विरुध्यते, न यद् वाक्यम्. कथम्? बलीयस्य् अपि हि लिङ्गे, ऐन्द्र्योपतिष्ठत इत्य् एतद् गार्हपत्यशब्देन सहैकवाक्यताम् उपैत्यैव{*3।274*}, यदि हि नोपेयात्, ततो लिङ्गेन विरुध्यते. यस् तु गार्हपत्यश्रवणाद् एवार्थः प्रतीयते, स लिङ्गे बलीयसि परित्यक्तो भवति. नासाव् उपस्थानेन संबध्यते, तदा हीन्द्रं गार्हपत्यशब्दो ऽभिवदेद् अग्निसमीपं वा. अथ नु श्रुतिः प्रमाणं भवति, ततो लिङ्गेनावगतम् इन्द्रोपस्थानं बाध्येत. तस्माच् छ्रुतिलिङ्गयोर् एवैष विरोधः, न लिङ्गवाक्ययोर् इति. अथवा नात्रैकवाक्यत्वाद् इन्द्रप्राधान्यं गार्हपत्यप्राधान्यं वोपस्थानस्य. कुतस् तर्हि? इन्द्रशब्दवत्त्वान् मन्त्रस्य, इन्द्रप्राधान्यम्, द्वितीयाविभक्तिश्रवणाद् गार्हपत्यप्राधान्यम्. तस्माच् छ्रुतिलिङ्गयोर् विरोधः.
किं तावत् प्राप्तम्? तुल्यबले एते कारण इति. कथम्? इदम् अपि कारणम्, इदम् अपि, श्रुतिर् अपि, लिङ्गम् अपि{*3।275*}. न हि विज्ञानस्य विज्ञानस्य च कश्चिद् विशेष उपलभ्यते रूपं प्रति, अस्य भङ्गुरस्येव रूपम्, अस्य दृढस्येवेति. ननु लिङ्गस्य भङ्गुरस्येव रूपम्, सविचिकित्सो हि भवति लिङ्गात् प्रत्ययः, निर्विचिकित्सः श्रुतेः. नैतद् युक्तम्, यतो लिङ्गात् [287]{*3।276*} सविचिकित्सः प्रत्ययः, तस्य च श्रुतेश् च नैव संप्रधारणास्ति. यतस् तु खलु लिङ्गान् निर्विचिकित्सः प्रत्ययः स श्रुत्या विकल्पितुम् अर्हति. ननु नैव कदाचिल् लिङ्गान् निर्विचिकित्सः प्रत्ययो ऽस्ति. नैतद् एवम्, एवं हि सति नैव लिङ्गं नाम किंचित् प्रमाणम् अभविष्यत्. कामं मा भूत् प्रमाणम्, भवति तु संशयो लिङ्गपरिज्ञातेष्व् अर्थेषु. यदि वा विस्पष्टम् एवाप्रामाण्यं न संशयः. कथम्? समर्थम् एतद् इमम् अर्थम् अभिनिर्वर्तयितुम् इति लिङ्गाद् एतावद् अवगम्यते. न च यद् यस्य निर्वर्तनायालम्, तद् असत्य् एव वचने तन् निर्वर्तयितुम् अर्हति. तस्मान् न लिङ्गं विनियोजकम् इति.
अत्राभिधीयते - प्रकरणवतो ऽर्थस्य संनिधाने यम् अर्थम् आमनन्ति, स तस्य साधनभूत इत्य् एव गम्यते. कथं खलूपकरिष्यतीति संदिह्यमाने भवति सामर्थ्यात् परिनिश्चयः. यत्रायं समर्थः, तत्र शक्यो विनियोक्तम् इति, तस्माद् भवति लिङ्गं प्रमाणम् इति. न च लिङ्गप्रामाण्ये विनिगमनायां हेतुर् अस्ति. तस्मात् तुल्यबले एते कारणे, कदा चन स्तरीर् असीति{*3।277*} लिङ्गाद् इन्द्र उपस्थातव्यः, श्रुतेर् गार्हपत्य इति. अविरोधात् खल्व् अपीमम् एवार्थं प्रतिपद्यामहे. बलीयान् अपि हेतुर् विरुध्यमान्म् अबलीयांसं बाधितुम् अर्हति नाविरुद्धम्, न च कश्चन विरोधः, यद् इन्द्रम् उपतिष्ठेतानेन मन्त्रेण, गार्हपत्यम् अपि.
नन्व् अयम् एव विरोधः - सकृद् उपस्थानं चोदितम्, असकृद् अभिनिर्वर्त्यत इति. उपस्थेयभेदात् प्रतिप्रधानम् आवर्तन्ते गुणा इति न्याय एवैष न विरोधः. अयं तर्हि विरोधः - गार्हपत्य उपस्थीयमाने ऽग्निवचन इन्द्रशब्दो गुणं क्रियायोगं वापेक्षमाणो भवितुम् अर्हति. इन्द्रे तूपस्थातव्ये निरपेक्ष इन्द्र[288]{*3।278*}वचन एव, गौणमुख्ययोश् च मुख्ये संप्रत्यय इति. नेति ब्रूमः - विरोधे मुख्येन गौणो बाध्येत, न च कश्चिद् विरोधः, युगपद् अभ्हिधाने हि विरुध्येयाताम्. इह चान्यस्मिन् प्रयोगे ऽग्निवचनो ऽन्यस्मिन्न् इन्द्रवचनः. अतस् तुल्यबले एते कारणे इति.
एवं प्राप्ते ब्रूमः - श्रुतिलिङ्गयोः श्रुतिबलीयसी. कुतः? अर्थविप्रकर्षात्. किम् इदम् अर्थविप्रकर्षाद् इति? अर्थस्य विप्रकर्षो ऽर्थविप्रकर्षः. कः पुनर् अर्थः? श्रुत्यार्थः. गार्हपत्यम् उपतिष्ठत इति संनिकृष्टः श्रुत्यर्थः, इन्द्र उपस्थेय इति विप्रकृष्टः. कथम्? कदा चन स्तरीर् असीत्य्{*3।279*} अनेन मन्त्रेणेन्द्र उपस्थातव्य इति न श्रूयते. सत्य् अपीन्द्राभिधानसामर्थ्ये वचनाभावाद् अनुपस्थानीय इन्द्र इत्य् एव गम्यते.
नन्व् इदम् उक्तम् - प्रकरणाम्नानाद् अङ्गम् इत्य् अवगम्यते, सामर्थ्याद् विनियोग इति. नैतद् अस्ति, उक्तम् एवैतत् - धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्याद् इति. यद् एतत् प्रकरणं लिङ्गं चोभयम् अप्य् एतद् शब्दम्. न चातिक्रान्तप्रत्यक्षविषय एवंलक्षणके ऽर्थे शब्दम् अन्तरेण परिच्छेदो ऽवकल्पते. अतो मन्यामहे - विप्रकृष्टं श्रुत्यर्थाल् लिङ्गम् इति. यद्य् एवं श्रुतिर् यत्र विरोधिनी न विद्यते, तत्रापि न लिङ्गाद् अर्थपरिच्छेदः. तत्रैतद् एव नास्ति लिङ्गं प्रमाणम् इति. कुत एवैतेन श्रुतिर् विरोत्स्यत इति. तत्र श्रुतिलिङ्गयोर् बलीयस्त्वं प्रति संप्रधारणैव नोपपद्यत इति ब्रूमः.
अत्रोच्यते - इतिकर्तव्यथार्थिनः प्रकरणवतो ऽर्थस्य संनिधाव् उपनिपतितो मन्त्र आम्नानसामर्थ्याद् इतिकर्तव्यताकाङ्क्षस्य वाक्यशेषताम् अभ्युपेत्यैतेन मन्त्रेण यजेतेति. किम् उक्तं भवति? यागेनाभीप्सिते साध्यमाने ऽनेन मन्त्रेणोपकुर्याद् इति, न चान्तरेणेन्द्राभिधानम् अयं मन्त्र उपकर्तुं शक्नोति, [289]{*3।280*} तेनैतद् उक्तं भवति, अनेनेन्द्रो ऽभिधातव्य इति. अतः श्रुतिमूल एवायम् अर्थः. यदि श्रुतिमूलः, न श्रुत्यन्तरेण बाधितुं शक्यः. तद् एतल् लिङ्गं यदि वा नैव प्रमाणम्, यदि वा श्रुत्या विकल्पितुम् अर्हतीति. नाप्य् अप्रमाणं भविष्यति, नापि विकल्पिष्यत इति ब्रूमः. कथम्? श्रुतिलक्षणो ऽयम् अर्थ इत्य् उपपादितम्, तस्मान् नाप्रमाणम्. यतस् तु खल्व् आनुमानिकीम् एकवाक्यतां लिङ्गसामर्थ्यं चापेक्ष्य श्रौतो ऽयम् अर्थः, यद् इन्द्रस्योपस्थानम् अनेन मन्त्रेणेत्य् अवगम्यते, प्रत्यक्षा तु श्रुतिगार्हपत्यम् उपतिष्ठत इति, स एषो ऽर्थविप्रकर्षः. प्रथमं तावल् लिङ्गज्ञानम्, ततः सांअर्थ्याच् छब्देनायम् अर्थो ऽभिहितो भवति, तद् एतच् छ्रुतिविरोधे नावकल्पते, विस्पष्टं ह्य् अवगतम् एतत्, अनेन मन्त्रेण गार्हपत्य उपस्थेय इति. तत्र विज्ञातम् एतद् एवम् अयम् उपकरोति मन्त्र इत्य् एतस्मिंश् च निर्ज्ञाते कृतसामर्थ्ययोर् वाक्यप्रकरणयोर् नैतद् एवं कल्पयितुं शक्यम्, इन्द्रोपस्थानं शब्देनाभिहितम् इति. तस्माद् अर्थविप्रकर्षाच् छ्रुत्या लिङ्गं बाध्यत इति.
विकल्पस्य चान्याय्यत्वात्, अन्याय्यश् च विकल्पः. तत्र ह्य् अभावः पक्षे नित्यवच् च, ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति श्रूयमाने यद् अभावः पक्षे परिकल्प्यते, तद् अश्रुतं भवति, श्रुतं च हीयते. यावांश् च श्रुतस्यार्थस्योत्सर्गे दोषः, तावान् अश्रुतपरिकल्पनायाम्, उभयत्र हि प्रसिद्धिर् बाध्यते. तस्माद् अन्याय्यत्वाद् विकल्पस्य श्रुतिलिङ्गयोः श्रुतिबलीयसीत्य् अवगच्छामः.
अथ यद् उक्तम् - सति विरोधे न्याय्यो बाधः, न चात्रास्ति विरोध इति, अयम् अस्ति विरोधः, यद् अकृतसामर्थ्ययोर् वाक्यप्रकरणयोर् इन्द्रोपस्थानवाचिनी श्रुतिर् भवति, कृतसामर्थ्ययोस् तु नावकल्पते, न च वाक्यप्रकरणाभ्यां युगपत् कृतसामर्थ्याभ्याम् [290]{*3।281*} अकृतसामर्थ्याभ्यां च शक्यं भवितुम्. तस्माद् विरोधः, विरोधे च श्रुतिर् लिङ्गाद् बलीयसीति.
लिङ्गवाक्ययोर् विरोधे किम् उदाहरणम्? स्योनं ते सदनं कृणोमि घृतस्य धारया सुषेवं{*3।282*} कल्पयामि. तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति{*3।283*}. अत्र संदेहः - किं कृत्स्नो मन्त्र उपस्तरणे पुरोडाशासादने च प्रयोक्तव्यः, उत कल्पयाम्य् अन्त उपस्तरणे, तस्मिन् सीदेत्येवमादिः पुरोडाशासादन इति. यदि वाक्यं बलीयः, ततः कृत्स्न उभयत्र. कथम्? सुषेवं{*3।284*} कल्पयामीत्य् एतद् अपेक्ष्य, तस्मिन् सीदेत्येवमादिः पूर्वेणैकवाक्यताम् उपैति - यत् कल्पयामि, तस्मिन् सीदेति. अथ लिङ्गं बलीयः, ततः कल्पयाम्य् अन्तः सदनकरणे. कथम्? स्योनं ते सदनं कृणोमीति{*3।285*}, सदनकरणम् अभिवदितुम् अलम् इति. तस्मिन् सीदेत्य् अयम् अपि पुरोडाशं सादयितुम् इति, सादने विनियुज्यते.
किं तावत् प्राप्तम्? तुल्यबले एते कारण इति, यथा लिङ्गं प्रति श्रुतेर् बलीयस्त्वम् उक्तम्, न तथा वाक्यं प्रति लिङ्गस्योच्यते. अथवा वाक्यम् एव लिङ्गाद् बलीयः. कुतः? तद् धि श्रुत्यापि बाध्यते, न च बलीयः कारणं शक्यते बाधितुम्. तेनास्य भङ्गुरताम् अध्यवस्यामः, यस् त्व् एकेन बाध्यते, शक्यो ऽसाव् अन्येनापि बाधितुम् इति.
एवं प्राप्ते ब्रूमः - लिङ्गवाक्ययोर् लिङ्गं बलीय इति. कुतः? अर्थविप्रकर्षात्. को ऽत्रार्थविप्रकर्षः? प्रकरणवतः संनिधाव् आम्नानाद् दर्शपूर्णमासाङ्गम् अयं मन्त्र इत्य् अवगम्यते, तस्मिन् सीदेति पुरोडाशासादनाभिधानसामर्थ्यात् सादने विनियुज्यमाने कृतसामर्थ्यं मन्त्राम्नानम् इति, नास्ति प्रमाणं येनोपस्तरणे ऽपि विनियुज्येत. तथा स्योनं ते सदनं कृणोमीत्य्{*3।286*} एषो ऽपि प्रकरणाम्नानसामर्थ्याद् एव दर्शपूर्णमासाङ्गताम् आपन्नः [291]{*3।287*} सामर्थ्याद् एवोपस्तरणे विनियोगात् कृतप्रयोजने न पुरोडाशासादने विनियोगम् अर्हति, न ह्य् अस्मिन् विनियुज्-यमानस्य किंचिद् अपि प्रयोजनम् अस्ति. एवम् उपस्तरणे तस्मिन् सीदेत्य् अस्य नास्ति सामर्थ्यम्. पूरोडाशासादने ऽपि स्योनं त इत्य्{*3।288*} अस्य. पूर्वेणैकवाक्यताम् उपेत्योपस्तरणे सामर्थ्यम्, पूर्वस्य परेणैकवाक्यत्वात् सादने, न तु स्वरूपेणोभयोः. तद् एषो ऽर्थविप्रकर्षः.
यत् स्योनं त इत्य्{*3।289*} अस्य प्रत्यक्षं सदनकर्मणो ऽभिधानसामर्थ्यम्, तन् मुख्यम्. तस्मिन् सीदेत्य् अस्य पुनः पूर्वेण सहैकवाक्यताम् उपगतस्य भवति जघन्यम्. तद् अत्र पूर्वस्य मन्त्रस्याभिधानसामर्थ्याद् उपस्तरणे विनियोग उक्तो भवतीति, संनिकृष्टो लिङ्गस्य श्रुत्यर्थः, उत्तरस्य तूपजनिते ऽभिधानसामर्थ्ये ततः श्रुत्यर्थ इति लिङ्गान्तरितो विप्रकृष्टो भवति. एवम् उत्तरस्य सादने संनिकृष्टः पूर्वस्य च लिङ्गान्तरितः. तस्माद् अर्थविप्रकृष्टाल् लिङ्गवाक्ययोर् लिङ्गं बलवत्तरम्, ततः स्योनम् इत्य्{*3।290*} एष शब्दो यद्य् अप्य् उत्तरेणाकाङ्क्शित इति सादने ऽपि प्रयोगम् अर्हति, तथापि भित्वा वाक्यम् उपस्तरण एव विनियोक्तव्यः. तस्मिन् सीदेत्य् एष च सादने.
ननु स्योनं त इत्य्{*3।291*} अस्य शब्दस्य यथैवोपस्तरणाभिधानसामर्थ्यम्, एवम् उत्तरेणैकवाक्यताम् उपगन्तुं सामर्थ्यम्, सामर्थ्यं च लिङ्गम् इत्य् उच्यते. तस्माद् भिद्यमाने वाक्ये लिङ्गम् एव बाधितं भवतीति. सत्यम् एवम्, एतद् अपि लिङ्गम्, लिङ्गम् अपि खल्व् एतद् एवंलक्षणकं विप्रकृष्टार्थम् एव भवति, लिङ्गाद् एकवाक्यता, तस्माद् अभिधानसामर्थ्यम्. ततः श्रुत्यर्थ इति विप्रकृष्टार्थता, विप्रकृष्टार्थता च बाधने हेतुभूता. तस्मान् न [292]{*3।292*} उत्तरणैकवाक्यतां यास्यतीति. एवं तस्मिन् सीदेत्य् उत्तरं न पूर्वेणापि.
अपि चोत्तरेणैकवाक्यताम् उपगतस्य न किंचिद् अपि दृष्टम् अस्ति कार्यम्, उपस्तरणप्रत्यायनं तु दृष्टम्. कुतः? श्रुतत्वाद् उपस्तरणस्य सादनस्य च. एवम् उत्तरस्य सादनप्रत्यायनम्, न तु पूर्वेणैकवाक्यतायाम्. न चैतौ पूर्वोत्तराभ्याम् एकवाक्यताम् अन्तरेण पृथग् यथायथं कार्ये न कुरुतः. तस्मात् पूर्वः पूर्वत्र विनियोजनीयः, उत्तर उत्तरत्रेति.
अथ यद् उक्तम् - श्रुत्यापि तद् बाधितम् इति वाक्येनापि तद् बाधितव्यम् इति. नैतद् एवम्, न हि बाधितस्यान्येनापि बाधनम् एव न्याय्यम्, बाधितं ह्य् अनुगृहीतव्यम् अर्थवत्त्वाय, श्रुतिं प्रति विप्रकृष्टार्थम्, वाक्यं प्रति संनिकृष्टार्थम्, तस्माल् लिङ्गं बलीय इति.
अथ वाक्यप्रकरणयोर् विरोधे कथम् इति. किं पुनः प्रकरणं नाम? कर्तव्यस्येतिकर्तव्यताकाङ्क्षस्य वचनं प्रकरणम्. प्रारम्भो हि स तस्या वचनक्रियायाः, न एष विध्यादिर् विध्यन्तापेक्षः. वाक्यं तूक्तम् एव. तयोर् विरोधे किम् उदाहरणम्? सूक्तवाकनिगदः. तत्र हि पौर्णमासीदेवता अमावास्यादेवताश् चाम्नाताः, ताः परस्परेणैकवाक्यतां नाभ्युपयन्ति. तत्र लिङ्गसामर्थ्यात् पौर्णमासीप्रयोगाद् इन्द्राग्निशब्द उत्क्रष्टव्यो ऽमावास्यायां प्रयोक्तव्यः. अथेदानीं संदिह्यते, यो ऽस्य शेषः, अवीवृधेतां महोज्यायो क्राताम्{*3।293*} इति{*3।294*}, स किं यावत् कृत्वः सूक्तवाके समाम्नातः, तावत् कृत्व उभयोः पौर्णमास्यम् आवास्ययोः प्रयोक्तव्यः, प्रकरणं बलवत्तरम् इति, उत यत्रेन्द्राग्निशब्द उत्कृष्य नीतः, तत्रैव प्रयोक्तव्यः, वाक्यं बलवत्तरम् इति. एवं सर्वेषु संशयः.
किं तावत् प्राप्तम्? तुल्यबले एते कारण इति. कुतः? [293]{*3।295*} इतरत्राप्य् आकाङ्क्षा, इतरत्रापि, तुल्यायाम् आकाङ्क्षायां नास्ति विनिगमनायां हेतुः, तस्मात् तुल्यबल इति. अथवा वाक्यं दुर्बलम्, बाधितं हि तल्लिङ्गेन.
इत्य् एवं प्राप्ते ब्रूमः - प्रकरणाद् वाक्यं बलीयः. कथम्? अर्थविप्रकर्षात्. को ऽत्रार्थविप्र-कर्षः? वाक्य एकैकं पदं विभज्यमानं साकाङ्क्षं भवति, कृत्स्नं परिपूर्णं भवति, तत्र प्रत्यक्ष एकवाक्यभावः, प्रकरणे त्व् अप्रत्यक्षः. कथम्? इतिकर्तव्यताकाङ्क्षस्य समीप उपनिपतितं पूर्णम् इति तस्य प्रकृतस्य साकाङ्क्षत्वम् अवगम्यते, नैकवाक्यभूतम् इत्य् अनुमीयते. एकवाक्यतया चाभिधानसामर्थ्यम् अवकल्प्याभिहितो ऽयम् एवं भवतीति परिकल्पना. एषो ऽत्रार्थविप्रकर्षः, यद् वाक्यस्य समासन्ना श्रुतिः, प्रकरणस्य विप्रकृष्टा. तस्मात् सूक्तवाकेन प्रस्तरं{*3।296*} प्रहरतीति पौर्णमासीदेवतावाचिनाम् अमाव् आस्या देवतावाचिनां च निष्कृष्य प्रयोगे तच् छेषाणाम् अपि निष्कृष्य प्रयोगः, तेन यद्य् अपि प्रकरणसामर्थ्यात् पौर्णमासीदेवतापदशेषाणाम् अमाव् आस्या देवतावाचिभिः सहैकवाक्यतानुमीयते, प्रत्यक्षा त्व् अमाव् आस्या देवतापदैः सह, न च प्रत्यक्षविरोधे ऽनुमानं संभवति. अर्थवति च प्रकरणे संजाते न निराकाङ्क्षाणाम् आकाङ्क्षा शक्योपपादयितुम्.
अथ यद् उक्तम् - लिङ्गेनापि हि तद् बाध्यते, अतः प्रकरणेनापि बाधितव्यम् इति. न, यद् अन्येनापि बाध्यते, तद् भङ्गुरम् अन्यत्रापीत्य् अवगन्तव्यम्. अथ भङ्गुरम्, प्रमाणम् एव नाभविष्यत्. किंचित् तु प्रति कस्यचित् प्रभावः, वाक्यस्य प्रकरणं प्रति बाधकशक्तिर् न तु लिङ्गं प्रति, लिङ्गं प्रति विप्रकृष्टार्थम् एतत् प्रकरणं प्रति संनिकृष्टार्थम्, तेन वाक्येन प्रकरणं बाध्यत इति.
[294]{*3।297*} अथ प्रकरणस्य क्रमस्य च विरोधे किम् उदाहरणम्? राजसूयप्रकरणे ऽभिषेचनीयक्रमे शौनःशेफाख्यानाद्य् आम्नातम्, यदि प्रकरणं बलवत्, सर्वेषां तद् अङ्गम्, यदि क्रमः, अभिषेचनीयस्यैव. किं तावत् प्राप्तम्? तुल्यबल एते कारण इति. कुतः? न तावद् विशेषम् उपलभामहे, येनावगच्छाम इदं बलीय इति. तस्मात् तुल्यबले एते कारण इति. अपि च प्रकरणं वाक्येन बाधितम्, तस्माद् बाध्येत क्रमेणापीति.
एवं प्राप्ते ब्रूमः - प्रकरणं क्रमाद् बलीयः. कुतः? अर्थविप्रकर्षात्. को ऽत्रार्थविप्रकर्षः? प्रकरणवतः साकाङ्क्षत्वात्, तत्संनिधानाम्नातेन परिपूर्णेनाप्य् अवकल्पेतैकवाक्यत्वम्, न तु क्रमवतः क्रम आम्नातेन, अनेकस्याम्नायमानस्य संनिधिविशेषाम्नानमात्रं हि क्रमः. तत्र संनिधिविशेषाम्नानसामर्थ्यात् क्रमवतः संनिधाव् आम्नातस्यानुपलभ्यमानम् एवाकाङ्क्षावत्त्वम् अस्तीत्य् अवगन्तव्यम्. प्रकरणे तु प्रकरणवतः प्रत्यक्षम्, न च प्रकरणवता क्रमवता च यौगपद्येनैकवाक्यता संभवत्य् आम्नातस्येति विरोधः. तत्र प्रकरणे प्रत्यक्षं साकाङ्क्षत्वम्, क्रम आनुमानिकं बाधितुम् अर्हति, साकाङ्क्षत्वाद् एकवाक्यत्वम्. एकवाक्यत्वाद् अभिधानसामर्थ्यम्, सामर्थ्याच् छ्रुत्यर्थ इति संनिकृष्टः प्रकरणस्य श्रुत्यर्थः, विप्रकृष्टः क्रमस्य. तस्मात् क्रम करणयोः प्रकरणं बलवत्तरम् इति.
अथ यद् उक्तम् - वाक्येनापि हि तद् बाधितम्, अतो ऽन्येनापि तद् बाधितव्यम् इति. नैतत्, बाधितस्यानुग्रहो न्याय्यः, न बाधितं{*3।298*} बाधितव्यम् इति.
अथ क्रमसमाख्ययोर् विरोधे किम् उदाहरणम्? किं बलवत्तरम् इति. पौरोडाशिकम् इति समाख्याते काण्डे सांनाय्यक्रमे शुन्धध्वं दैव्याय क्रमण इति{*3।299*} शुन्धनार्थो मन्त्रः समाम्नातः. तत्र संदिह्यते - किं समाख्यानस्य बलीयस्त्वात् पुरोडाश[295]{*3।300*}पात्राणां शुन्धने विनियोक्तव्यः, उत क्रमस्य बलीयस्त्वात् सांनाय्यपात्राणाम् इति. किं तावत् प्राप्तम्? तुल्यबले एते करणे{*3।301*} स्याताम्. कुतः? अविशेषात्, यदि वा समाख्यैव बलीयसी, बाधितो हि क्रमः प्रकरणेनापीति.
एवं प्राप्ते ब्रूमः - क्रमो बलीयान्. कुतः? अर्थविप्रकर्षात्. कः पुनर् अत्रार्थविप्रकर्षः? निर्ज्ञाते प्रकरणेन केनापि सहैकवाक्यत्वे यत् संनिधाव् आम्नायते, तत्राकाङ्क्षां परिकल्प्यते, नैकवाक्यतेत्य् अवगम्यते, लौकिकश् च शब्दः समाख्या. न च, लोक एवंविधेष्व् अर्थेषु प्रमाणम्. तस्मात् क्रमो बलीयान् इति.
यद्य् एवं भवत्य् एवंलक्षणकेषु क्रमेण विनियोगः, न त्व् अर्थाविप्रकर्षात् क्रमो बलीयान्. कथम्? द्वयोर् हि प्रमाणयोर् बलीयस्त्वं प्रति संप्रधारणम्, न चैवं सति समाख्या प्रमाणम्, लौकिकत्वाच् छब्दस्य, पुरुषस्य प्रमाणता भवतीति. नैष दोषः, नात्राङ्गभावः पुरुषप्रामाण्याद् गम्यते, पौरोडाशिकशब्द एतस्य काण्डस्य, इत्य् एतद् अत्र पुरुषप्रमाणकम्. भवति चास्मिन्न् अर्थे पुरुषः प्रमाणम्, यथा सांनाय्यक्रम आम्नानं पुरुषप्रमाणकम्, यथा प्रकरणम् एकवाक्यत्वम्, वेदशब्दश् चायम् इति. न ह्य् एते ऽनिन्द्रियविषया अर्था उपपद्यन्ते, एष्व् अभियुक्तानां प्रामाण्यम्, ये त्व् अनिन्द्रियविषयास् तेष्व् अभियुक्ता न प्रमाणम्. तस्मात् समाख्या कारणम्, कारणत्वे च सति बलीयस्त्वं परीक्ष्यम् इति.
उच्यते ऽर्थविप्रकर्षस् तर्हि वक्तव्यः समाख्यायाः. अयम् अर्थविप्रकर्षः. उपदिश्यते हि क्रमे समाम्नानात् सांनाय्यसंबन्धः, नोपदिश्यते समाख्यायाम्, शब्दम् उच्चार्यमाणम् उपलभ्यार्थापत्त्या नूनम् अस्तीति कल्प्यते. तस्मात् पूर्ववेदार्थविप्रकर्षात् क्रमेण समाख्या बाध्यत इति.
अथ यत् तत्र तत्रोच्यते - इदम् अनेन बाध्यते, इदम् अनेनेति. तत्र यद् बाध्यते, तत् किं बाधकविषयं प्राप्तम् उताप्राप्तम् [296]{*3।302*} इति. किं चातः? यद्य् अप्राप्तम्, किं बाध्यते? अथ प्राप्तम्, कथं शक्येत बाधितुम्? प्राप्तं बाधकविषयं पूर्वविज्ञानम् इति ब्रूमः. कथम्? सामान्यस्य कारणस्य विद्यमानत्वात्. अथ कथं निवर्तते? मिथ्याज्ञानम्{*3।303*} इति प्रत्ययान्तरं भवति. किं तु{*3।304*} खल्व् अमिथ्याज्ञानस्य स्वरूपम्? यस्य बाधकः प्रत्ययो विमृष्यमाणस्यापि नोपपद्यते, न तन् मिथ्या. तद् एतेषां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वं पूर्वं यत् कारणं तत् परं परं प्रति बलीयो भवति, नैतस्योत्पन्नस्य विमृष्यमाणस्य बाधकं विज्ञानान्तरम् अस्ति. तस्मात् तेषां समवाये विरोधे{*3।305*} परदौर्बल्यम् अर्थविप्रल्कर्षाद् इति.
नोतेस्:
*{3।270: ए2: 4,222; ए4: 4,211; ए6: 1,195}*
*{3।271: मैत्.स्. 1.3.26; तैत्.स्. 1.5.8.4; ऋव् 8.51.7अ}*
*{3।272: एबेन्द}*
*{3।273: ए2: 4,225; ए4: 4,212; ए6: 1,196}*
*{3।274: ए2,4,6: उपैत्य् एव}*
*{3।275: ए1 गिब्त् श्रुतिर् अपि, लिङ्गम् अपि इन् क्लम्मेर्न्}*
*{3।276: ए2: 4,245; ए4: 4,212; ए6: 1,196}*
*{3।277: एबेन्द}*
*{3।278: ए2: 4,248; ए4: 4,213; ए6: 1,197}*
*{3।279: एबेन्द}*
*{3।280: ए2: 4,249; ए4: 4,213; ए6: 1,197}*
*{3।281: ए2: 4,251; ए4: 4,214; ए6: 1,198}*
*{3।282: ए2,4: सुशेवं}*
*{3।283: तैत्.ब्र्. 3.7.5.2-3; व्ग्ल्. मान्श्स् 1.2.6.19}*
*{3।284: ए2,4: सुशेवं}*
*{3।285: एबेन्द}*
*{3।286: एबेन्द}*
*{3।287: ए2: 4,255; ए4: 4,215; ए6: 1,199}*
*{3।288: एबेन्द}*
*{3।289: एबेन्द}*
*{3।290: एबेन्द}*
*{3।291: एबेन्द}*
*{3।292: ए2: 4,256; ए4: 4,215; ए6: 1,200}*
*{3।293: ए2: महो ज्यायते ऽक्राताम्, ए4: महो ज्यायो ऽक्राताम्, ए6: महोज्यायो ऽक्राताम्}*
*{3।294: तैत्.ब्र्. 3.5.10.3}*
*{3।295: ए2: 4,259; ए4: 4,216; ए6: 1,200}*
*{3।296: ए2,4,6 ओम्. प्रस्तरं}*
*{3।297: ए2: 4,261; ए4: 4,217; ए6: 1,201}*
*{3।298: ए2,4 ओम्. बाधितं}*
*{3।299: तैत्.स्. 1.1.3.1}*
*{3।300: ए2: 4,263; ए4: 4,217; ए6: 1,202}*
*{3।301: ए2,4: कारणे}*
*{3।302: ए2: 4,267; ए4: 4,218; ए6: 1,202}*
*{3।303: ए2,4: नैव हि तन्निवर्तते. कथं तर्हि? मिथ्याज्ञानम्}*
*{3।304: ए2,4: नु}*
*{3।305: ए1 गिब्त् विरोधे इन् क्लम्मेर्न्}*
अहीनो वा प्रकरणाद् गौणः
ज्योतिष्टोमं प्रकृत्य समामनन्ति - तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*3।306*}. तत्र संदेहः - किं द्वादशोपसत्ता ज्योतिष्टोम उताहीन इति. किं तावत् प्राप्तम्? ज्योतिष्टोम इति. कुतः? प्रकरणात्, एवं प्रकरणम् अनुगृहीतं भवति. ननु वाक्येन बाध्यते. न बाध्यते, अहीनशब्देन ज्योतिष्टोमं वक्ष्यामः. कुतः? न हीयत इत्य् अहीनः, दक्षिणया क्रतुकरणैर् वा फलेन वा न हीयते, तेन ज्योतिष्टोमो ऽहीनः. वाशब्देन संशयो निवर्त्यते.
[297]{*3।307*}
नोतेस्:
*{3।306: तैत्.स्. 6.2.5.1}*
*{3।307: ए2: 4,273; ए4: 4,348; ए6: 1,203}*
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत{*3।308*}
अपकृष्येत द्वादशोपसत्ता. कुतः? असंयोगाज् ज्योतिष्टोमेन. कथम् असंयोगः? अहीनेनैकवाक्यत्वस्य प्रत्यक्षत्वात्. ननु ज्योतिष्टोम एव गौणो ऽहीनः. नेत्य् उच्यते, न हि मुख्यसंभवे गौणग्रहणम् अर्हति. ननु नञ्समासो भविष्यति. नेति ब्रूमः, तथा सत्य् आद्युदात्तो ऽहीनशब्दो ऽभविष्यत्, मध्योदात्तस् त्व् अयम्{*3।309*}. तस्मात् प्रकरणं बाधित्वाहीनस्य धर्मः. अपि च व्यपदेशो भवति - तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति. यद्य् अन्यः साह्नो ऽन्यश् चाहीनः, तत एवं व्यपदेशो ऽवकल्पते, विद्यते च व्यपदेशवचनम्, तस्माद् अहीनस्येति.
नोतेस्:
*{3।308: ए2,4,6: अपकृष्यते}*
*{3।309: व्ग्ल्. वार्त्तिक zउ पाण्. 6.2.2}*
द्वित्वबहुत्वयुक्तं वा{*3।310*} चोदनात् तस्य
ज्योतिष्टोमे श्रूयते - युवं हि स्थः स्वःपती{*3।311*} इति{*3।312*} द्वयोर् यजमानयोः प्रतिपदं कुर्यात्{*3।313*}. एते ऽसृग्रम् इन्दव इति{*3।314*} बहुभ्यो यजमानेभ्य इति{*3।315*}. तत्र संदेहः - ज्योतिष्टोम एव निविशेते प्रतिपादाउ, उत द्वियज्ञं किंचित् कुलायादिं बहुयज्ञं च द्विरात्रादिम् उत्क्रष्टव्य इति. किं प्राप्तम्? द्वित्वबहुत्वयुक्ते ज्योतिष्टोमेनासंयोगाद्{*3।316*} उत्कृष्येयातां प्रतिपदौ, न हि [298]{*3।317*} ज्योतिष्टोमस्य द्वौ यजमानौ श्रूयेते, यथा कुलायस्य, एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम् इति{*3।318*}.
नोतेस्:
*{3।310: ए2,4 ओम्. वा}*
*{3।311: ए2,4: स्वर्पतीति}*
*{3।312: साम्.स्. 2.351}*
*{3।313: व्ग्ल्. पञ्.ब्र्. (ता.ब्र्.) 6.10.14}*
*{3।314: साम्.स्. 2.180}*
*{3।315: व्ग्ल्. पञ्.ब्र्. (ता.ब्र्.) 6.9.13}*
*{3।316: ए1 गिब्त् ज्योतिष्टोमेनासंयोगाद् इन् क्लम्मेर्न्}*
*{3।317: ए2: 4,276; ए4: 4,353; ए6: 1,204}*
*{3।318: जैम्.ब्र्. 2.132}*
पक्षेणार्थकृतस्येति चेत्
इति चेत् पश्यसि - पर्तिपदाव् उत्क्रष्टव्य इति. नैतद् एवम्, प्रकरणं हि बाध्येत. बाध्यताम् असंयोगाद् द्वाभ्यां यजमानाभ्यां बहुभिश् च यजमानैर् ज्योतिष्टोमस्येति चेत्. असत्य् अपि वचने ऽर्थाद् द्वौ यजमानौ भविष्यतः, य एको न शक्ष्यति, समहायः स उपक्रंस्यते, अवश्ययष्टव्ये सति यथा शक्यते, तथा यष्टव्यम् इति बाधित्वापि कांचित् प्राप्तिं यजमानः सहायम् उपादास्यते. एवं प्रकरणे प्रतिपदौ भविष्यतः, तस्मान् नोत्क्रष्टव्य इति.
न प्रकृतेर् एकसंयोगात्
प्रकृतिर् हि ज्योतिष्टोमः, प्रत्यक्षास् तत्र धर्मा आम्नाताः, न कुतश्चिच् चोदकेन प्राप्यन्ते. किम् अतः? यद्य् एवम्, प्रत्यक्षश्रुता न शक्या बाधितुम्. विकृतौ तु चोदकप्राप्ताः सन्त आनुमानिका बाध्येरन्न् इति, विवक्षितं हि ज्योतिष्टोमे कर्तुर् एकत्वं प्रत्यक्षश्रुतं न सामर्थ्येन बाध्यते. यत्रापि ह्य् अवश्यकर्तव्यता श्रूयते, तत्राप्य् एक एव यजमानः श्रूयते - वसन्ते वसन्ते ज्योतिषा यजेतेति. तस्माज् ज्योतिष्टोमाद् उत्क्रष्टव्य एते प्रतिपादाव् इति.
अथ कस्मात् पत्न्यभिप्रायम् एतन् न भवति? एकस्यां पत्न्यां यजमाने च, युवं हि स्थ इति, द्वयोर् बहुषु वा पत्नीष्व् एते ऽसृग्रम् इन्दव इति, यथा क्षौमे वसानाव् अग्निमादधीयाताम् इति क्षौमवसानपरं वचनम्, एवम् इहापि प्रतिपद् विधानपरम्. उच्यते - असंभवात् तत्र मुख्यस्य, लक्षणाशब्दः पुंसो [299]{*3।319*} वाचकः स्त्रियाम्, इह तु द्वियज्ञे बहुयज्ञे च संभवति न लक्षणाशब्दो भवितुम् अर्हति, बहुभ्यो यजमानेभ्य इति. यद् अप्य् एतद् द्विवचनं द्वयोर् यजमानयोर् इति, अत्रापि यः, एकशेषः, पुमान् स्त्रियेत्य् असाव् अपि लक्षणाशब्द एव. अपि च, उपास्मै गायता नर इति प्रतिपदोर् निरवकाशत्वम् एव स्यात्. तस्माद् उत्क्रष्टव्ये एते प्रतिपदाव् इति सिद्धम्.
नोतेस्:
*{3।319: ए2: 4,277; ए4: 4,358; ए6: 1,204}*
जाघनी चैकदेशत्वात्
दर्शपूर्णमासयोः श्रूयते - जाघन्या पत्नीः संयाजयन्तीति. तत्र संशयः - किम् एतद् विधानं दर्शपूर्णमासयोः, उत पशाव् इति. कथं दर्शपूर्णमाययोः? कथं च पशाव् इति. यदि जाघन्यां पत्नीसंयाजा विधीयन्ते तत उत्कर्षः, अथ पत्नीसंयाजेषु जाघनी विधीयते ततो दर्शपूर्णमासयोर् एव. किं प्राप्तम्? उत्कर्षः. कुत एतद् उत्कृष्यते? जाघन्यां पत्नीसंयाजा विधीयन्त इति. कथम्? शब्दात् पत्नीसंयाजानां विधानम्, वाक्येन जाघन्याः, शब्दश् च बलवान्, न वाक्यम्.
ननु पत्नीसंयाजा विहिता एव. सत्यं विहिताः, जाघन्याम् इदानीं पुनर् विधीयन्ते, सा तत्संबद्धा कर्तव्येत्य् उच्यते. एवं सति दर्शपूर्णमासयोः पत्नीसंयाजा विनापि जाघन्या न विगुणाः, जाघनी तु तत्र प्रतिपाद्यते. तस्माद् यत्र जाघनी प्रयोजनवती तत्र तस्याः प्रतिपत्तिः, पशौ च सा, न दर्शपूर्ण[300]{*3।320*}मासयोः. एकदेशश् च जाघनी प्रतिपाद्यमाना न पशुं प्रयोक्ष्यते, तस्माद् अस्य विधानस्योत्कर्ष इति.
नोतेस्:
*{3।320: ए2: 4,280; ए4: 4,364; ए6: 1,205}*
चोदना वापूर्वत्वात्
जाघनी वा पत्नीसंयाजानां गुणत्वेन विधीयते. कुतः? अपूर्वतात्, अप्राप्ता जाघनी पत्नीसंयाजानां गुणत्वेन. तत्र स्वशब्देन पत्नीसंयाजा विहिता जाघनीसंबन्धस् तेषाम् अविहितः, यत्र च संबन्धो विधीयते, तत्रान्यतरस्यान्यत्र विधानम्, संबन्धो नान्तरीयकः. यद् वा संबन्धस्य विधानं नान्तरीयकौ संबन्धिनौ, यत्रोभौ लक्षणत्वेन, तत्र स्वशब्देन संबन्धो विधीयते, यत्र त्व् अन्यतरो लक्षणत्वेन, तत्र एकं लक्षयित्वान्यतरो विधीयते, लक्षणत्वेन चात्र पत्नीसंयाजाः. कथम् अवगम्यते? पत्नीसंबन्धान् न सर्वो यागः, कश्चिद् एव तु लक्ष्यते यस्य पत्न्यः साधनत्वेन.
अथ कस्मान् न जाघनीं लक्षयित्वा पत्नीसंयाजा विधीयन्ते? नास्यापूर्वस्य यागस्य पत्न्यः शक्-यन्ते विधातुम्, जाघन्यां तु लक्ष्यमाणायां यागे सपत्नीके विधीयमाने वाक्यं भिद्येत. अस्ति त्व् अत्र विहितः सपत्नीको यागो य पत्नीभिर् लक्ष्यते. तस्माद् यागं लक्षयित्वा जाघनी विधीयते. यत् तु, वाक्येन जाघनीविधानं श्रुत्या यागस्येति, तद् इह यागविधानं न संभवतीत्य् उक्तम्, वाक्यभेदप्रसङ्गात्. तस्माज् जाघनीविधानम्. एवं चेद् दर्शपूर्णमासयोर् विना जाघन्या विगुणः पत्नीसंयाजयागः स्यात्, तस्माद् अनुत्कर्षम् इति.
एकदेश इति चेत्
अथ यद् उक्तम् - एकदेशो जाघनी न पशुं प्रयोक्ष्यते, तस्माद् उत्कर्ष इति. तत् परिहर्तव्यम्.
[301]{*3।321*}
नोतेस्:
*{3।321: ए2: 4,282; ए4: 4,371; ए6: 1,206}*
न प्रकृतेर् अशास्त्रनिष्पत्तेः
न प्रकृतौ दर्शपूर्णमासयोर् जाघनी शास्त्रेनोच्यते. एवं पशोर् निष्पन्नया जाघन्या पत्नीसंयाजा यष्टव्या इति. अविशिष्टा जाघनी विधीयते. सा संभवति दर्शपूर्णमासयोः क्रीत्याप्य् आनीयमाना, तस्माद् अनुत्कर्ष इति.
संतर्दनं प्रकृतौ क्रयणवद् अनर्थलोपात् स्यात्
ज्योतिष्टोमे ऽभिषवणफलके{*3।322*} प्रकृत्य श्रूयते - दीर्घसोमे संतृद्याद् धृत्या इति{*3।323*}. तत्र संदेहः - किं संतर्दनं ज्योतिष्टोम एव, आहोस्विद् दीर्घकालेषु सोमेष्व् इति. उच्यते - नैतल् लुप्तार्थं प्रकृतौ, तस्मान् नोत्कृष्येतेति. आह नन्व् असंतर्दनम् अपि श्रूयते - असंतृणे{*3।324*} भवत इति{*3।325*}. उच्यते - क्रयणवद् विकल्पिष्यते{*3।326*}, यथा हिरण्येन क्रीणाति गवा क्रीणातीत्येवमादीनां विकल्पः, एवम् अत्रापि विकल्पो भविष्यति - संतर्दनम् असंतर्दनं वा भविष्यतीति.
नोतेस्:
*{3।322: ए2,4: ऽधिषवणफलके}*
*{3।323: व्ग्ल्. तैत्.स्. 6.2.11.3}*
*{3।324: ए2: असंतृण्ये, ए4: असंतृष्णे; ए6: असन्तृण्णे}*
*{3।325: व्ग्ल्. तैत्.स्. 6.2.11.3; मैत्.स्. 1.10.13}*
*{3।326: व्ग्ल्. तैत्.स्. 6.1.10.1-2}*
उत्कर्षो वा, ग्रहणाद् विशेषस्य
उत्कृष्यते वा संतर्दनम्, गृह्यते हि विशेषः, दीर्घसोमे [302]{*3।327*} संतृद्याद् इति. ज्योतिष्टोमम् अपेक्ष्य सत्राणि कालतो दीर्घाणि भवन्ति.
नोतेस्:
*{3।327: ए2: 4,285; ए4: 4,375; ए6: 1,206}*
कर्तृतो वा विशेषस्य तन्निमित्तत्वात्
नोत्कृष्येत वा संतर्दनं ज्योतिष्टोमात्. एवं प्रकरणम् अनुगृहीतं भवति, दीर्घसोमशब्दश् च कर्तृतो भविष्यति, दीर्घस्य यजमानस्य सोमो दीर्घसोम इति.
क्रतुतो वार्थवादानुपपत्तेः स्यात्
न चैतद् अस्ति - ज्योतिष्टोमे संनिवेश इति, दीर्घकाले सोमे क्रियेत, क्रतुत एव दीर्घत्वम्, न कर्तृतः. कुतः? अर्थवादानुपपत्तेः, धृत्येत्य् अर्थवादो भवति, धारणायेत्य् अर्थः, दीर्घकाले सोमे पुनः पुनर् ग्रावभिर् अभिहन्यमाने सोमाभिषवणफलकयोर् दारणशङ्कायाम्, धृत्येत्य् अर्थवाद उपपद्यते, तस्माद् उत्कर्ष इति.
संस्थाश् च कर्तृवद् धारणार्थाविशेषात्
इदं पदोत्तरं सूत्रम्. कानि पदानि? अथ किम् अर्थं संस्थासु न निवेशः?. तथा सति प्रकरणम् अनुगृहीतं भविष्यति, दीर्घसोमशब्दश् च. दीर्घकालो ह्य् अग्निष्टोमम् अपेक्ष्योक्थ्यादिषु संस्थासु सोम इति. उच्यते - न संस्थासु दीर्घकालत्वे ऽपि सोमे ऽर्थवाद उपपद्यते, तावान् एव हि तत्र सोमो दश मुष्टीर् मिमीत इति वचनात्. तत्र धारणे न विशेषः कश्चित्, तस्माद् उत्कर्ष एव.
[303]{*3।328*}
नोतेस्:
*{3।328: ए2: 4,287; ए4: 4,380; ए6: 1,207}*
उक्थ्यादिषु वार्थस्य विद्यमानत्वात्
न चैतद् अस्ति - उत्कर्ष इति, प्रकरणानुग्रहाद् अनुत्कर्षः, दीर्घसोमशब्दश् च दीर्घकालत्वाद् उपपद्यते, तत्राप्य् अधिको ऽग्निष्टोमात् सोमः, प्रदानानि हि विवर्धन्ते. तान्य् अविवृद्धे प्रदेये न शक्यानि विवर्धयितुम्. पूर्णे ग्रहे ग्रहशब्दो भवति, तेन न शक्यानि न्यूनानि पात्राणि ग्रहीतुम्. तस्माद् दारणाशङ्कायां धारणम् आशंसितव्यं भवति, तत्र धृत्येत्य् उपपद्यत इति.
अविशेषात् स्तुतिर् व्यर्थेति चेत्
इति चेत् पश्यसि - संस्थास्व् अप्य् अर्थवादो ऽवकल्पते प्रदेयविवृद्ध्येति, नैतद् एवम्, व्यर्थैव हि स्तुतिर् भवेत्. कुतः? सोमाविशेषात्, यावान् एवाग्निष्टोमे सोमः, तावान् एवोक्थ्यादिष्व् अपि संस्थासु, उक्थ्यादिष्व् अपि दशमुष्टिर् एव सोमो ग्रहीतव्यः. नन्व् अर्थात् प्रदेयं विवर्त्स्यतीति. दशमुष्टिः स कथं शक्येत विवर्धयितुम्? त्रिपर्वेति च पर्वसंख्यानियमान् न शक्यो बहुपर्वा ग्रहीतुम्, तस्माद् धारणाविशेषाद् अर्थवादानुपपत्तिः संस्थासु स्यात्, तस्माद् उत्कर्षः.
स्याद् अनित्यत्वात्
नैतद् अस्ति - उत्कर्ष इति, संस्थासु स्यात्, प्रकरणानुग्रहात्. अर्थाच् च प्रदेयविवृद्ध्या दारणशङ्कायाम् अर्थवाद उपपद्यते, केन प्रकारेण प्रदेयं विवर्धिष्यत इति, विप्रकृष्टपर्वा सोमो ग्रहीष्यते. अपि च तृतीये सवन ऽशुर् एको ऽभिषूयते, तस्य प्रमाणं च नाम्नातम्. तम् अनेकपर्वाणं स्थूलपर्वाणं च ग्रहीष्यति, [304]{*3।329*} तेन प्रदेयविवृद्धिर् भविष्यति, अतो ऽर्थवादो ऽवकल्पिष्यते, तस्मात् संस्थासु निवेश इति सिद्धम्.
नोतेस्:
*{3।329: ए2: 4,289; ए4: 4,384; ए6: 1,208}*
संख्यायुक्तं क्रतोः प्रकरणात् स्यात्
ज्योतिष्टोमे प्रवर्ग्यं प्रकृत्य समाम्नायते - न प्रथमयज्ञे प्रवृञ्ज्याद् द्वितीये तृतीये वा प्रवृञ्ज्याद् इति. तत्र संदेहः - किं ज्योतिष्टोमे सर्वेष्व् एव प्रयोगेषु न प्रवर्जितव्यम्, उत प्रथमे प्रयोगे प्रतिषेध इति. किं तावत् प्राप्तम्? ज्योतिष्टोमे प्रतिषेधः. कुतः? यज्ञसंयोगात्, प्रथमशब्देन यज्ञो ऽभिधीयते ज्योतिष्टोमः. तस्य हि प्रथमसंयोगः, एवं समाम्नायते - एष वाव प्रथमो यज्ञानां{*3।330*} यज् ज्योतिष्टोमो य एतेनान्ष्ट्वाथान्येन यजेतेति. यज्ञानां प्रथम इति कृत्वा प्रथमशब्देन ज्योतिष्टोमो ऽभिधीयते, एवं च प्रकरणम् अनुगृह्यते, यदि क्रतोर् एष वादः. तस्मात् संख्यायुक्तः प्रतिषेधो ज्योतिष्टोमस्य प्रवर्ग्यं प्रतिषेधेद् इति.
नोतेस्:
*{3।330: ए2,4: यज्ञो यज्ञानां}*
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वा
न चैतद् अस्ति - यज्ञस्यैष वाद इति, चतुर्ष्व् अपि वेदेषु न, प्रथमयज्ञ{*3।331*} इत्येवंसंज्ञकः कश्चिद् यज्ञो ऽस्ति, भवति तु प्रथमो [305]{*3।332*} यज्ञस्य प्रयोगः, कर्तृसंयोगात्. पूर्वस्य द्वितीयादीन् अपेक्ष्य प्रथमशब्दो भवति, स प्रयोगस्योपपद्यते, न क्रतोः. प्रयोगः श्रवणाद् गम्यते, क्रतुः प्रयोगसंबद्धत्वात्, श्रुतिश् च बलीयसी न लक्षणा. तस्मात् प्रथमे प्रयोगे न प्रवर्जितव्यम् इति.
अथ यद् उक्तम् - ज्योतिष्टोमेन सामानाधिकरण्यात् तद् वचन इति, लक्सणया सामानाधिकरण्यम् इति तत् परिहृतम्. यत् तु प्रथमयज्ञ इति यज्ञशब्देन सामानाधिकरण्यम्, तद् अपि यज्ञशब्दस्य यागवचनत्वाद् अस्मत्पक्षस्याबाधकम्.
नोतेस्:
*{3।331: ए2,4: प्रथम}*
*{3।332: ए2: 4,292; ए4: 4,392; ए6: 1,208}*
पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ
दर्शपूर्णमासयोः समामनन्ति - तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हि स इति{*3।333*}. तत्र संदेहः - किं पौष्णं पेषणं प्रकृतौ, उत विकृताव् इति. किं प्राप्तम्? प्रकृताव् इति. कुतः? प्रकरणात्. ननु प्रकृतौ पूषणं न कस्यचिद् धविषो देवतां समामनन्तीति. उच्यते - प्राकृतीं कांचिद् देवतां पूषशब्दो वक्ष्यति.
एवं प्राप्ते ब्रूमः - यत्र पौष्णं हविर् अस्ति, तत्र तस्य पेसणं विधात्सुं शक्यम्, न च प्रकृतौ पूषास्ति, तस्माद् उत्क्रष्टव्यं पेषणम् इति. यद् उक्तम् - कांचिद् देवतां पूषशब्दो वक्ष्यतीति, ब्रूयात्, यद्य् अन्यत्रापि मुख्यः पूषा न स्यात्. नन्व् अन्यत्र क्रियमाणे प्रकरणम् उपरुध्येत. उपरुध्यताम्, वाक्यं ह्य् अस्योपरोधकम्. अथवा नैवात्र संदेहः, एवम् एव प्राप्तम् उच्यते - पौष्णं पेषणं विकृतौ न प्रकृताव् इति, नास्ति पुष्णः{*3।334*} प्रकृतौ [306]{*3।335*} चोदनेति. किम् अर्थं प्राप्तम् उच्यते? उत्तरत्र कथा वर्तिष्यते.
नोतेस्:
*{3।333: व्ग्ल्. तैत्.स्. 2.6.8.5}*
*{3।334: ए2,4,6: पूष्णः}*
*{3।335: ए2: 4,296; ए4: 4,406; ए6: 1,209}*
तत्सर्वार्थम् अविशेषात्
पौष्णं पेषणं प्रकृतौ श्रूयमाणं विकृताव् इत्य् उक्तम्. तत्र संदेहः - किं चरौ, पशौ, पुरोडाशे च, उत चराव् एवेति. किं तावत् प्राप्तम्? तत् सर्वत्र स्याच् चरौ पशौ पुरोडाशे च. कुतः? अविशेषात्, न कश्चिद् विशेष आध्हीयते, तस्मात् सर्वत्रेति.
चरौ वा, अर्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात्
चरौ पौष्णं पेषणं विनियुज्येत. पुरोडाशे तावत् पेषणम् अर्थाद् एव प्राप्नोति, नैवाम् यथा पुरोडाशो भवति, तद् अर्थं तावन् न वचनम्. पशौ च न स्यात्, हृदयादिषु पिष्यमाणेषु तेषाम् आकारविनाशः स्यात्. तत्र को दोषः? हृदयस्याग्रे ऽवद्यतीति{*3।336*} न हृदयाद् अवदायिष्यते, तथान्यद् अप्य् अवदानं न यथाश्रुताद् अवदास्यते.
ननु शक्यते पिष्टेभ्यो ऽपि हृदयादिभ्यो ऽवदातुम्. नेति ब्रूमः, आकारा हृदयादयः, न मांसानि, उक्तम् एतद् आकृतिः शब्दार्थ इति{*3।337*}. यद्य् अपि पुनस् तदाकृतिकः क्रियते, तथाप्य् अस्योत्सादनप्रदेशं प्रति मुह्येयुः, तस्माच् चरौ पौष्णं पेषणं भविष्यतीत्य् एवम् अर्थं वचनम्.
नोतेस्:
*{3।336: तैत्.स्. 6.3.10.4}*
*{3।337: म्स् 1.3.33}*
चराव् अपीति चेत्
इति चेत् पश्यति भवान् - अर्थविप्रतिषेधान् न पश्वर्थम् [307]{*3।338*} इति. ननु चराव् अप्य् अर्थविप्रतिषेधः, विशदसिद्ध ओदने चरुशब्दम् उपचरन्ति, पिष्यमाणो हि पिष्टकं यवागूर्वा स्यात् खलिर् वा.
नोतेस्:
*{3।338: ए2: 4,298; ए4: 4,411; ए6: 1,210}*
न पक्तिनामत्वात्
अत्रोच्यते - सत्यं विशदसिद्ध ओदने चरुशब्दः प्रयुज्यते, विशदसिद्धश् चरुर् दीयत इति, न त्व् अस्य विशदसिद्धिर् निमित्तम्. यदि विशदसिद्धिर् निमित्तं स्यात्, न पिष्टसिद्धे प्रयुज्येत. तत्रापि हि प्रयुज्यते, पिष्टकचरुः साध्यत इति, अतो ऽन्यद् एतयोः सामान्यम्, तन् निमित्तम्, तद् एतद् उच्यते - न पक्तिनामत्वाद् इति, न चरौ विप्रतिषेधः. कथम्? पक्तिनामत्वात्, पक्तिनामैतत्, चरुर् इति. अनवस्रावितान्तरुष्मपाकेनाभिनिर्वर्त्यस्य भवति चरुशब्दो वाचकः. तेन पिष्ट ओदने विशदौदने च प्रयोक्तारो भवन्ति, चरुर् इति. पक्षोक्तम् एव प्रयोजनम्, पूर्वपक्षे पशाव् अपि पेषणं, सिद्धान्ते चाराव् एव.
एकस्मिन्न् एकसंयोगात्
पौष्णं पेषणं विकृतौ भवति चराव् एवेत्य् उक्तम्. अथेदानीं संदिह्यते - किम् एकदेवत्ये पौष्ण एतद् भवति, उत द्विदेवत्ये ऽपीति. किं द्विदेवत्य उदाहरणम्? राजसूय उत्तरे त्रिसंयुक्ते सौमापौष्णे एकादशकपाले ऐन्द्रापौष्णश् चरुः श्यावो दक्षिणेति, तत्रैन्द्रापौष्ण उदाहरणम्. किं प्राप्तम्? एकदेवत्यस्यैव पेषणम् इति. कुतः? केवलसंयोगात्, यथा चतुर्धाकरणे.
[308]{*3।339*}
नोतेस्:
*{3।339: ए2: 4,300; ए4: 4,415; ए6: 1,210}*
धर्मविप्रतिषेधाच् च
द्विदेवत्ये विप्रतिषिध्येत धर्मः, पूष्णः पेषणम्, नेतरस्य, तत्र यदि पूष्णो भागः पिष्येत, अपिष्ट इतरस्य स्यात्. तत्र विषमः पाको भवेत्, पाकनिमित्तश् च चरुशब्दः स विप्रतिषिध्येत. अथाविरोधं मन्यमाना अपरस्यापि भागं पिंष्युः. भागसंमोहः स्यात्. तत्र को दोषः? अन्यस्य भागो ऽन्यस्य्मा अवदीयेत. तथायथाश्रुतं क्रियेत, तस्माद् अप्य् एकदेवत्ये पेषणम् इति.
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात्
देवतानिमित्तम् एतत् पेषणं श्रूयते - पूषा प्रपिष्टभागः कर्तव्य इति, स च द्विदेवत्ये ऽपि भागे पिष्यमाणे प्रपिष्टभागः कृतो भवति, न यथा चतुर्धाकरणे, तत्र हि तद् धितो निरपेक्षस्य भवति, न सद्वितीयस्य, इन्द्रपीत इति समासो ऽपि निरपेक्षस्य, न सद्वितीयस्य. इह तु प्रपिष्टशब्दस्य भागशब्देन सहान्यपदार्थो बहुव्रीहिः समासः, एषो ऽपि समर्थयोर् एव, न त्व् अत्र द्विदेवत्ये कश्चिद् एवंजातीयको दोषः. तस्माद् एकदेवत्ये द्विदेवत्ये ऽपि वा चराव् अस्य भागः पेष्टव्य एव.
लिङ्गदर्शनाच् च
लिङ्गम् अप्य् एवं भवति - तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हीति{*3।340*}, देवतानिमित्तं पेषणम् इति स्तुतिर् दर्शयति. तथा सौमापौष्णं चरुं निर्वपेन् नेमपिष्टं पशुकाम इति{*3।341*} नेमपिष्टतां दर्शयति. तथार्धं पिष्टम् अर्धम् अपिष्टं भवति द्विदेवत्यत्वायेति देवतानिमित्तम् एव पेषणं दर्शयति.
[309]{*3।342*}
नोतेस्:
*{3।340: तैत्.स्. 2.6.8.5}*
*{3।341: मैत्.स्. 2.1.5}*
*{3।342: ए2: 4,303; ए4: 4,423; ए6: 1,211}*
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्त्वाद् अर्थाभावाद् द्विचराव्{*3।343*} अपेषणं भवति
इदं पदोत्तरं सूत्रम्, नेमपिष्टं भवतीति कस्माद् एतन् न वचनम् इति, उच्यते, यदि वचनम् एतद् भवेत् सौमापौष्णमात्रम् अनूद्य सर्वत्र पेषणं विदध्याच् चरौ पशौ पुरोडाशे च, तत्र सोमापौष्णस्य{*3।344*} चरुसंबन्धे नेमपिष्टसंबन्धे चोभयस्मिन् विधीयमाने वाक्यम् भिद्येत. तस्माद् यो यः सौमापौष्णस् तत्र तत्र नेमपिष्टता, तं प्रति सौमापौष्णमात्रं प्रति{*3।345*} शास्त्रवत्त्वम् अर्धपेषणस्य, पुरोडाशे ऽर्थात् सर्वपेषणे प्राप्ते ऽर्थाभावाच् च पशौ चरौ वापेषणे प्राप्ते वचनम् इदं भवेत्. तत्र चरुशब्दो न विवक्षितस्वार्थः स्यात्, प्रदर्शनार्थः कल्प्येत, पेषणानुवादपक्षे पुनर् नैष विरोधो भवति, तस्माद् भवत्य् एव लिङ्गम्. नन्व् अङ्गनाशभयात् पशोर् अपेषणम्. नेति ब्रूमः - अर्धपेषणे नाङ्गनाशो ऽपिष्टाद् अवदास्यते, पेषणं चादृष्टार्थम्.
नोतेस्:
*{3।343: ए2,4: धि चराव्}*
*{3।344: ए2,4,6: सौमापौष्णस्य}*
*{3।345: ए1 गिब्त् सौमापौष्णमात्रं प्रति इन् क्लम्मेर्न्}*
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नवद् उभयोर् न स्याद् अचोदितत्वात्
एकदेवत्ये वा पौष्णं पेषणं भवितुम् अर्हति, नैन्द्रापौष्णे. कुतः? नैष देवताधर्मो विधीयते, पूष्णो भागः पिष्ट उपयोक्तव्य इति. कस्य तर्हि? अर्थस्य धर्मः. कः पुनर् अर्थः? यागः. कथम् अवगम्यते? न देवताधर्म इति. उच्यते - न हि तस्या भागो ऽस्ति.
ननु यद् देवतायै दीयते, तत् तस्या भागो भवति. उच्यते - एतद् धि देवताम् उद्दिश्य त्यज्यते, न च त्यागमात्रेण देवतास्वत्वं भवति. परिग्रहणेन हि स्वस्वामिसंबन्ध आपद्यते, न च परिगृहीतं देवतयेति किंचन प्रमाणम् अस्ति. यश्{*3।346*} च यं भजते, स [310]{*3।347*} तस्य भागः, न च हविर् देवता भजते, तस्मान् नास्ति पूष्णो भागः.
अथापि कथंचिद् भवेद् भागः, तथापि न देवताया धर्मः पेषणं भवितुम् अर्हति, निष्प्रयोजनो हि तथा स्याद् अयागधर्मत्वात्. कथं तर्हि प्रकरणान्तरे समाम्नातो यागधर्मो भविष्यतीति. उच्यते, वाक्यसंयोगात्. ननु च देवतयैष संयोगः श्रूयते न यागेनेति. उच्यते - भागाभावाद् अनर्थकत्वाच् च न देवतासंयोग इत्य् उक्तम्.
तथापि तु यथा यागसंबन्धो भवति, तथा वक्तव्यम्. तद् उच्यते - अयम् अत्र पूष्णो भागो यः पूषणम् उद्दिश्य त्यज्यते, यस्य द्रव्यस्य त्यागे पूषा देवता, न चैन्द्रापौष्णे भवति पूषा देवता, न स चरुः पूष्णः स्वत्वेन संबध्यते. तस्माद् ऐन्द्रापौष्णे न कश्चिद् अस्ति पूष्णश् चरुणा संबन्धः, केवले तु पूषणि देवताभूते तस्मै संकल्पितो भागो भवति. कथम्? यम् उद्दिश्य संकल्पो भवति स तस्य भाग इति प्रसिद्धिर् एषा, तेन यद्य् अपि पूषा स्वेनोच्चारणेनेन्द्रापूष्णोर् उपकारकम् उच्चारणं कुर्वन्न् उपकारको भवेत्, तथापि न तस्य द्विदेवत्यो भाग इत्य् उच्यते, असंकल्पनात्. केवले पूषणि देवतायां चरोः पेषणं क्रियते, नैन्द्रापौष्णेषु द्विदेवत्येष्व् इति.
नोतेस्:
*{3।346: ए2,4,6: यच्}*
*{3।347: ए2: 4,305; ए4: 4,428; ए6: 1,212}*
हेतुमात्रम् अदन्तत्वम्
यद् उक्तम् - अदन्तको हीति{*3।348*} देवताधर्मं दर्शयतीति. अर्थवाद एष इतरस्मिन्न् अपि पक्ष उपपद्यते.
नोतेस्:
*{3।348: एबेन्द}*
वचनं परम्
दर्शपूर्णमासयोर् आम्नातम् - यत् पुरुषि दितं तद् देवानाम्, यद् अन्तरा, तन् मनुष्याणाम्, यत् समूलम्, तत् पितॄणाम् इति{*3।374*}. तथा - यो विदग्धः, स नैरृतः. यो ऽशृतः, स रौद्रः, य शृतः, स सदेवत्यः{*3।375*}. तस्माद् अविदहता श्रपयितव्यं सदेवत्याय इति{*3।376*}. ज्योतिष्टोमे श्रूयते - यत् पूर्णम्, तन् मनुष्याणाम् उपरि, अधो देवानाम् अधः पितॄणाम् इति{*3।377*}. तथा - घृतं [318]{*3।378*} देवानां मस्तु पितॄणां निष्पक्वं मनुष्याणाम् इति{*3।379*}. तत्र मनुष्यसंबद्धेषु, रौद्रे च संदेहः - किं मनुष्याणां धर्मा विधयः, उत कर्मधर्मा अनूवादाः? अथ यत् प्रकरणं{*3।380*} मनुष्यप्रधानम्, रौद्रं च तत्र निविशेरन्, उतातिथ्ये, उतार्थवाद इति.
किं तावत् प्राप्तम्? एतान्य् अपि तद्वत्, यो निवीते पूर्वः पक्षः स एतेषां पूर्वः पक्षः, यो मध्यमः स मध्यमः, यः सिद्धान्तः स एव सिद्धान्तः. अर्थवत्त्वान् मनुष्यसंबन्धाच् च विधयो मनुष्यधर्माश् चेति पूर्वः पक्षः. उपरि मूले चानियमाल् लाघवम्, अशृतं रोगत्वाद् रौद्रम्, पूर्णे ऽपि श्लक्ष्णत्वाल् लाघवम्. एवं घृतं{*3।381*} शिरसि निहितं मनुष्याणां सुखकरम् एव, अर्थप्राप्तत्वाद् अनुवाद इत्य् उत्तरः पक्षः. विधिः, कर्मधर्मप्रायात् समाख्यानाच् च कर्मधर्म इति पक्षः. अन्वाहार्ये दक्षिणासु चेति वाक्यप्रकरणानुग्रहात् पक्षः. आतिथ्य इति वाक्यभेदप्रसङ्गात्. अर्थवाद इति, प्रकरणाद् विधिनैकवाक्यत्वाद् इति. पर्व प्रतिलुनाति{*3।382*}, उपरि विलाद् गृह्णाति, नवनीतेनाभ्यङ्क्ते, अविदहता श्रपयितव्यम्{*3।383*} इत्य् एभिः सहैषाम् एकवाक्यभावः. तस्माद् एते न विधयो ऽर्थवादा इति.
नोतेस्:
*{3।374: तैत्.स्. 1.6.8.6}*
*{3।375: ए2,4: देवत्यः}*
*{3।376: तैत्.स्. 2.6.3.4}*
*{3।377: तैत्.स्. 1.6.8.4}*
*{3।378: ए2: 4,320; ए4: 4,452; ए6: 1,216}*
*{3।379: तैत्.स्. 6.1.1.4}*
*{3।380: ए2,4: प्रकरणे}*
*{3।381: ए2,4: एवम् आयुतं}*
*{3।382: तैत्.स्. 6.1.1.5}*
*{3।383: तैत्.स्. 2.6.3.4}*
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात्
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0