भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसाश्लोकवार्त्तिक · अध्याय 13

13.1

(?कः।क्व) पुनस् तस्यान्तर्गतिर् अत आह -- इह भवती ति. या तावत् सहस्राच्छते मतिस् सम्भवाख्यं प्रमाणम् इष्यते सानुमानान् न भिद्यते. सहस्राच् छतम् अवियुतिभावाद् अविनाभावाद् अवगम्यते. अतस् तावद् अनुमानान् न भिद्यते. ऐतिह्यप्रमाणम् उक्तं तावद् असत्यम् एव. निधिप्राप्त्यसुरकन्यावशीकरणादि, द्रौपदीपञ्चभर्तृकेत्यादि, यदि तत् सत्यं तदागमाद् (न) भिद्यते. आप्तागमो ह्य् असौ. उक्तं च -- पुरुषोक्तिर् अपि श्रोतुर् आगमत्वं प्रपद्यते. इति. अतो ऽनुमानागमयोर् अन्तर्भावान् न सम्भवैतिह्ययोः पृथगुपन्यासस् सिद्धः.
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम्
अभावपरिच्छेदस् समाप्तः ॥
{3,213} भाष्यपाठो विचार्यः, अत्र भाष्यम् -- ननु भवन्त्व् अन्यानि प्रमाणानि, शब्दस् तु न प्रमाणम्, कुतः? अनिमित्तं विद्यमानोपलम्भनत्वात् इति. अस्यार्थः -- यद्य् अपि सर्वप्रमाणाव्यभिचारान् न प्रमाणसामान्यभाविना धर्मेण शब्दो ऽपि न प्रमाणम्, विशेषेण त्व् आत्मभाविना धर्मेणाप्रमाणम्. तथा हि -- चित्रया पशवो भाव्यन्त इति चित्रया यजेतेत्य् अस्यार्थः. कृतचित्रस्यापि यजमानस्यानन्तरम् अविकलसकलेन्द्रियैर् अपि पशवो न दृश्यन्ते. तन् न नूनम् इष्टिः पशुफलेति भवति मतिः. तद् इदम् उक्तम् अनिमित्तं विद्यमानोपलम्भनत्वात् इति. किम् उक्तं भवति -- उपलम्भनानि हि चक्षुरादीनि पशूनां विद्यन्ते. न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते. तस्माद् उक्तविसंवादाद् अप्रमाणं चित्राचोदनेति. स पुनर् अयम् आक्षेपो गतार्थ उपलक्ष्यते. चोदनासूत्रे हि नन्व् अतथाभूतम् इत्यादिना भाष्यकारेणाक्षेपपरिहाराव् उक्तौ. अतः पुनरुक्तम् इदम् इत्य् आशङ्क्याह -- परलोक इति. अस्यार्थः -- परलोकफला हि तत्र स्वर्गकामो यजेतेत्य् एवमादिचोदना वेदबाह्यबौद्धादिपरमतेनाक्षिप्ताः. इदानीम् ऐहिकफलाश् चित्रादिचोदना आक्षिप्यन्ते. ननूभयीम् अपि चोदनाम् आक्षेप्तुं शक्यत एव वाक्यत्वादयो हेतवः. त एव तत्र भाष्यकारेण यत् किञ्चन लौकिकं वचनम् इति दर्शयतान्तर्णीताः. वार्तिककृतापि -- यदि वा पुरुषाधीनप्रामाण्याः सर्वचोदना इति विवृताः. तस्माद् असद् एतत् परलोकफला एव तत्राक्षिप्ता इति. यद् अपि चेदानीम् ऐहिकाक्षेप इत्य् उक्तं तद् अयुक्तम्, इहापि च -- एवं दृष्टापचारस्य वेदस्य स्वर्गाद्य् अपि फलं नास्तीति मन्यामह इति सर्वाक्षेपः कृतः. वार्तिककारेणापि च
एवं सत्य् अग्निहोत्रादिवाक्येष्व् अपि मृषार्थता
इति वदता. तस्माद् उभयत्राप्य् उभयाक्षेपम् एव न्याय्यं मन्यन्ते. केयं व्यवस्था. अत्रोच्यते. सत्यम् उभयत्राप्य् उभयाक्षेपः, तथापि हेतुभेदाद् अपौनरुक्त्यम्. तथा हि -- तत्र वाक्यत्वादयः परैर् उक्ता आक्षेपहेतवः,{3,214}इदाना तु शब्दशक्तिपरामर्शद्वारेणाभ्यन्तरा एव हेतव उपपत्स्यन्ते. तथा चोकम् --
आनन्तर्यम् अनुक्तं चेन् न सामर्थ्यावबोधनात् ।
इति. सामर्थ्यं हि सर्वाख्यातानाम् अर्थं ब्रुवतां सहकारि. तद् यद्य् अपि नेष्टिर् अनन्तरफलेति श्रुतिः, तथाप्य् अर्थसामर्थ्याद् एतद् अवगम्यते, कथम् अपरथा यदासौ विद्यमानासीत् तदा फलं न दत्तवती, कालान्तरे पुनरसती कथं दास्यति इति. न च पशवो ऽनन्तरम् असम्भवद्भावनाः, स्वर्गो हि नानाक्षिप्तविशिष्टदेहेन्द्रियादिपरिग्रहो भवितुम् उत्सहते, अतो माभूद् अनन्तरम्, अमी पुनः पशवः सम्भवन्ति यजमानस्यात्रैवेति स्वहेतुसमनन्तरम् अनुपलभ्यमाना दृष्टप्रतिग्रहादिहेत्वन्तराः श्रुतचित्रादिफलतया न शक्त्यन्ते ऽवगन्तुम्. अयम् एव तु शब्दशक्तिपरामर्शो वार्तिककृता तार्किकप्रक्रियाम् अनुविदधानेन न वा पशुफलेत्यादिना साधनप्रयोगैर् उपदर्शितः. तद् एवम् ऐहिकफलासु चित्राचोदनास्वाक्षिप्तासु तत्सामान्यादितरासु तथात्वम् इति पुनर् अप्य् अग्निहोत्रादिचोदनाक्षेपे ऽवतिष्ठते. स चायम् ऐहिकाक्षेपद्वारेणापिनोच्यते. अत एव चैहिकाक्षेप इत्य् उक्तम्. एतद् उक्तं भवति -- ऐहिकफलानाम् आमुष्मिकफलानां चायम् ऐहिकाक्षेपपुरस्कारेणैवाक्षेपः, यदामुष्मिकस्वर्गादि तन्मा नाम कर्मानन्तरम् उपलभ्यताम् ऐहिकफलं तु पश्वादि किं नोपलभ्यते, न चेदम् उपलभ्यते, तन् न नूनं तत् फलम् इति ऐहिकफलकर्मचोदनाव्यभिचारेणान्यासाम् अपि परलोकफलानां तत्सामान्याद् आक्षेपः. पूर्वं तु ताः परतः प्रामाण्यम् आश्रित्य परोक्तैर् एव वाक्यत्वादिभिर् हेतुभिर् आक्षिप्ताः. तदुक्तं परैर् इति. परिहारान्तरम् आह -- सूत्रे ति. अयम् अभिप्रायः -- चोदनासूत्रे भाष्यकृता सूत्रकारेण वक्ष्यमाणाक्षेपपरिहारावनागतावेक्षणेन प्रतिज्ञासमर्थनार्थम् उपवर्णितौ. इदानीं तु सूत्रकारेण स्वयम् एवोच्यत इति तेनेदम् एव सर्वचोदनाक्षेपक्षेत्रम् इत्य् उक्तम् इति

13.6

अत्र परिहारे पूर्वोक्त एवाक्षेपहेतुर् इति, तम् उपन्यस्यति -- चित्रे ति फलानीत्य् अन्तेन. अयम् अर्थः -- चित्रापशुफलत्वादिविषयाश् चोदना धर्मिण्यः{3,215}मृषेति साध्यो धर्मः. अधिकृतैः प्रवृत्तिवोग्यैर् अपि प्रत्यक्षादिभिर् अर्थानवगतेः. यदीदृशं तन्मृषा -- यथा विप्रलिप्सोर्वचः. आदिशब्देनाग्निहोत्रादिविषया अपि चोदनाः पक्षीकरोति. ननु विप्रलिप्सुवाक्यम् अत्र दृष्टान्तः. न च तन्नियमेन प्रत्यक्षाद्यसङ्गतार्थम् असत्यं च. तस्माद् उभयविकलो दृष्टान्तः. अत आह -- तत्रे ति. असत्य् अर्थे प्रयुक्तम् एव नदीतीरादिवाक्यम् इह दृष्टान्तः. प्रायेण चैवञ्जातीयकं विप्रलिप्सुर् एव प्रयुङ्क्त इति विप्रलिप्सोर् इत्य् उक्तम् इति ॥ 2 -- 3 ॥
इदानीम् ऐहिकाक्षेप इत्य् उक्तं विवृणोति -- न वे ति वद् अन्तेन. चित्रेष्टिर् धर्मिणी, न पशुफलेति साध्यम्, स्वकाले पश्वदानात्, स्नानादिवद् इति. प्रयोगान्तरम् आह -- ते ऽपी ति. ते पशवो न चित्रासाध्याः, चित्रोत्पत्ताव् असद्भावात् स्वर्गतृप्तिसुखादिवत्. आदिशब्देनात्र भोजनजन्या तृप्तिर् अभिप्रेता. एतौ च प्रयोगौ नेष्टिः पशुफला, कर्मकाले च कर्मफलेन भवितव्यम् इति भाष्योक्तौ वेदितव्याव् इति. अत्रानन्तरं यत्कालं हि मर्दनं तत्कालम् एव मर्दनसुखम् इति भाष्यकारेणोक्तम्, तद् वैधर्म्यदृष्टान्ततया प्रयोगद्वये योजयति -- वैधर्म्येणे ति. चित्रा न पशुफला पशवो न तत्साध्या इत्य् उभयत्रापि प्रयोगे वैधर्म्येण सुखमर्दने भवेताम्, ईदृशी चात्र वैधर्म्यरचना, यद्यत्साध्यं तत्तत्समकाले प्रसूते, मर्दनम् इव सुखम्. यच् च यत्साध्यं तत् तदुत्पत्तौ भवत्य् एव सुखम् इव मर्दनोत्पत्ताव् इति ॥ 4 -- 5 ॥
ननूक्तिविसंवादाद् अप्रामाण्यम् उक्तम्. न च किञ्चिद् इह विसंवादः, न हि कृते कर्मणि तावत्य् एव फलेन भवितव्यम् इति शब्दो ब्रूते, किन् तु अस्येदं{3,216}फलम् इति. एतावति च पर्यवसानात्. अतः कालान्तरे फलं दास्यति. तद् एतद् उक्तम् -- कालान्तरे फलं दास्यतीति चेत् इति, तद् एतद् आह -- आनन्तर्यम् इति. परिहरति -- न सामर्थ्ये ति. साक्षादनुक्तस्यानन्तर्यस्याप्य् अत्र सामर्थ्येनावबोधनं कृतम्, यदैव ह्य् अस्येदं फलम् इत्य् उक्तं तदैवम् अर्थादेवावगम्यते अनन्तरम् अनेन भवितव्यम् इति. कथं नामान्यथासत्कालान्तरे फलं दास्यतीति. नन्व् एवम् अपि सामर्थ्यलभ्यमानन्तर्यम् अनन्तरफलानुपलम्भनेन बाध्यताम्, अविशेषप्रवृत्ता तु चोदना कथं बाध्यते अत आह -- शब्दे ति. न हि सामर्थ्यं नाम पृथक् प्रमाणम्, अपि तर्हि सर्वाख्यातानाम् अर्थं ब्रुवतां शक्तिस् सहकारिणीति शब्दैकदेश एव. अतस् स्रुवावदानम् इवाप्य् अद्रव्येष्व् अर्थाद् अनन्तरम् एव फलं निश्चीयत इति तद्बोधे ऽपि शाब्दबोधो भवत्य् एवेति

13.7

इतश् चानन्तर्यम् अवगम्यत इत्य् आह -- कालान्तरे ति. यदि ह्य् अत्र फलं दास्यतीति ऌङ्श्रोष्यत् तदा तत्सामर्थ्येन कल्पना काचिद् अप्य् अभविष्यत्. अद्य पुनर् अस्येदं कर्मणः फलम् इति पर्यवसिते वचसि सर्वकर्मणाम् अनन्तरफलोपलम्भाद् वैदिकस्यापि चित्रादेश् चोद्यमानस्यापि कर्मणस् तत्स्वाभाव्याद् आनन्तर्यं विशेषणतयावतिष्ठत इति

13.8

अत्रानन्तरम् अपरं भाष्यम् -- दृष्टविरुद्धम् अपि किञ्चित् वैदिकं वचनं स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति. तद् येन विशेषेणोक्तं तम् आह -- अत्रे ति. अत्र हि चित्रादिवाक्येषूक्तिविसंवादाद् अप्रामाण्यम् उक्तम्. उत्तरत्र तु यज्ञायुधिवाक्ये प्रत्यक्षादिविरोध इति विरोधम् अभिद्योतयति -- स्वर्गयान इति. यजमानस्य निरतिशयानन्दात्मनः स्वर्गाद् अतिदूरम् अपभ्रष्टो भस्मीभावः प्रत्यक्षम् उपलभ्यते,{3,217}चित्रादिचोदनासु त्व् अनन्तरफलानुपलम्भमात्रं न तु विरुद्धोपलम्भः कश्चिद् अस्तीति स्याद् अपि कालान्तरे फलकल्पना, भस्मीभूतं तु शरीरं कालान्तरे ऽपि स्वर्गं लोकं यास्यतीति न सम्भवतीति पूर्वस्माद् विशेषः

13.9

अपरम् अपि च एवंजातीयकं प्रमाणविरुद्धं वचनम् अप्रमाणम् -- अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्त इति यथा इति भाष्यम्, तद् व्याचष्टे-- यज्ञे ति वाक्यम् अन्तेन. यज्ञायुधवचो धर्मी, मृषेति साध्यो धर्मः, प्रत्यक्षविरोधात्, यत्प्रत्यक्षविरुद्धं तन्मिथ्या, यथा ग्रावाणः प्लवन्त इति शिला वाक्यं साधर्म्येण यथेति दर्शयितव्यम् इति. वैधर्म्यदृष्टान्तम् आह -- वैधर्म्येणे ति. यदमिथ्या न तत्प्रत्यक्षविरुद्धं यथाप्तभाषितम् इति. पूर्वं तु मर्दनसुखयोर् वैधर्म्ये दृष्टान्ततयोपन्यासाच् छिलावाक्यम् अपि वैधर्म्येण भाष्यकृतोक्तम् इति भ्रान्तिम् अपनेतुं साधर्म्यवैधर्म्यविवेको वार्तिककृता दर्शितः

13.10

ननु प्रत्यक्षविरोधाद् इति हेतुर् असिद्ध एव, अस्ति हि परलोकफलभोक्ता चेतनः कर्मणां कर्ता, स स्वर्गं लोकं यास्यतीति. तम् एवाभिप्रेत्य स्वर्गं लोकं यास्यतीत्य् उक्तम्. अतः को विरोधो ऽत आह -- शरीराद् इति. यदि हि शरीराद् अन्यश् चेतनो भवेत्, भवेद् अपि, न तस्य यज्ञायुधैर् अस्ति कश्चित् सम्बन्धप्रकारः, शरीरस्यैव तु स्रुक्कपालादियज्ञायुधैस् सम्बन्धः, यद्यज्ञायुधी यजमान इति तदभिप्रायेण मत्वर्थसंयोगो घटते. अपि च स एष इत्य् अपरोक्षप्रतिनिर्देशः, सो ऽपि शरीरस्यैव प्रत्यक्षत्वाद् उपपन्नो नात्मनः. तद् एतद् अपि भाष्यकारेणोक्तं हि -- शरीरकं व्यपदिशति इति. किञ् च यजमानशब्दो ह्य् आत्मन्यसमञ्जसः, यागस्य हि कर्ता यजमान इत्य् उच्यते, न च यथाचोदितविततपूर्वापरीभूतानेककर्मक्षणात्मकक्रतुक्रियाकर्तृत्वम् आत्मनस् सम्भवति, विभोः पूर्वापरदेशविभागसं योगफलकर्मणाम् असमवायात्. तद् एतद् आह -- न {3,218} चे ति. अभ्युपगम्य चात्मनस् सद्भावम् इदम् अस्माभिर् उक्तम्, परमार्थेन तु देहेन्द्रियव्यतिरिक्तात्मसद्भावो ऽपि प्रमाणाभावाद् दुर्लभ इत्य् आह -- सद्भाव इति. प्रपञ्चयिष्यते चैतदात्मवाद इतीह न प्रतन्यत इति

13.11

अपरं च -- न चैष यातीति विधिशब्दः इति भाष्यम्. तस्याभिप्रायम् आह -- यदी ति. अस्यार्थः -- यदि ह्य् अत्र यज्ञायुधिवाक्ये विधिशब्दो भवेत्, तदा चित्रादीनाम् अनन्तरफलादर्शनाद् भेदेन विरोधोपन्यासार्थं यज्ञायुधिवाक्योपादानं नोपपद्यते. अतः स्वकृतभेदोपादानसमर्थनार्थं विधिशब्दनिराकरणम् इति

13.12

विधिशब्दे को विशेषः, अत आह -- विधी ति. विधिशब्दे हि कालविशेषानुपादानाद् विधिसामर्थ्याद् एव कालान्तरभावितां फलस्य परिकल्प्य स्याद् अपि चित्रादिचोदनास्विवाभावविरोधपरिहारः. इह तु यातीति वर्तमानापदेशान् न प्रत्यक्षविरोधश् शक्यते परिहर्तुम् इत्य् अदर्शनाद् विशेष इति

13.13

चित्रादिवाक्याभिप्रायेण चेदम् अस्माभिर् उक्तम् -- विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य विरोधश् शक्यते परिहर्तुम् इति. इह तु प्रत्यक्षेण भस्मीभावोपलम्भान् न कालान्तरफलभावितया स्वर्गगमनं फलम् इति शक्यते कल्पयितुम्. न हि विधिसहस्रेणाप्याशङ्कनीयो ऽर्थः शक्यः प्रत्याययितुम्. तद् एतद् आह -- फलं चे ति. किं तर्हि विधिशब्दतानिराकरणस्य फलम् अत आह -- तत्सामर्थ्येनेति. चेतनप्रवर्तनात्मको हि विधिर् अन्तरेण परलोकफलोपभोक्तारम्{3,219}अनुपपद्यमानः कल्पयेद् अपि कायकरणसङ्घातातिरिक्तम् आत्मानम्, तस्य च स्वर्गलोकगमनम् उपचर्येतापि शरीरे, तस्य वा प्रत्यक्षत्वम् आत्मनि भाक्तम् इत्य् एवमादिकल्पनानिषेधार्थं विधिशब्दनिराकरणम् इति

13.14

भूयांश् चायं प्रमाणान्तरविरुद्धो मन्त्रार्थवाद् आत्मको वेदभागः. यथा अदितिर् द्यौरदितिर् अन्तरीक्षं यजमान एककपालः इत्येवमादिः. स च सर्व एवात्र प्रयत्नतो मुख्यतया मिथ्यात्वेन ऐहिकाक्षेपे पक्षीकार्यः, तन्मिथ्यात्वेन चानुषङ्गिकं परेषां मिथ्यात्वं भविष्यतीत्य् अभिप्रायेणाह -- प्राय इति

मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc