मत्स्य पुराण · अध्याय 94
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ॥
श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः
चतुर्भुजः श्वेतरोमा वरदः स्याद् धरासुतः ॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥
देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः
बाणबाणासनधरः कर्तव्यो ऽर्कसुतस् तथा ॥
करालवदनः खड्ग चर्मशूली वरप्रदः
नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः
स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0