भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 95

95.1

भगवन्भूतभव्येश तथान्यदपि यच्छ्रुतम्
भुक्तिमुक्तिफलायालं तत्पुनर् वक्तुमर्हसि ॥

95.2

एवमुक्तो ऽब्रवीच्छम्भुर् अयं वाङ्मयपारगः
मत्समस्तपसा ब्रह्मन् पुराणश्रुतिविस्तरैः ॥

95.3

धर्मो ऽयं वृषरूपेण नन्दी नाम गणाधिपः
धर्मान्माहेश्वरान् वक्ष्यत् यतःप्रभृति नारद ॥

95.4

इत्युक्त्वा देवदेवेशस् तत्रैवान्तरधीयत
नारदो ऽपि हि शुश्रूषुर् अपृच्छन्नन्दिकेश्वरम्
आदिष्टस्त्वं शिवेनेह वद माहेश्वरं व्रतम् ॥

95.5

शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम्
त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्दशी ॥

95.6

मार्गशीर्षत्रयोदश्यां सितायामेकभोजनः
प्रार्थयेद्देवदेवेशं त्वामहं शरणं गतः ॥

95.7

चतुर्दश्यां निराहारः सम्यगभ्यर्च्य शंकरम्
सुवर्णवृषभं दत्त्वा भोक्ष्यामि च परे ऽहनि ॥

95.8

एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः
कृतस्नानजपःपश्चाद् उमया सह शंकरम्
पूजयेत्कमलैः शुभ्रैर् गन्धमाल्यानुलेपनैः ॥

95.9

पादौ नमः शिवायेति शिरः सर्वात्मने नमः
त्रिनेत्रायेति नेत्राणि ललाटं हरये नमः ॥

95.10

मुखमिन्दुमुखायेति श्रीकण्ठायेति कंधराम्
सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ ॥

95.11

अघोरहृदयायेति हृदयं चाभिपूजयेत्
स्तनौ तत्पुरुषायेति तथेशानाय चोदरम् ॥

95.12

पार्श्वौ चानन्तधर्माय ज्ञानभूताय वै कटिम्
ऊरू चानन्तवैराग्य सिंहायेत्यभिपूजयेत् ॥

95.13

अनन्तैश्वर्यनाथाय जानुनी चार्चयेद्बुधः
प्रधानाय नमो जङ्घे गुल्फौ व्योमात्मने नमः ॥

95.14

व्योमकेशात्मरूपाय केशान्पृष्ठं च पूजयेत्
नमः पुष्ट्यै नमस्तुष्ट्यै पार्वतीं चापि पूजयेत् ॥

95.15

ततस्तु वृषभं हैमम् उदकुम्भसमन्वितम्
शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम्
भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ॥

95.16

प्रीयतां देवदेवो ऽत्र सद्योजातः पिनाकधृक्
ततो विप्रान्समाहूय तर्पयेद्भक्तितः शुभान्
पृषदाज्यं च संप्राश्य स्वपेद्भूमावुदङ्मुखः ॥

95.17

पञ्चदश्यां च सम्पूज्य विप्रान्भुञ्जीत वाग्यतः
तद्वत्कृष्णचतुर्दश्याम् एतत्सर्वं समाचरेत् ॥

95.18

चतुर्दशीषु सर्वासु कुर्यात्पूर्ववदर्चनम्
ये तु मासे विशेषाः स्युस् तान्निबोध क्रमादिह ॥

95.19

मार्गशीर्षादिमासेषु क्रमादेतदुदीरयेत्
शंकराय नमस्ते ऽस्तु नमस्ते करवीरक ॥

95.20

त्र्यम्बकाय नमस्ते ऽस्तु महेश्वरमतः परम्
नमस्ते ऽस्तु महादेव स्थाणवे च ततः परम् ॥

95.21

नमः पशुपते नाथ नमस्ते शम्भवे पुनः
नमस्ते परमानन्द नमः सोमार्धधारिणे ॥

95.22

नमो भीमाय इत्येवं त्वामहं शरणं गतः
गोमूत्रं गोमूयं क्षीरं दधि सर्पिः कुशोदकम् ॥

95.23

पञ्चगव्यं ततो बिल्वं कर्पूरं चागुरुं यवाः
तिलाः कृष्णाश्च विधिवत् प्राशनं क्रमशः स्मृतम्
प्रतिमासं चतुर्दश्योर् एकैकं प्राशनं स्मृतम् ॥

95.24

मन्दारमालतीभिश्च तथा धत्तूरकैरपि
सिन्दुवारैरशोकैश्च मल्लिकाभिश्च पाटलैः ॥

95.25

अर्कपुष्पैः कदम्बैश्च शतपत्त्र्या तथोत्पलैः
एकैकेन चतुर्दश्योर् अर्चयेत्पार्वतीपतिम् ॥

95.26

पुनश्च कार्त्तिके मासे प्राप्ते संतर्पयेद्द्विजान्
अन्नैर् नानाविधैर् भक्ष्यैर् वस्त्रमाल्यविभूषणैः ॥

95.27

कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः
उमामहेश्वरं हैमं वृषभं च गवा सह ॥

95.28

मुक्ताफलाष्टकयुतं सितनेत्रपटावृताम्
सर्वोपस्करसंयुक्तां शय्यां दद्यात् सकुम्भकाम् ॥

95.29

ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम्
स्थाप्य विप्राय शान्ताय वेदव्रतपराय च ॥

95.30

ज्येष्ठसामविदे देयं नवकव्रतिने क्वचित्
गुणज्ञे श्रोत्रिये दद्याद् आचार्ये तत्त्ववेदिनि ॥

95.31

अव्यङ्गाङ्गाय सौम्याय सदा कल्पाणकारिणे
सपत्नीकाय सम्पूज्य वस्त्रमाल्यविभूषणैः ॥

95.32

गुरौ सति गुरोर्देयं तदभावे द्विजातये
न वित्तशाठ्यं कुर्वीत कुर्वन्दोषात्पतत्यधः ॥

95.33

अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम्
सो ऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥

95.34

ब्रह्महत्यादिकं किंचिद् यदत्रामुत्र वा कृतम्
पितृभिर्भ्रातृभिर्वापि तत्सर्वं नाशमाप्नुयात् ॥

95.35

दीर्घायुरारोग्यकुलान्नवृद्धिर् अत्राक्षयामुत्र चतुर्भुजत्वम्
गणाधिपत्यं दिवि कल्पकोटि शतान्युषित्वा पदमेति शम्भोः ॥

95.36

न बृहस्पतिरप्यनन्तमस्याः फलमिन्दो न पितामहो ऽपि वक्तुम्
न च सिद्धगणो ऽप्यलं न चाहं यदि जिह्वायुतकोटयो ऽपि वक्त्रे ॥

95.37

भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम्
इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा ॥

95.38

या वाथ नारी कुरुते ऽतिभक्त्या भर्तारमापृच्छ्य सुतान्गुरून्वा
सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc