मत्स्य पुराण · अध्याय 96
फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद
यदक्षयं परं लोके सर्वकामफलप्रदम् ॥
मार्गशीर्षे शुभे मासि तृतीयायां मुने व्रतम्
द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा
आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ॥
अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम
सदक्षिणं पायसेन भोजयेच्छक्तितो द्विजान् ॥
अष्टादशानां धान्यानाम् अन्यच्च फलमूलकम्
वर्जयेदब्दमेकं तु ऋते औषधकारणम्
सवृषं काञ्चनं रुद्रं धर्मराजं च कारयेत् ॥
कूष्माण्डं मातुलिङ्गं च वार्ताकं पनसं तथा
आम्रातकं कपित्थानि कलिङ्गमथ वालुकम् ॥
श्रीफलाश्वत्थबदरं जम्बीरं कदलीफलम्
काश्मरं दाडिमं शक्त्या कालधौतानि षोडश ॥
मूलकामलकं जम्बू तिन्तिडीकरमर्दकम्
कङ्कोलैलाकतुण्डीर करीरकुटजं शमी ॥
औदुम्बरं नारिकेलं द्राक्षाथ बृहतीद्वयम्
रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश ॥
ताम्रं तालफलं कुर्याद् अगस्तिफलमेव च
पिण्डारकाश्मर्यफलं तथा सूरणकन्दकम् ॥
रक्तालुकाकन्दकं च कनकाह्वं च चिर्भिटम्
चित्रवल्लीफलं तद्वत् कूटशाल्मलिजं फलम् ॥
आम्रनिष्पावमधुक वटमुद्गपटोलकम्
ताम्राणि षोडशैतानि कारयेच्छक्तितो नरः ॥
उदकुम्भद्वयं कुर्याद् धान्योपरि सवस्त्रकम्
ततश्च कारयेच्छय्यां यथोपरि सुवाससी ॥
भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम्
धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने
सपत्नीकाय सम्पूज्य पुण्ये ऽह्नि विनिवेदयेत् ॥
यथा फलेषु सर्वेषु वसन्त्यमरकोटयः
तथा सर्वफलत्याग व्रताद्भक्तिः शिवे ऽस्तु मे ॥
यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ॥
यथा फलान्यनन्तानि शिवभक्तेषु सर्वदा
तथानन्तफलावाप्तिर् अस्तु जन्मनि जन्मनि ॥
यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान्
तथा ममास्तु विश्वात्मा शंकरः शंकरः सदा ॥
इति दत्त्वा च तत्सर्वम् अलंकृत्य च भूषणैः
शक्तिश्चेच्छयनं दद्यात् सर्वोपस्करसंयुतम् ॥
अशक्तस्तु फलान्येव यथोक्तानि विधानतः
तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ ॥
विप्राय दत्त्वा भुञ्जीत वाग्यतस्तैलवर्जितम्
अन्यान्यपि यथाशक्त्या भोजयेच्छक्तितो द्विजान् ॥
एतद्भागवतानां तु सौरवैष्णवयोगिनाम्
शुभं सर्वफलत्याग व्रतं वेदविदो विदुः ॥
नारीभिश्च यथाशक्त्या कर्तव्यं द्विजपुंगव
एतस्मान्नापरं किंचिद् इह लोके परत्र च
व्रतमस्ति मुनिश्रेष्ठ यदनन्तफलप्रदम् ॥
सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः
भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम
तावद्युगसहस्राणि रुद्रलोके महीयते ॥
एतत्समस्तकलुषापहरं जनानाम् आजीवनाय मनुजेषु च सर्वदा स्यात्
जन्मान्तरेष्वपि न पुत्रवियोगदुःखम् आप्नोति धाम च पुरंदरलोकजुष्टम् ॥
यो वा शृणोति पुरुषो ऽल्पधनः पठेद्वा देवालयेषु भवनेषु च धार्मिकाणाम्
पापैर्वियुक्तवपुरत्र पुरं मुरारेर् आनन्दकृत्पदमुपैति मुनीन्द्र सो ऽपि ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0