मत्स्य पुराण · अध्याय 97
यदारोग्यकरं पुंसां यदनन्तफलप्रदम्
यच्छान्तये च मर्त्यानां वद नन्दीश तद्व्रतम् ॥
यत्तद्विश्वात्मनो धाम परं ब्रह्म सनातनम्
सूर्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम् ॥
तदाराध्य पुमान्विप्र प्राप्नोति कुशलं सदा
तस्मादादित्यवारेण सदा नक्ताशनो भवेत् ॥
यदा हस्तेन संयुक्तम् आदित्यस्य च वासरम्
तदा शनिदिने कुर्याद् एकभक्तं विमत्सरः ॥
नक्तमादित्यवारेण भोजयित्वा द्विजोत्तमान्
पत्त्रैर्द्वादशसंयुक्तं रक्तचन्दनपङ्कजम् ॥
विलिख्य विन्यसेत्सूर्यं नमस्कारेण पूर्वतः
दिवाकरं तथाग्नेये विवस्वन्तमतः परम् ॥
भगं तु नैरृते देवं वरुणं पश्चिमे दले
महेन्द्रमनिले तद्वद् आदित्यं च तथोत्तरे ॥
शान्तमीशानभागे तु नमस्कारेण विन्यसेत्
कर्णिकापूर्वपत्त्रे तु सूर्यस्य तुरगान्न्यसेत् ॥
दक्षिणे ऽर्यमनामानं मार्तण्डं पश्चिमे दले
उत्तरे तु रविं देवं कर्णिकायां च भास्करम् ॥
रक्तपुष्पोदकेनार्घ्यं सतिलारुणचन्दनम्
तस्मिन्पद्मे ततो दद्याद् इमं मन्त्रमुदीरयेत् ॥
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः
यस्मादग्नीन्द्ररूपस्त्वम् अतः पाहि दिवाकर ॥
अग्निम् ईडे नमस्तुभ्यम् इषेत्वोर्जे च भास्कर
अग्न आयाहि वरद नमस्ते ज्योतिषां पते ॥
अर्घ्यं दत्त्वा विसृजाथ निशि तैलविवर्जितम्
भुञ्जीत वत्सरान्ते तु काञ्चनं कमलोत्तमम्
पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा ॥
सुवर्णशृङ्गीं कपिलां महार्घ्यां रौप्यैः खुरैः कांस्यदोहां सवत्साम्
पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं पुरुषं च दद्यात् ॥
सम्पूज्य रक्ताम्बरमाल्यधूपैर् द्विजं च रक्तैरथ हेमशृङ्गैः
संकल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतदानकाय
अव्यङ्गरूपाय जितेन्द्रियाय कुटुम्बिने देयमनुद्धताय ॥
नमो नमः पापविनाशनाय विश्वात्मने सप्ततुरंगमाय
सामर्ग्यजुर्धामनिधे विधात्रे भवाब्धिपोताय जगत्सवित्रे ॥
इत्यनेन विधिना समाचरेद् अब्दभेकमिह यस्तु मानवः
सो ऽधिरोहति विनष्टकल्मषः सूर्यधाम धुतचामरावलिः ॥
धर्मसंक्षयमवाप्य भूपतिः शोकदुःखभयरोगवर्जितः
द्वीपसप्तकपतिः पुनः पुनर् वर्ममूर्तिर् अमितौजसा युतः ॥
या च भर्तृगुरुदेवतत्परा वेदमूर्तिदिननक्तमाचरेत्
सापि लोकममरेशवन्दिता याति नारद रवेर्न संशयः ॥
यः पठेदपि शृणोति मानवः पठ्यमानमथ वानुमोदते
सो ऽपि शक्रभुवनस्थितो ऽमरैः पूज्यते वसति चाक्षयं दिवि ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0