मीमांसाश्लोकवार्त्तिक · अध्याय 12
यत्र वस्तुसद्भावबोधार्थं योग्यप्रमाणानुदयस् तत्राभावः प्रमाणम् इत्य् उक्तम्, किं पुनस् तत्रानेन प्रमीयते, अभावस् तावत् स्वप्रमाणैर् एव यथास्वम् अवगम्यते, अत आह -- वस्त्वसङ्कर इति
वस्त्वसङ्करम् एव विवृणोति -- क्षीरे दधी ति सार्धद्वयेन. यो ऽयं कार्यकारणादिना परस्परविवेकश् चतुर्धा दर्शितः स वस्त्वसङ्कर इत्य् आख्यायते. सो ऽभावेन प्रमीयते. शशशृङ्गादिरूपेणे ति. तेन रूपेणालोच्यमानाः शशमूर्ध्न्यवयवा अभावः, स्वरूपेण तु भावा एवेति ॥ 2 -- 4 ॥
असति त्व् अभावप्रामाण्ये सर्वस् सर्वेण सङ्कीर्यत इत्य् आह -- क्षीर इति द्वयेन. एवम् इति. यथा क्षीरे दधि एवं दध्नि क्षीरम् इत्य् अर्थः. शशे शृङ्गम् इत्य् अतः प्रभृत्यत्यन्ताभावासिद्धौ दोषप्रसञ्जनम्. अभावप्रमाणानाश्रयणे हि न शशादिषु शृङ्गादीनाम् आत्यन्तिको ऽभावस् सिध्यति. परिपन्थिनश् च भूतचैतन्यवादिनो न निराकर्तुं शक्यन्ते. महाभूतानां च वाय्वादीनाम्{3,195}आत्यन्तिको गन्धाद्यभावो न सिध्येत्. यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिर् इति ॥ 5 -- 6 ॥
सर्वत्र सङ्करे दोषम् आह -- न चे ति. यो ऽयं कारणादिविभागेन लौकिकानां व्यवहारो दृश्यते, सर्वसङ्करे न स्यात्, क्षीरमानयेति नियुक्तो यत् क्षीरम् एवानयति न दधि, दध्यानयने न क्षीरम्, इदम् असति कार्यकारणादीनाम् इतरेतरविवेके न सिध्यतीति
ननु नाभावो नाम तत्त्वान्तरम् उपलभ्यते, भूतलं हि स्वप्रमाणाद् अवगच्छामः, घटं चासति प्रमाणे न पश्यामः, न तु घटाभावो नामापरः कश्चित् बुद्धौ भवति. घटो नास्तीत्य् अपि घटो न प्रमीयत इत्य् अर्थः, न तु घटाभावः प्रमीयत इति. अतस् सर्वोपाख्याविरहलक्षण एवाभावो न किञ्चित् तत्त्वान्तरम् अत आह -- न चे ति. यत् तावत् भावप्रमाणैर् नोपलभ्यत इति. सत्यम्. अत एवाभावः प्रमाणान्तरम्. घटो नास्तीत्य् अपि नायम् अर्थः घटो न प्रमीयते इति, सन्न् अपि हि घटो न प्रमीयत इत्य् उच्यते. अत एव घटो ऽस्ति न वेति पृष्टो निर्णीताभावो न नास्तीति व्यपदिशति, किन् तु अनुपलब्धिमात्रम्. अतो ऽभावप्रमितिर् एवायं घटो नास्तीति. यश् चायं चतुर्धा भेदो वर्णितः सो ऽपि सर्वोपाख्याविरहलक्षणे ऽभावे न सिध्यति. प्रयोगश् च भवति -- वस्तु अभावः, चतुर्धा भेदाद्, द्रव्यादिवद् इति. यद् अप्य् आहुः -- नाभावो नाम किञ्चित् तत्त्वम्, प्रत्यर्थनियतेन ह्य् आत्मना नीलादयः परस्परं भिद्यन्ते, नैवम् अभावस्य भावात् किञ्चिद् भेदकम्.{3,196}अतो न व्यावृत्तम् उपलभामह इति कथं तत्त्वान्तरम् अवस्थापयामः. तद्व्यवहारस् तु नास्तीति विकल्पशब्दप्रयोगात्मा भावाश्रय एव कथञ्चिद् उपपादनीयः, न त्व् एकाकारप्रतिनियताद् अन्यासंसर्गिणो(?र् अ)भावाद् अन्यो ऽभाव इति. तद् अप्य् एकदेशिनिराकरणेनैव निराकृतम्. अपि च, अविषयो नास्तीति विकल्पः कथं संवेद्यत इति वक्तव्यम्. शब्दसंस्पृष्टं हि रूपं विकल्पस्य विषयः, न चेह तद् अस्ति. न चात्मा विकल्पस्याभिलापसंसर्गयोग्यः, असाधारणत्वात्. अत एवात्मनि निर्विकल्पकत्वात् कल्पना स्वसंवित्तिं प्रत्यक्षाम् आह. यदाह नैनम् इयम् अभिलापेन संसृजति. तथा वृत्तेर् आत्मनि विरोधात् इति. यदि मतं - जात्यादिवदभावविकल्पा अपि समारोपितविषया एव, नानेनाभावविकल्पो दुष्यतीति. तन् न. समारोपितं हि यत् किञ्चिज् जातीयकं तत्प्रतिविकल्पम् अन्यद् अन्यच् च, कथम् एकशब्दालम्बनं भवेत्. कल्पिताकारभेदानध्यवसायाद् एकत्वाध्यवसाय इति चेत्. कस्य तर्हि, न हि नैरात्म्यवादिनाम् एकः कश्चिद् अस्ति प्रतिसन्धाता, यः पूर्वापरयोर् आरोपितैकत्वाध्यवसायाद् एकशब्दं प्रयुञ्जीत. विकल्पास् तु क्षणिकाः स्वविषये नियता नान्योन्यस्य विषयम् अभिनिविशन्त इति कथं प्रतिसान्दधीरन्. असति च विपर्यये समारोपितविषयत्वाभिधानम्
अलीकम् एव. तदवश्यं नास्तीत्य् एकशब्दोपश्लिष्टम् उपेयतयाश्रयणीयं भाववदभावाख्यम् अपि किञ्चिद् अवस्थितं रूपम्. अत एव किं पुनस् तत्त्वम् इत्य् अपेक्षिते सतस् तु सद्भावो ऽसतस् त्व् असद्भाव इति द्वेधैव तत्त्वविद्भिस् तत्त्वम् आश्रितम्. अपि च -- असत्य् अभावे कस्य हेतोर् आहतस्य घटस्यानुपलम्भः, विनष्टत्वाद् इति चेत्. को विनाशः. यदि न किञ्चित्, प्राग्वदुपलम्भप्रसङ्गः. न ह्य् अप्रच्युतप्राच्यार्थक्रियारूपस्यानुपलम्भे घटस्य किञ्चित् कारणम् अधुना पश्यामो यद्य् अस्य विनाशो नाम किम् अपि तत्त्वान्तरं नाश्रीयत इति सिद्धं तत्त्वान्तरम् इति. एतच् चानुपाख्येयत्वम् अभावस्य निराकर्तुम् उक्तम् -- न त्व् अभावो वस्तु, लोकविरोधात्. यथा ह्य् अचन्द्रश् शशीति लोकविरुद्धम्, एवम् अभावो वस्त्व् इति. सत्ता हि वस्तुत्वम्, न चासाव् अभावे समवैति, सदसद्विवेकाभावप्रसङ्गात्. अतो ऽवस्तु. कार्यकरणाद् अभावे वस्तुत्ववादः, न मुख्यतया. अभावो ह्य् अर्थक्रियासमर्थ एव, ज्ञानजननदर्शनात्. विहिताकरणे च प्रागभावस्यैव क्रियान्तरविशेषणतया प्रत्यवायहेतुत्वात्. एवम् उत्तरत्रापि वस्तुताप्रसाधनं वेदितव्यम् इति. इतश् चाभावो{3,197} वस्त्व् इत्य् आह -- कार्यादीनाम् इति. वस्त्व् एव सदसदात्मकम् इति सिद्धान्तः. तत्र कथं वस्तुरूपस्यैवाभावस्य निस्स्वभावत्वम्. किम् इदानीं भावाभावयोर् अभेद एव, नेति वदामः, भेदो ऽपि ह्य् अनयोर् धर्मधर्मितया कियान् अप्य् अस्त्य् एव रूपादीनाम् इव. कः पुनर् अनयोस् सम्बन्धः, संयोगस् समवायो वा, न तावत् संयोगः, द्रव्यधर्मत्वात् तस्य. न च समवायः, भावाभावप्रसङ्गात्. अभावसमवाये हि भावो न स्याद् एव. नाभावसमवायाद् असत्त्वम्, न हि घटो ऽभावसमवायाद् असन् भवति. असति समवायानुपपत्तेः. किन् तु प्रहाराद् एव घटस्याभावः. यत् त्व् अनाहतम् अनपसारं च भावान्तरम् अभावरूपेणावगम्यते तत् कथम् असद् भविष्यति. अतस् स्वहेतोर् एव जायमानो नित्यो वा सर्वो ऽसङ्कीर्णस्वभाव एव जायत इति सिद्धम् अस्य जात्यादिवद् भावधर्मत्वम्. ततश् च वस्तुत्वम् इति
इतश् च वस्तु अभाव इत्य् आह -- यद् वे ति वस्त्व् अन्तेन. अभाव इति सामान्यात्मना प्रागभावादिभेदेन च व्यावृत्त्यात्मना गृह्यमाणो ऽभावस् सामान्यविशेषात्मकः, ततश् च वस्तुविषयप्रयोगार्थः -- अभावो वस्तु, सामान्यविशेषात्मकत्वात् गवादिवद् इति. तस्मिन्न् एव साध्ये हेत्वन्तरम् आह -- प्रमेयत्वाद् इति
नन्व् अयम् असिद्धो हेतुः, औपचारिको हि सामान्यविशेषभावो ऽभावे. एकशब्दवाच्यं सामान्यरूपं दृष्टं गवादि, नानाशब्दवाच्यं च विशेषरूपं शावलेयादि. अतो ऽत्राप्य् औपचारिकस् सामान्यविशेषभावो विवेकज्ञस्य. असति तु विवेके एकशब्दनिबन्धनभ्रम एवायम् -- अभावस् सामान्यविशेषात्मेति. अत आह -- न चे ति. सति हि बाधके भ्रान्तिर् उपचारो वा कल्प्यते, न चेह तथेति भाव इति
{3,198} एवं तावत् नास्तीत्य् अस्यार्थस्यासन्निकृष्टस्य इति यद् उक्तं भाष्ये तद् विवृतम्. इदानीं प्रमाणाभावशब्दं व्याचष्टे -- प्रत्यक्षादेर् अनुत्पत्तिर् इति. अनुत्पत्तिर् एव केति चेद् अत आह -- सात्मन इति. आत्मनो हि ज्ञानात्मकः परिणामः. तद् यदा आत्मा भूतलादौ न घटादिज्ञानात्मना परिणमति सा तस्य प्रत्यक्षाद्यनुत्पत्तिः स्वरूपावस्थानं प्रमाणाभाव इत्य् आख्यायते, तत्प्रामाण्ये च नास्तीति ज्ञानं फलम्. नास्तीत्य् एव वा भावज्ञानं प्रत्यक्षाद्यनुत्पत्तिर् इत्य् उच्यते, अतस् तद् एव प्रमाणम्, (?ना।हा)नादिबुद्धिः फलम् इति विवेकः
ननु यदि द्व्यात्मकं वस्तु, तर्हि सकृद् एव तथा प्रतिभातम् इति किं प्रमाणान्तरेणात आह -- स्वरूपे ति. स्वरूपेण तद्वस्तु गवादि सद्रूपम् अश्वादिरूपेण चासद्रूपम्. तद् अस्मिन्न् एव द्विरूपे किञ्चिद् एव कदाचित् प्रतीयते न तु सर्वात्मकम् एव गृहीतव्यम् इति नियम इति
किं पुनः कारणं द्व्यात्मकस्यैकम् एव रूपं गृह्यते नापरं किञ्चिद् अत आह -- यस्य यत्रे ति. उद्भूतं हि गृह्यते नानुद्भूतम्, अग्नेर् इव रात्रौ रूपं न स्पर्शः, जिघृक्षितं वा प्रायेण. अतो यद् एव सदसतोर् उद्भूतं भवति तेनैव बुद्धिव्यपदेशौ भवतः. चेत्यते ऽनुभव इति किम् इदम्, न ह्य् अनुभवश् चेत्यते, स एव चेतना, विषयस् तु चेत्यते. सत्यम्. विषयप्राप्त्यन्यथानुपपत्त्यानुभवो ऽपि चेत्य् अत एव. तद् अनेन प्रकारेण विषयप्रकाशम् एव दर्शयतीत्य् अदोष इति
{3,199} उद्भूतजिघृक्षितैकग्रहणे चेतरस् तदनुगुणतयैव लीनो भूत्वावतिष्ठते. सामान्यविशेषयोर् इवैकग्रहणे ऽन्यतर इत्य् आह -- तस्ये ति. इदं चान्वारुह्यवचनेनास्माभिर् उक्तम्. अस्त्य् एव तु भावाभावप्रतीताव् अन्यतरानुगम इत्य् आह -- उभयोर् इति
उभयानुगमम् एव दर्शयति -- अयम् एवे ति द्वयेन. अयम् एवेति. भावान्तरेणासङ्कीर्ण इत्य् अर्थः. न ह्य् अप्रतिसंहिते भावान्तराभावे सङ्कीर्णस्वभावो न निश्चेतुं शक्यते. नास्तीत्य् अपि प्रतिषेध्यप्रतिषेधाधारभावोपष्ठम्भनवर्जितं न किञ्चित् ज्ञानं जायते. किञ्चिच् छब्देन भावस्याभावानुगमशून्यम् अपि ज्ञानम् अस्त्य् एव, न त्व् एवम् अभावस्येति दर्शयति ॥ 15 -- 16 ॥
दर्शितं तावत् सदसदात्मकं वस्त्व् इति. कदाचित् किञ्चिद् अनुभूयत इति च. उभयोर् अंशयोर् इदानीं प्रमाणविभागं दर्शयति -- प्रत्यक्षादी ति
कथं पुनर् इदम् अवगम्यते, विस्फारिताक्षस्य हि सहसा नेह घटो ऽस्ति, अघटं वा भूतलम् इत्य् अभावविशिष्टं भूतलज्ञानं जायमानम् उपलभ्यते(?){3,200}दण्डिप्रत्यक्षवत्, तदभावस्याप्रत्यक्षत्वे नावकल्पते. न ह्य् अप्रत्यक्ष एव विशेषणे विशिष्टः प्रत्यक्षो भवति, दण्ड इव दण्डी. न च नास्त्य् एव विशिष्टा धीर् इति वक्तव्यम्, अनाश्रयाभावसंवित्त्यभावात्. अपि चात्मा भावस्याभावः, स कथं स्वतन्त्रो ऽनुभूयते. न हि रूपादयो भावधर्माः स्वतन्त्रा एवावसीयन्ते. स्वतन्त्राभाववादस् तु स्वातन्त्र्यम् एव, सदसदात्मके वस्तुनीति हि दर्शयति. भावांशो ऽभावांश इति च विस्पष्टं तदभावविशिष्टं ग्रहणम् इत्य् आह. किञ्चास्य स्वातन्त्र्ये प्रमाणम्, न ह्य् अयं कदाचिद् अपि तथावसीयते. किम् इदानीम् अभावो नावसीयत एव, स्वतन्त्रो वावसीयते. न तावत् पूर्वः कल्पः, तदवगमे प्रमाणान्तराभावात् नित्यासंवित्तिप्रसङ्गात्. न च संयोगप्रतिषेधे स्वतन्त्राभावावसायो ऽस्ति, प्रतियोगिसंयोगप्रतिषेधात्मैव ह्य् अभावः, स चाधारतन्त्र एवेति संयुक्तविशेषणत्वलक्षणया प्रत्यासत्त्या सतीन्द्रियसन्निकर्षे ऐन्द्रियज्ञानगोचर एव. एकं कीदं विशिष्टं ज्ञानम्. तदस्याभावः प्रमाणम् इन्द्रियं वा, यद्य् अभावः स तर्हि भावम् अपि गोचरयेत्. न चैतद् इष्टम्. अतस् सत्य् उपलभ्यमाने तदैव यन् नोपलभ्यते तन् नास्तीति सत एव प्रकाशकम् असतो ऽपीति न प्रमाणविभागं पश्यामः. अत आह -- न तावद् इति. तावच्छब्दो लिङ्गापेक्षया. तच् चोपरिष्ठान् निराकरिष्यत इति. अत्र कारणम् आह -- भावांशे ति. योग्यता हि कार्यदर्शनसमधिगम्या, सा चेन्द्रियाणां भावात्मकग्रहण एवोपलभ्यते नाभावे ऽपि. विनापि तु तेन तद्ग्रहणाद् इति वक्ष्यामः. अत्र तु योग्यतासहिता प्राप्तिर् इन्द्रियार्थयोस् सम्बन्ध इत्य् अभिप्रायः. यत् त्व् एकज्ञानसंसर्गिणोर् एकप्रमाणत्वम् इति. तन् न. एकस्या अपि बुद्धेर् नानाकारणत्वदर्शनात्. एकं हीदं भावनेन्द्रियसभाहारजं प्रत्यभिज्ञानम् इति वक्ष्यामः. एकज्ञानप्रतिभासिनोर् अपि च गृह्यमाणस्मर्यमाणयोर् विवेक उक्तः. विविक्ता एव ते ह्य् अर्था इति. न हि स्मृत्युपस्थापितनाम् अविशिष्टो डित्थो न प्रत्यक्षो भवति. नाम चाप्रत्यक्षं स्मर्यमाणत्वात्, तस्यागृहीते हि विशेषणे विशिष्टो
नावगम्यते नाप्रत्यक्षे. एवम् इहापि प्रमाणाभावोपनीताभावविशिष्टे सत्य् उपलभ्यमाने न किञ्चिद् अनुपपन्नम्. दण्डिन्य् अपि शाब्दे तावद् दण्डपदोपनीतविशेषणविशिष्ट एव प्रत्ययार्थो न दण्डो ऽपि. प्रत्यक्षं तु योग्यतयोभयत्र प्रवर्ततां नाम, न चैवम् उभयत्राक्षाणां योग्यता. अभावज्ञाने तदनपेक्षाया{3,201} वक्ष्यमाणत्वात्. किम् इदानीम् अनुमाने ऽपि प्रत्यक्षानुमानसमाहारजो विशिष्टबोधः. न. अनुमानस्यान्वयाधीनजन्मत्वात्. विशिष्टेनैव चान्वयानुगमात्. धूमवान् अग्निमान् इति हि व्याप्तिर् अवगता. उक्तं च --
नैवं न ह्य् अत्र लिङ्गस्य शक्त्यनन्तत्वकल्पना ।
इति. अत्रापि चायम् अग्निमान् इति विशेषबोधे ऽस्त्य् एव प्रत्यक्षापेक्षा. अयम् एवाभावस्य प्रतीतिप्रकारः, यत्प्रमाणान्तरप्रापिताश्रयं विशिनष्टीति न किञ्चिद् अनुपपन्नम्. यच् च संयुक्तविशेषणतया इन्द्रियसन्निकर्षो ऽभावस्येत्य् उक्तम्, तद् अयुक्तम्. असम्बद्धस्य विशेषणत्वानुपपत्तेर् अतिप्रसक्तेः. इतरथा विशेषणार्थम् अर्थितेनैव सन्निकर्षोपपत्तौ वृथैव संयुक्तविशेषणार्थत्वाश्रयणम् इत्य् अलमनेनेति
अभिप्रायम् अजानानश् चोदयति -- नन्व् इति. प्राप्तिमात्रं ह्य् अर्थेन्द्रिययोस् सन्निकर्षः. अस्ति च भावाद् अभिन्नस्याभावस्य भाववद् एवेन्द्रियप्राप्तिर् इति. अत्र च योग्यताया उद्धाटनेनैवोत्तरं देयम्, तदुपेक्ष्यैव तावदत्यन्ताभेदम् एवायम् आह, तद् एतम् एव तावन्निराकरो(?षी।मी)त्य् अभिप्रायेणाह -- न ही ति. यदि भावाभावयोर् एकान्तम् अभेद एव स्यात् ततो भावेन्द्रियसन्निकर्षे तदभिन्नस्याभावस्यापि स्यात्, न त्व् एवम् अस्ति. अभावस्यापि रूपादिवदत्यन्ताभेदाभावाद् इति
रूपादितुल्यताम् एवाभावस्य दर्शयति -- धर्मयोर् इति. भावाभावात्मनोर् धर्मयोर् धर्म्यभेदे ऽपि स्थिते भेदो ऽपीष्ट इत्य् अर्थः. भेदे कारणम् आह -- उद्भवे ति. भावाभावयोर् अप्य् उ(?द्भवा।द्भूता)भिभूतयोर् ग्रहणाग्रहणव्यवस्था दृश्यते. न चैतद् एकत्वे कल्पिते. न ह्य् एकम् एव तत्त्वम् उद्भूतम् अभिभूतं चेति प्रतीयत इति
{3,202} इदं चानयोर् विवेककारणम् इत्य् आह -- इदम् एवे ति. अक्षानपेक्षता चाभावधियो वक्ष्यत इति
अयं च ग्राहकभेदनिबन्धनो भेदो रूपादीनाम् इति कैश्चिद् इष्यते. सो ऽनयोर् अपि शक्यते ऽवगन्तुम् इत्य् आह -- रूपादेर् इति. एवं हि केचिद् वदन्ति -- यथा ह्य् एकम् एव मुखं मरतकपद्मरागाद्युपाधिभेदाद् भिन्नम् इव प्रतिभाति, यथा चैक एव पुरुषो ऽपेक्षाभेदात् पुत्रादिभेदभिन्न इव गृह्यते, यथैकम् एव तत्त्वं श्रोत्राद्युपाधिभेदाद् भिन्नम् इव प्रतिभाति, एवम् इहापि भावाभावयोर् औपाधिको भेदो भविष्यतीति. नन्व् एवम् औपाधिके भेदे तात्त्विकम् एकत्वं प्राप्नोति. भवत्व् अस्मिन् मते, तथापि रूपादिव्यवस्था सिध्यत्य् एवेति
इदं चान्वारुह्यवचनेनास्माभिर् उक्तम्, न हि रूपादीनां ग्राहकभेदनिबन्धनो भेदः, किन् तु बुद्धिभेदनिबन्धन एव, मुखं हि प्रमाणान्तराद् एकरूपम् अवगतं तदुपाधिभेदाद् भिद्यत इति युक्तम्. न त्व् एकत्वे रूपादीनां किञ्चित् प्रमाणम् अस्ति, नित्यम् एव वैलक्षण्यात्. अयं च बुद्धिभेदो भेदहेतुर् भावाभावयोर् अपि समान एवेत्य् अभिप्रायेणाह -- बुद्धिमात्रे ति. कः पुनर् अयं भावाभावात्मको धर्मी, यद्धर्मौ भावाभावौ, नैकं रूपादिसमुदायाद् भिन्नम् उपलभ्यते, वृत्त्यादिविकल्पाक्षमत्वात्. अतो देशाद्यभिन्नानां रूपादीनां समुदायो धर्मी, न तत्त्वान्तरम् अत आह -- न चे ति. नात्र वन इव बाधिका बुद्धिर् अस्तीति भावः. इदं च सविकल्पकसिद्धाव् उक्तम् अप्य् अभावाश्रयसमर्थनार्थम् अत्रोक्तम् इत्य् अपुनरुक्ततेति
{3,203} एवं तावदभावस्य भावाद् भेदाभेदौ दर्शितौ. ताव् एव रूपादिदृष्टान्तेन द्रढयति -- सद्गुणद्रव्ये ति. न हि रूपादयस् सदादिरूपेण न भिद्यन्त इति स्वरूपापेक्षयापि तेषां भेदश् शक्यते वारयितुम्, तथा वा भेद इति न सदाद्यात्मनाभेदः प्रतिक्षिप्यते. एवम् अभावो ऽपि भावधर्मतया ततो भिन्नो ऽपि स्वरूपापेक्षयाभिन्न इष्यते. द्रव्यरूपेणे ति. रूपादयो द्रव्याद् अभिन्नाः, तच् चाभिन्नम् इति तद्रूपेणैषाम् अभेद इत्य् अर्थः
स्वरूपापेक्षया रूपादिवद् भेदानाश्रयणे भावाभावयोर् अन्यतरत्र न बुद्धेस् सदसद्रूपता भवेद् इत्य् आह -- यदी ति
अस्ति त्व् असाव् इन्द्रियसम्बन्धासम्बन्धहेतुको बुद्धिभेद इत्य् आह -- सत्सम्बन्ध इति. एतेन, यद् आहुः -- न भावाद् भेदकम् अभावस्य रूपम् उपलभामह इति, तन्निराकृतम्. सदसद्रूपविवेकाद् इति. यद् इन्द्रियेण संयुज्यते भूतलं तद् अस्तीति प्रतीयते, यन् न सम्बध्यते घटादि तन्नास्तीति प्रतीयत इति
नन्व् इन्द्रियव्यापारानन्तरम् एवेह घटो नास्तीति ज्ञानम् उत्पद्यते, तत् कुतो ऽयं विवेको नेन्द्रियेणाभावबुद्धिर् जन्यत इति. न ह्य् असति तद्व्यापारे भावबुद्धिवदभावबुद्धिर् अपि जायमाना दृश्यते. यद्य् अपि भावाद् अभावो भिद्यते, तथापि तस्य रूपादिवत्संयुक्तसमवायेन वा तद्विशेषणतया वेन्द्रियसन्निकर्षो{3,204}स्त्य् एव. अतस् तज्ज्ञानम् ऐन्द्रियकं भवेद् अत आह -- गृहीत्वे ति. अयम् अभिप्रायः -- नानाश्रयो ऽभावः शक्यते ग्रहीतुम् इत्य् आश्रयग्रहणार्थम् एवात्रेन्द्रियापेक्षा नाभावग्रहणाय, यथा नास्मृते प्रतियोगिन्य् अभावो गृह्यत इति तत्स्मरणार्थं प्राचीनज्ञानजन्मनस् संस्कारस्योद्बोधो ऽप्य् अपेक्षितः, एवम् आश्रयग्रहणार्थम् इन्द्रियम्. न च प्राप्तिमात्रम् ऐन्द्रियकज्ञानजन्मनि कारणम्. अपि तु योग्यतासहिता प्राप्तिर् इति प्रत्यक्षे वर्णितम्. न चेन्द्रियाणाम् अभावज्ञानजननयोग्यता, तेष्व् असत्स्व् अपि तद्भावाद् इति वक्ष्यते. मानसम् इति को ऽर्थः. किं सुखादिज्ञानवन्मनसा जन्यत इति. यद्य् एवं तथापि प्रत्यक्षतैव. न चान्तर् इव बहिर्मनसस् स्वातन्त्र्यम् अस्ति. सत्यम्. सर्वप्रमाणसाधारणस् तु मनसो व्यापारो ऽत्र कथितः. केवलात्ममनस्सन्निकर्षाद् एव बाह्येन्द्रियानपेक्षं प्रमाणाभावेनाभावज्ञानं जन्यत इत्य् उक्तं भवति. गृहीत्वा स्मृत्वेति च धर्मधर्मिणोर् अभेदात् समानकर्तृकत्वाभिधानम् इति
कथं पुनर् इदम् अवगम्यते भावग्रहणम् इन्द्रियापेक्षं नाभावग्रहणम् इति. समानो हि तद्भावभावः. अत आह -- स्वरूपे ति. यो हि गृहस्वरूपम् एवावधार्य क्वचिद्गतः पृच्छ्यते -- तत्र चैत्रो ऽस्ति न वेति, तदासौ पृष्टस् तत्र नास्तितां तदैव प्रतिपद्यते. यदि त्व् इन्द्रियाधीनम् अभावज्ञानं भवेत् नासति तद्व्यापारे जायेत. न च पूर्वावगताभावस्मरणम् एवेति वाच्यम्. न ह्य् असति प्रतियोगिस्मरणे भावो दृश्यते. न चाश्रयग्रहणकाले प्रतियोगिस्मरणम् अस्ति. बहूनाम् एव हि पृष्टेनाभावः कथ्यते. न च तावतां स्मरणं तत्रासीद् इति चिन्तयितुं शक्यते. यदि तूच्यते सामान्येनाभावो ऽवगतः, सम्प्रति विशेषेण स्मर्यत इति, तद् अयुक्तम्. न ह्य् अभावत्वं नाम सामान्यम् अस्ति, विशेषाणाम् एव स्मृतिविपरिवर्त्तिनाम् एवाभावो ऽवसीयते. न च सामान्यतो ऽवगतो विशेषेण स्मर्यत इति, युक्तम्. पूर्वानुभवाहितभावनाबीजा हि सा स्मृतिः, नाल्पम् अव्यतिरेकं गोचरयितुम् उत्सहते. अतस् तदानीम् एव प्रतियोगिस्मरणपुरस्सरम् इन्द्रियानपेक्षम् अभावज्ञानं जायत इति मनोहरम् इदम्. तद् इदम् उक्तं तदैव प्रतिपद्यत इति. इदं च प्रत्यक्षफलस्मृतिनिवृत्त्या फलतः प्रत्यक्षानवृत्तिर् इत्य् उक्तम् एवेति
{3,205} एवं तावदक्षजत्वम् अभावधियो निराकृत्तम्. इदानीं लैङ्गिकत्वं निराकरोति -- न चाप्य् अत्रे ति. अत्र चोदयति -- भावांशे ति.
परिहरति -- तदानीम् इति मतिर् अन्तेन. द्वाव् अत्र भावौ प्रतिषेध्यः प्रतिषेधाधारश् च, तत्र न तावत् प्रतिषेध्यो लिङ्गम्, अवगतं हि लिङ्गं भवति. न च तदा घटो गृह्यते, न हि तस्मिन् गृह्यमाणे तदभावो ग्रहीतुं शक्यते. तद् इह प्रतिज्ञाहेत्वोर् विरोधः. सति भावे तदभावो न प्रतिज्ञातुं शक्यते. सत्यां तु प्रतिज्ञायां नासतो ऽदृष्टस्य लिङ्गत्वम्. अतो नाभावे जिघृक्षितेजिघृक्षितप्रतिषेध्यभावो लिङ्गम् इति ॥ 29 -- 30 ॥
अस्तु तर्हि प्रतिषेधाधारभावो लिङ्गम् अत आह -- न चैष इति. एष इति परोपस्थितम् अपरोक्षं भावं निर्दिशति. यथार्थे पक्षीकृते पदम् अतद्धर्मतया न हेतुर् इत्य् उक्तम्, एवम् एषो ऽपि भूतलभावो न घटाद्यभावधर्म इति. अपि चान्वयाधीनात्मलाभम् अनुमानज्ञानम्, न च भूतलभावस्य सर्वैर् अभावैस् सम्बन्धो ज्ञायते. तत् कथं ततस् ते प्रत्येष्यन्त इत्य् आह -- सहे ति
अस्तु तावद् अभावान्वयः क्वचिद् भूतलादौ भावे, सद्भावो ऽपि यस्य घटादेः कदाचित् ज्ञातः तस्यापि तत्राभावो ऽवगम्यत इत्य् आह -- क्वचिद् इति
{3,206} न केवलं यद्य् अत्र कदाचिद् दृष्टं तन्मात्रस्य तत्राभावो ऽवगम्यते, यस्यापि तु यत्राभावो न दृष्टपूर्वस् तस्यापि तत्राभावो ऽवगम्यत इत्य् आह -- यत्रे ति
यदि तु येन केनचिद् एकेनाभावेन गृहीतसम्बन्धाद् भावाद् अभावान्तरानुमानम् इष्यते, ततो ऽतिप्रसक्तिर् इत्य् आह -- कस्यचिद् इति
न चैवम् अस्तीति व्यतिरेकेण दर्शयति -- गृहीते ऽपि च भावांशे नैवाभावे ऽन्यवस्तुनः. सर्वस्य मतिर् इत्य् अन्तेन. अनैकान्तिकश् चायं भावो ऽभावान्तरैर् अपि सम्बन्धात्. अतो ऽनैकान्तिकत्वाद् अस्य घटादेर् अभावं गमयितुम् अलिङ्गत्वम् इत्य् आह -- एवं व्यभिचाराद् अलिङ्गते ति
अपि च सम्बन्धग्रहणं सम्बन्धिग्रहणाधीनम्. तद् इहाभावाख्ये सम्बन्धिनि ग्रहीतव्ये किं प्रमाणम् इति वक्तव्यम् इत्य् आह -- सम्बन्ध इति
न तावल् लिङ्गम् अविदितसम्बन्धं तदवधारणे प्रमाणम्, इतरेतराश्रयं हि तथा स्याद् इत्य् अभिप्रायेणाह -- तदानीम् इति. अतो ऽवश्यं तद्ग्रहणे प्रमाणान्तरम् अर्थनीयम् इत्य् आह -- तत्रे ति
{3,207} अत्रेदानीम् अनुपलब्धिलिङ्गवादिनो बौद्धस्य प्रत्यवस्थानम् आह -- प्रत्यक्षादेर् इति. द्वेधा हि हेतवो बौद्धैर् विभज्यन्ते -- कार्यं स्वभाव इति, अनुपलब्धिश् चैकज्ञानसंसर्गिणोर् एकोपलब्धिर् एव, तस्याश् च स्वरूपं ज्ञेयरूपं च प्रकाशते इति ज्ञानज्ञेयस्वभावा. न ह्य् असौ स्वरूपम् इव ज्ञेयसत्ताम् अपि व्यभिचरति. तस्याश् च स्वसाध्येन नास्तीति विकल्पशब्दात्मकव्यवहारेण तद्योग्यतया वा तादात्म्यम् एव प्रतिबन्धः. न ह्य् असौ नास्तीति व्यवहारं व्यभिचरति शिंशपेव वृक्षताम्. तद् एवं ज्ञातप्रतिबन्धानुपलब्धिः यो नाम भ्राम्यन् विविक्तदेशोपलब्धाव् अपि घटाय घटते तं प्रति नास्तीति व्यवहारं तद्योग्यतां वानुमापयति. एवं च घटाद्यभावानुपलब्धिप्रयोगः -- यद् दृश्यं हि सद् यत्र नोपलभ्यते तत् तत्र नास्ति. नोपलभ्यते चोपलभ्यमाने देशे दृश्यो घट इति. एतद् अपि दूषयति -- न विशेषणसम्बन्धस् तस्या इति. य एवानुपलब्ध्यानुमातुम् इष्यते घटाभावो नास्तीति व्यवहारस् तद्योग्यता वा नैकेनापि विशेषेणानुपलब्धेस् सम्बन्धो ऽवगतः, कथं ततो विशेषानुमानम्. भूतलोपलब्धिर् हि सा, तस्याश् च नानाविधानेकघटपटादिविषया नास्तीति व्यवहारा दृश्यन्त इति कथं विशेषेण घटो नास्तीति व्यवहारयेत्. घटानुपलब्धिर् असौ, अतो घटाभावं तद्व्यवहारं वा प्रसाधयतीति चेत्. कस् तस्या घटेन सम्बन्धः. देशोपलब्धिर् हि सा, तावद् एव तस्या घटानुपलब्धित्वम्. तच् च सर्वान् प्रत्यविशिष्टम् इति कथम् एकेनैव व्यपदिश्यते न चेद् घटाभावो नाम कश्चित्. कस्माच् च सत्य् अपि घटे घटो नास्तीति व्यवहारो न प्रवर्तते. सद्व्यवहारविरोधाद् इति चेत्. कथं घटानुपलब्धौ सद्व्यवहारः. अस्ति हि तदानीम् अपि देशोपलब्धिः. विविक्तोपलब्धिर् हि घटानुपलब्धिः, नासौ घटे सतीति चेत्, को विवेकार्थ इति. नन्व् अयम् अभाव एव. तदभावे ऽनर्थकं विविक्तवचनम्, अतो ऽनुपलब्धेर् अयम् अपि विशेषो दुस्साध एव, यदसति घटे नास्तीति व्यवहारो न सतीति. यच् चेदं घटाभावम् अतिलङ्घ्य नास्तीति व्यवहारानुमानम् अवस्थितं तद् अपि केन विशेषेणेति न विद्मः. सो ऽपि भावातिरेकी न कश्चिद् उपलभ्यते. योग्यता तदनतिरेकिणी तस्मिन् बुद्धे बुद्धैवेति न किञ्चिद् अनुमेयं पश्यामः. वार्तिककारेण त्व् इदम् उपेक्ष्यैव तावद् दूषणान्तरम्
उक्तम् इति
{3,208} अभावसामान्येन त्व् अनुपलब्धेस् सम्बन्धस् सिध्यत्य् एव, न त्व् अभावसामान्ये प्रमाणम् उपजायत इत्य् आह -- सामान्ये ति. विशेषास् त्व् अनैकान्तिकतया नानुपलब्ध्या बोधयितुं शक्यन्त इत्य् आह -- व्यभिचाराद् इति
अपि च -- नानवगतरूपं लिङ्गम् अनुमाने लिङ्गं भवति, तद् इयं प्रत्यक्षाद्यनुत्पत्तिर् अभावत्वाद् अपरेण लिङ्गेनावगन्तव्या. एवं हि वदन्ति, यावान् कश्चित् प्रतिषेधः स सर्वो ऽनुपलब्धेर् एवेति. एवं च तत्र तत्र सदृशापरापरलिङ्गानुसारेणानवस्थापात इत्य् आह -- न चे ति द्वयेन. एतच् चोपलब्ध्यभावो ऽनुपलब्धिर् इत्य् आपाद्योक्तम्, विविक्तेतरपदार्थो ऽनुपलब्धिर् इति तु प्रत्युक्तम् इति ॥ 40 -- 41 ॥
एवं यो ऽप्य् असौ लिङ्गिरूपाभावः सो ऽपि सम्बन्धग्रहणार्थम् अवश्यं प्रथमम् अवगन्तव्यः. तदवगमे ऽपि तद्रूपापरलिङ्गाभ्युपगमाद् अनवस्थैव. अतः क्वचिद् अवश्यम् अनुमानाभावात् प्रमाणान्तरम् अभ्युपगन्तव्यम् इत्य् आह -- लिङ्गे ति
यदि तु नास्तीति बुद्धिर् एव लिङ्गम् इत्य् उच्यते तन् न. फलं हि सा, प्रत्यक्षाद्यनुत्पादस्य कथं तल्लिङ्गम्, तत्सिद्ध्यर्थम् एव हि लिङ्गम् इष्यते.{3,209}सिद्धायां तु बुद्धौ किं लिङ्गेन. तद् एतद् आह -- ने ति. यदि सा फलं किं तर्हि प्रमाणम् अत आह -- तस्यैवे ति. यस्यैव सा फलं तद् एव प्रत्यक्षाद्यनुत्पत्तेः फलानन्तर्यात् प्रमाणम् इति
किञ् च सौगतसमयसिद्धानुमानलक्षणग्रन्थानुसारेणापि न प्रत्यक्षाद्यजन्मनो ऽनुमानत्वम् इत्य् आह -- त्रिलक्षणे ति. एवं हि ते पठन्ति. त्रिरूपाल् लिङ्गतो ऽर्थदृगनुमानम् इति. न चानुत्पत्तिर् उत्पत्तेः प्रागभावो बुद्धेः केनचिज् जन्यते, प्राग् एव त्रिलक्षणेन हेतुनेति. ननु च हेतुतयानुपलब्धिर् अनुमानम् इष्यते, न त्व् अनुमितिर् अनुमानम् इति भावसाधनतया. अतः किं तन्निरासेन. सत्यम्, अहेतुतया तावदनुमानत्वं निराकृतम् एव. अनेन तु लक्षणानन्तःपातो वर्ण्यत इति
अत्र चोदयति -- ( मानम् इति)प्रमाणता हि भावात्मना व्याप्ता प्रत्यक्षादिष्व् अवगता, तन्निवृत्त्या निवर्त्यत इति भावः. इतरस् तु -- वर्णितो ऽस्माभिः प्राग्भावानाम् असङ्करश् चतुर्धा. न च तद्बोधस्य भावबोधवैलक्षण्यम् उपलभ्यते, बाधविरहसामान्यात्. स च प्रामाण्ये कारणं न भावस्वरूपता. सा तु प्रामाण्यं प्रत्यप्रयोजिकैव कथंचित् तेषु सङ्गता, अतो नाभावत्वेनाप्रामाण्यं भवति. भावे तु प्रमेये तदप्रमाणम् एवेत्य् अभिप्रायेणाह -- प्रमेयम् इति. अनुरूपम् एवेदं यदभावे ऽभावः प्रमाणम् इत्य् आह -- मेय इति
यथा भावात्मके मेये ऽभावः प्रमाणं नानुरूपं तथा तदभावे भाव इत्य् आह -- भावात्मक इति
{3,210} न भावात्मकम् एव प्रमाणम् इति राजाज्ञा, यद् एव तु परिच्छेदफलं तद् एव तु प्रमाणम्, तच् च प्रत्यक्षाद्यजन्मनो ऽपि समानम् इत्य् आह -- भावात्मकस्ये ति ॥ [47] ॥
स्याद् एतत् -- वस्तुन एव प्रामाण्यदर्शनान् नावस्तुनो ऽनुपलब्धेः प्रमाणत्वम् इति. तथा च सति बौद्धानाम् अपि लिङ्गप्रमेयत्वे न स्याताम्, ते ऽपि हि नावस्तुनो दृष्टे इत्य् आह -- यदी ति सार्धेन. अनुज्ञाने दोषम् आह -- तथा सती ति. न च स्याद् व्यवहारो ऽयम् इति कारणादिविभागेनोक्तो व्यवहार इत्य् अर्थः ॥ 48 -- 49 ॥
अपक्षधर्मत्वाद् अपि प्रत्यक्षाद्यनुत्पत्तिर् न लिङ्गम् इत्य् आह -- प्रमाणानाम् इति. नाभावे पक्षीकृते प्रत्यक्षाद्यनुत्पत्तिस् तद्धर्मतयावगम्यते. अभावेन सम्बन्धाभावाद् इत्य् अभिप्राय इति. नन्व् अभावविशिष्टं भूतलं साधयिष्यामः, तच् च पूर्वम् अवगतम् इति तद्धर्मो भविष्यतीत्य् अत आह -- यत्रे ति. न हि भूतले प्रत्यक्षानुत्पत्तिः, ज्ञायमानत्वात् तस्येति
घटस्य तर्हि धर्मो भविष्यति तद्गोचरे प्रत्यक्षादीनाम् अनुत्पत्तेर् अत आह -- य इति. सत्यम्. यत्र प्रत्यक्षादीनि नोत्पद्यन्ते तद्धर्मता कथञ्चिद् भवेद् अपि, न त्व् असाव् इह प्रमीयते. धर्मधर्मित्वयोर् अभावात्. न हि{3,211}तद्धर्मिणं कृत्वाभावविशिष्टता साध्यते तस्याप्रतीतेः. नापि तद्विशिष्टं भूतलादि, तदानीं तस्य तत्राभावाद् इति
अभावस्य तु सा धर्मो भविष्यति तद्विषयत्वात् तस्याः. अभावे हि प्रमेये सा लिङ्गं भवत्य् एव. किन् तु नासञ्चेतितो ऽभावो विषयो भविष्यति, ज्ञाते च प्रमेयाभाव इत्य् आह -- अभावेने ति
अन्यस् तु न कश्चिद् अभावेनानुत्पत्तेस् सम्बन्धप्रकारो विद्यते, येन तद्धर्मताम् अनुगम्यानुमानं भविष्यतीत्य् आह -- संयोग इति. इतश् चापक्षधर्मत्वम् इत्य् आह -- नागृहीत इति. न ह्य् अगृहीते पर्वते धूमस् तद्धर्मतयावगम्यते. अथ तद्वदभावो ऽपि प्राक् प्रतीयत इत्य् उच्यते, सिद्धं तर्हि साध्यत इति
एवं प्रत्यक्षानुमानाभ्यां प्रसाधितं भेदं प्रयोगेण दर्शयति -- अभावशब्दे ति
प्रयोगान्तरम् आह -- अभावो ऽपी ति भावा न्तेन. अतस् सिद्धं भावात्मकात् प्रमाणाद् अन्यत्वम् अभावस्येत्य् उपसंहरति -- तस्माद् इति
वेदोपयोगम् अभावस्य दर्शयति -- कर्माणी ति. यो ऽयं सर्वकर्मणां फलासङ्करः परस्परासङ्करश् च परस्परम् अङ्गाङ्गिभावाभावः, नासाव् अभावप्रामाण्यादृते{3,212}सिध्यतीति. (? यथे ति. यावत् तावद् यथावद् इति.) इहे ति. वेदं प्रति निर्देश इति
ननु च व्यासमतानुसारिणोपमानातिरिक्तं प्रमाणद्वयम् उपवर्णितम्, ऋषिणा च सम्भवैतिह्ययोर् अपि प्रमाणत्वम् आश्रितम्, तत्परित्यागे कारणं वक्तव्यम् अत आह -- युक्ती ति. प्रमाणषट्कम् एव हि युक्त्या सङ्गच्छते. आगमानुगतश् च. आगमश् च मीमांसातन्त्रम्, अतो युक्त्यागमाभ्याम् इह शाबरे भाष्ये प्रमाणषट्कम् एव प्रविविच्य तर्कितम्. यत् तु द्वयम् अधिकम् इष्टं तद् अत्रैवान्तर्गतम् इति
मूल पाठ: Mīmāṃsāślokavārttika · Edition: K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0