भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 93

93.1

वैशम्पायनम् आसीनम् अपृच्छच्छौनकः पुरा
सर्वकामाप्तये नित्यं कथं शान्तिकपौष्टिकम् ॥

93.2

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत्
वृद्ध्यायुः पुष्टिकामो वा तथैवाभिचरन्पुनः
येन ब्रह्मन्विधानेन तन्मे निगदतः शृणु ॥

93.3

सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम्
ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिचोदिताम् ॥

93.4

पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्
ग्रहान्ग्रहाधिदेवांश्च स्थाप्य होमं समारभेत् ॥

93.5

ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः
प्रथमो ऽयुतहोमः स्याल् लक्षहोमस्ततः परम् ॥

93.6

तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः
अयुतेनाहुतीनां च नवग्रहमखः स्मृतः ॥

93.7

तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम्
गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ॥

93.8

वप्रद्वयावृतां वेदिं वितस्त्युच्छ्रायसंमिताम्
संस्थापनाय देवानां चतुरस्रामुदङ्मुखाम् ॥

93.9

अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान्
देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ॥

93.10

सूर्यः सोमस्तथा भौमो बुधजीवसितार्कजाः
राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः ॥

93.11

मध्ये तु भास्करं विद्याल् लोहितं दक्षिणेन तु
उत्तरेण गुरुं विद्याद् बुधं पूर्वोत्तरेण तु ॥

93.12

पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके
पश्चिमेन शनिं विद्याद् राहुं पश्चिमदक्षिणे
पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतण्डुलैः ॥

93.13

भास्करस्येश्वरं विद्याद् उमां च शशिनस्तथा
स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् ॥

93.14

ब्रह्माणं च गुरोर्विद्याच् छुक्रस्यापि शचीपतिम्
शनैश्चरस्य तु यमं राहोः कालं तथैव च ॥

93.15

केतोर्वै चित्रगुप्तं च सर्वेषामधिदेवताः
अग्निरापः क्षितिर्विष्णुर् इन्द्र ऐन्द्री च देवताः ॥

93.16

प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः
विनायकं तथा दुर्गां वायुराकाशमेव च
आवाहयेद्व्याहृतिभिस् तथैवाश्विकुमारकौ ॥

93.17

संस्मरेद्रक्तमादित्यम् अङ्गारकसमन्वितम्
सोमशुक्रौ तथा श्वेतो बुधजीवौ च पिङ्गलौ
मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः ॥

93.18

ग्रहवर्णानि देयानि वासांसि कुसुमानि च
धूपामोदो ऽत्र सुरभिर् उपरिष्टाद् वितानिकम्
शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम् ॥

93.19

गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम्
अङ्गारकाय संयावं बुधाय क्षीरषष्टिके ॥

93.20

दध्योदनं च जीवाय शक्राय च घृतौदनम्
शनैश्चराय कृसराम् अजामांसं च राहवे
चित्रौदनं च केतुभ्यः सर्वभक्ष्यैरथार्चयेत् ॥

93.21

प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम्
चूतपल्लवसंछन्नं फलवस्त्रयुगान्वितम् ॥

93.22

पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम्
स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् ॥

93.23

गङ्गाद्याः सरितः सर्वाः समुद्रांश्च सरांसि च
गजाश्वरथ्यावल्मीक संगमाद्ध्रदगोकुलात् ॥

93.24

मृदमानीय विप्रेन्द्र सर्वौषधिजलान्विताम्
स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित् ॥

93.25

सर्वे समुद्राः सरितः सरांसि च नदास्तथा
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥

93.26

एवमावाहयेदेतान् अमरान्मुनिसत्तम
होमं समारभेत्सर्पिर् यवव्रीहितिलादिना ॥

93.27

अर्कः पलाशखदिराव् अपामार्गो ऽथ पिप्पलः
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥

93.28

एकैकस्याष्टकशतम् अष्टविंशतिरेव वा
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥

93.29

प्रादेशमात्रा अशिफा अशाखा अपलाशिनीः
समिधः कल्पयेत्प्राज्ञः सर्वकर्मसु सर्वदा ॥

93.30

देवानामपि सर्वेषाम् उपांशु परमार्थवित्
स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् ॥

93.31

होतव्यं च घृताभ्यक्तं चरुभक्षादिकं पुनः
मन्त्रैर्दशाहुतीर्हुत्वा होमं व्याहृतिभिस्ततः ॥

93.32

उदङ्मुखाः प्राङ्मुखा वा कुर्युर्ब्राह्मणपुंगवाः
मन्त्रवन्तश्च कर्तव्याश् चरवः प्रतिदैवतम् ॥

93.33

हुत्वा च तांश्चरून्सम्यक् ततो होमं समाचरेत्
आकृष्णेति च सूर्याय होमः कार्यो द्विजन्मना ॥

93.34

आप्यायस्वेति सोमाय मन्त्रेण जुहुयात्पुनः
अग्निर्मूर्धा दिवो मन्त्र इति भौमाय कीर्तयेत् ॥

93.35

अग्ने विवस्वदुषस इति सोमसुताय वै
बृहस्पते परिदीया रथेनेति गुरोर्मतः ॥

93.36

शुक्रं ते अन्यदिति च शुक्रस्यापि निगद्यते
शनैश्चरायेति पुनः शं नो देवीति होमयेत् ॥

93.37

कया नश्चित्र आभुवद् इति राहोरुदाहृतः
केतुं कृण्वन्न् अपि ब्रूयात् केतूनामपि शान्तये ॥

93.38

आ वो राजेति रुद्रस्य बलिहोमं समाचरेत्
आपो हि ष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा ॥

93.39

विष्णोरिदं विष्णुरिति तमीशेति स्वयम्भुवः
इन्द्रम् इद्देवतातेति इन्द्राय जुहुयात्ततः ॥

93.40

तथा यमस्य चायं गौर् इति होमः प्रकीर्तितः
कालस्य ब्रह्म जज्ञानम् इति मन्त्रः प्रशस्यते ॥

93.41

चित्रगुप्तस्य चाज्ञातम् इति मन्त्रविदो विदुः
अग्निं दूतं वृणीमह इति वह्नेरुदाहृतः ॥

93.42

उद् उत्तमं वरुणमित्य् अपां मन्त्रः प्रकीर्तितः
भूमेः पृथिव्यन्तरिक्षम् इति वेदेषु पठ्यते ॥

93.43

सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः
इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते ॥

93.44

उत्तानपर्णे सुभगे इति देव्याः समाचरेत्
प्रजापतेः पुनर्होमः प्रजापतिरिति स्मृतः ॥

93.45

नमो ऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते
एष ब्रह्मा य ऋत्विग्भ्य इति ब्रह्मण्युदाहृतः ॥

93.46

विनायकस्य चानूनम् इति मन्त्रो बुधैः स्मृतः
जातवेदसे सुनवाम दुर्गामन्त्रो ऽयमुच्यते ॥

93.47

आदित्प्रत्नस्य रेतस आकाशस्य उदाहृतः
क्राणा शिशुर्महीनां च वायोर्मन्त्रः प्रकीर्तितः ॥

93.48

एषो उषा अपूर्व्या इत्य् अश्विनोर्मन्त्र उच्यते
पूर्णाहुतिस्तु मूर्धानं दिव इत्यभिपातयेत् ॥

93.49

अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः
पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम् ॥

93.50

अव्यङ्गावयवैर्ब्रह्मन् हेमस्रग्दामभूषितैः
यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः ॥

93.51

सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः
वासुदेवो जगन्नाथस् तथा संकर्षणो विभुः
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥

93.52

आखण्डलो ऽग्निर्भगवान् यमो वै निरृतिस्तथा
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः
ब्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते ॥

93.53

कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः
बुद्धिर्लज्जा वपुः शान्तिस् तुष्टिः क्रान्तिश्च मातरः
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥

93.54

आदित्यश्चन्द्रमा भौमो बुधो जीवः सितो ऽर्कजः
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥

93.55

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः
ऋषयो मुनयो गावो देवमातर एव च ॥

93.56

देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥

93.57

औषधानि च रत्नानि कालस्यावयवाश्च ये
सरितः सागराः शैलास् तीर्थानि जलदा नदाः
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥

93.58

ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः
सर्वौषधैः सर्वगन्धैः स्नापितो द्विजपुंगवैः ॥

93.59

यजमानः सपत्नीक ऋत्विजः सुसमाहितान्
दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः ॥

93.60

सूर्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे
रक्तं धुरंधरं दद्याद् भौमाय च ककुद्मिनम् ॥

93.61

बुधाय जातरूपं तु गुरवे पीतवाससी
श्वेताश्वं दैत्यगुरवे कृष्णां गामर्कसूनवे ॥

93.62

आयसं राहवे दद्यात् केतुभ्यश्छागमुत्तमम्
सुवर्णेन समा कार्या यजमानेन दक्षिणा ॥

93.63

सर्वेषामथवा गावो दातव्या हेमभूषिताः
सुवर्णमथवा दद्याद् गुरुर्वा येन तुष्यति
समन्त्रेणैव दातव्याः सर्वाः सर्वत्र दक्षिणाः ॥

93.64

कपिले सर्वदेवानां पूजनीयासि रोहिणी
तीर्थदेवमयी यस्माद् अतः शान्तिं प्रयच्छ मे ॥

93.65

पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानां च मङ्गलम्
विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे ॥

93.66

धर्मस्त्वं वृषरूपेण जगदानन्दकारक
अष्टमूर्तेरधिष्ठानम् अतः शान्तिं प्रयच्छ मे ॥

93.67

हिरण्यगर्भगर्भस्त्वं हेमबीजं विभावसोः
अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे ॥

93.68

पीतवस्त्रयुगं यस्माद् वासुदेवस्य वल्लभम्
प्रदानात्तस्य मे विष्णो ह्य् अतः शान्तिं प्रयच्छ मे ॥

93.69

विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः
चन्द्रार्कवाहनो नित्यम् अतः शान्तिं प्रयच्छ मे ॥

93.70

यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसंनिभा
सर्वपापहरा नित्यम् अतः शान्तिं प्रयच्छ मे ॥

93.71

यस्मादायासकर्माणि तवाधीनानि सर्वदा
लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे ॥

93.72

यस्मात्त्वं सर्वयज्ञानाम् अङ्गत्वेन व्यवस्थितः
यानं विभावसोर्नित्यम् अतः शान्तिं प्रयच्छ मे ॥

93.73

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश
यस्मात्तस्माच्छ्रिये मे स्याद् इह लोके परत्र च ॥

93.74

यस्मादशून्यं शयनं केशवस्य च सर्वदा
शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि ॥

93.75

यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः
तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः ॥

93.76

यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम्
दानान्यन्यानि मे शान्तिर् भूमिदानाद्भवत्विह ॥

93.77

एवं सम्पूजयेद्भक्त्या वित्तशाठ्येन वर्जितः
रत्नकाञ्चनवस्त्रौघैर् धूपमाल्यानुलेपनैः ॥

93.78

अनेन विधिना यस्तु ग्रहपूजां समाचरेत्
सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥

93.79

यस्तु पीडाकरो नित्यम् अल्पवित्तस्य वा ग्रहः
तं च यत्नेन सम्पूज्य शेषानप्यर्चयेद्बुधः ॥

93.80

ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ॥

93.81

यथा बाणप्रहाराणां कवचं भवति वारणम्
तद्वद्दैवोपघातानां शान्तिर्भवति वारणम् ॥

93.82

तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छता
सम्पूर्णया दक्षिणया यस्मादेको ऽपि तुष्यति ॥

93.83

सदैवायुतहोमो ऽयं नवग्रहमखे स्थितः
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु ॥

93.84

निर्विघ्नार्थं मुनिश्रेष्ठ तथोद्वेगाद्भुतेषु च
कथितो ऽयुतहोमो ऽयं लक्षहोममतः शृणु ॥

93.85

सर्वकामाप्तये यस्माल् लक्षहोमं विदुर्बुधाः
पितॄणां वल्लभं साक्षाद् भुक्तिमुक्तिफलप्रदम् ॥

93.86

ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम्
गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ॥

93.87

रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम्
दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ॥

93.88

प्रागुदक्प्लवनां भूमिं कारयेद्यत्नतो बुधः
प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु ॥

93.89

शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम्
चतुरस्रं समन्तात्तु योनिवक्त्रं समेखलम् ॥

93.90

चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता
प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता ॥

93.91

शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः
मानहीनाधिकं कुण्डम् अनेकभयदं भवेत्
यस्मात्तस्मात् सुसम्पूर्णं शान्तिकुण्डं विधीयते ॥

93.92

अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा
आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च ॥

93.93

द्विहस्तविस्तृतं तद्वच् चतुर्हस्तायतं पुनः
लक्षहोमे भवेत्कुण्डं योनिवक्त्रं त्रिमेखलम् ॥

93.94

तस्य चोत्तरपूर्वेण वितस्तित्रयसंस्थितम्
प्रागुदक्प्लवनं तच्च चतुरस्रं समन्ततः ॥

93.95

विष्कम्भार्धोच्छ्रितं प्रोक्तं स्थण्डिलं विश्वकर्मणा
संस्थापनाय देवानां वप्रत्रयसमावृतम् ॥

93.96

द्व्यङ्गुलो ह्युच्छ्रितो वप्रः प्रथमः स उदाहृतः
अङ्गुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि ॥

93.97

त्र्यङ्गुलस्य च विस्तारः सर्वेषां कथ्यते बुधैः
दशाङ्गुलोच्छ्रिता भित्तिः स्थण्डिले स्यात्तथोपरि
तस्मिन्नावाहयेद्देवान् पूर्ववत्पुष्पतण्डुलैः ॥

93.98

आदित्याभिमुखाः सर्वाः साधिप्रत्यधिदेवताः
स्थापनीया मुनिश्रेष्ठ नोत्तरेण पराङ्मुखाः ॥

93.99

गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता
सामध्वनिशरीरस्त्वं वाहनं परमेष्ठिनः
विषपापहरो नित्यम् अतः शान्तिं प्रयच्छ मे ॥

93.100

पूर्ववत्कुम्भमामन्त्र्य तद्वद्धोमं समाचरेत्
सहस्राणां शतं हुत्वा समित्संख्याधिकं पुनः
घृतकुम्भवसोर्धारां पातयेदनलोपरि ॥

93.101

औदुम्बरीं तथार्द्रां च ऋज्वीं कोटरवर्जिताम्
बाहुमात्रां स्रुचं कृत्वा ततः स्तम्भद्वयोपरि
घृतधारां तया सम्यग् अग्नेरुपरि पातयेत् ॥

93.102

श्रावयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैन्दवम्
महावैश्वानरं साम ज्येष्ठसाम च वाचयेत् ॥

93.103

स्नानं च यजमानस्य पूर्ववत्स्वस्तिवाचनम्
दातव्या यजमानेन पूर्ववद्दक्षिणाः पृथक् ॥

93.104

कामक्रोधविहीनेन ऋत्विग्भ्यः शान्तचेतसा
नवग्रहमखे विप्राश् चत्वारो वेदवेदिनः ॥

93.105

अथवा ऋत्विजौ शान्तौ द्वावेव श्रुतिकोविदौ
कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ॥

93.106

तद्वच्च दश चाष्टौ च लक्षहोमे तु ऋत्विजः
कर्तव्याः शक्तितस्तद्वच् चत्वारो वा विमत्सरः ॥

93.107

नवग्रहमखात्सर्वं लक्षहोमे दशोत्तरम्
भक्ष्यान्दद्यान्मुनिश्रेष्ठ भूषणान्यपि शक्तितः ॥

93.108

शयनानि सवस्त्राणि हैमानि कटकानि च
कर्णाङ्गुलिपवित्राणि कण्ठसूत्राणि शक्तिमान् ॥

93.109

न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः
अददल्लोभतो मोहात् कुलक्षयम् अवाप्नुते ॥

93.110

अन्नदानं यथाशक्त्या कर्तव्यं भूतिमिच्छता
अन्नहीनः कृतो यस्माद् दुर्भिक्षफलदो भवेत् ॥

93.111

अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः
यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः ॥

93.112

न वाप्यल्पधनः कुर्याल् लक्षहोमं नरः क्वचित्
यस्मात्पीडाकरो नित्यं यज्ञे भवति विग्रहः ॥

93.113

तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि
एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेदपारगम्
दक्षिणाभिः प्रयत्नेन न बहूनल्पवित्तवान् ॥

93.114

लक्षहोमस्तु कर्तव्यो यथावित्तं भवेद्बहु
यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः ॥

93.115

पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः
यावत्कल्पशतान्यष्टाव् अथ मोक्षमवाप्नुयात् ॥

93.116

सकामो यस्त्विमं कुर्याल् लक्षहोमं यथाविधि
स तं काममवाप्नोति पदमानन्त्यम् अश्नुते ॥

93.117

पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम्
भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम् ॥

93.118

भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात्
यं यं प्रार्थयते कामं स वै भवति पुष्कलः
निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥

93.119

अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा
आहुतीभिः प्रयत्नेन दक्षिणाभिः फलेन च ॥

93.120

पूर्ववद्ग्रहदेवानाम् आवाहनविसर्जने
होममन्त्रास्त एवोक्ताः खाने दाने तथैव च
कुण्डमण्डपवेदीनां विशेषो ऽयं निबोध मे ॥

93.121

कोटिहोमे चतुर्हस्तं चतुरस्रं तु सर्वतः
योनिवक्त्रद्वयोपेतं तदप्याहुस् त्रिमेखलम् ॥

93.122

द्व्यङ्गुलाभ्युच्छ्रिता कार्या प्रथमा मेखला बुधैः
त्र्यङ्गुलाभ्युच्छ्रिता तद्वद् द्वितीया परिकीर्तिता ॥

93.123

उच्छ्रायविस्तराभ्यां च तृतीया चतुरङ्गुला
द्व्यङ्गुलश्चेति विस्तारः पूर्वयोरेव शस्यते ॥

93.124

वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलविस्तृता
कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता ॥

93.125

गजौष्ठसदृशी तद्वद् आयता छिद्रसंयुता
एतत्सर्वेषु कुण्डेषु योनिलक्षणमुच्यते ॥

93.126

मेखलोपरि सर्वत्र अश्वत्थदलसंनिभम्
वेदी च कोटिहोमे स्याद् वितस्तीनां चतुष्टयम् ॥

93.127

चतुरस्रा समन्ताच्च त्रिभिर्वप्रैस्तु संयुता
वप्रप्रमाणं पूर्वोक्तं वेदीनां च तथोच्छ्रयः ॥

93.128

तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः
पूर्वद्वारे च संस्थाप्य बह्वृचं वेदपारगम् ॥

93.129

यजुर्विदं तथा याम्ये पश्चिमे सामवेदिनम्
अथर्ववेदिनं तद्वद् उत्तरे स्थापयेद्बुधः ॥

93.130

अष्टौ तु होमकाः कार्या वेदवेदाङ्गवेदिनः
एवं द्वादश विप्राः स्युर् वस्त्रमाल्यानुलेपनैः
पूर्ववत्पूजयेद्भक्त्या वस्त्राभरणभूषणैः ॥

93.131

रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम्
पूर्वतो बह्वृचः शान्तिं पठन्नास्ते ह्युदङ्मुखः ॥

93.132

शाक्तं शाक्रं च सौम्यं च कौष्माण्डं शान्तिमेव च
पाठयेद्दक्षिणद्वारि यजुर्वेदिनमुत्तमम् ॥

93.133

सुपर्णमथ वैराजम् आग्नेयं रुद्रसंहिताम्
ज्येष्ठमास तथा शान्तिं छन्दोगः पश्चिमे जपेत् ॥

93.134

शान्तिसूक्तं च सौरं च तथा शाकुनकं शुभम्
पौष्टिकं च महाराज्यम् उत्तरेणाप्यथर्ववित् ॥

93.135

पञ्चभिः सप्तभिर्वापि होमः कार्यो ऽत्र पूर्ववत्
स्नाने दाने च मन्त्राः स्युस् त एव मुनिसत्तम ॥

93.136

वसोर्धाराविधानं च लक्षहोमे विशिष्यते
अनेन विधिना यस्तु कोटिहोमं समाचरेत्
सर्वान्कामानवाप्नोति ततो विष्णुपदं व्रजेत् ॥

93.137

यः पठेच्छृणुयाद्वापि ग्रहयज्ञत्रयं नरः
सर्वपापविशुद्धात्मा पदमिन्द्रस्य गच्छति ॥

93.138

अश्वमेधसहस्राणि दश चाष्टौ च धर्मवित्
कृत्वा यत्फलमाप्नोति कौटिहोमात् तदश्नुते ॥

93.139

ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च
कोटिहोमेन नश्यन्ति यथावच्छिवभाषितम् ॥

93.140

वश्यकर्माभिचारादि तथैवोच्चाटनादिकम्
नवग्रहमखं कृत्वा ततः काम्यं समाचरेत् ॥

93.141

अन्यथा फलदं पुंसां न काम्यं जायते क्वचित्
तस्मादयुतहोमस्य विधानं पूर्वमाचरेत् ॥

93.142

वृत्तं वोच्चाटने कुण्डं तथा च वश्यकर्मणि
त्रिमेखलं चैकवक्त्रम् अरत्निर्विस्तरेण तु ॥

93.143

पलाशसमिधः शस्ता मधुगोरोचनान्विताः
चन्दनागुरुणा तद्वत् कुङ्कुमेनाभिषिञ्चिताः ॥

93.144

होमयेन्मधुसर्पिर्भ्यां बिल्वानि कमलानि च
सहस्राणि दशैवोक्तं सर्वदैव स्वयम्भुवा ॥

93.145

वश्यकर्मणि बिल्वानां पद्मानां चैव धर्मवित्
सुमित्रिया न आप ओषधय इति होमयेत् ॥

93.146

न चात्र स्थापनं कार्यं न च कुम्भाभिषेचनम्
स्नानं सर्वौषधैः कृत्वा शुक्लपुष्पाम्बरो गृही ॥

93.147

कण्ठसूत्रैः सकनकैर् विप्रान् समभिपूजयेत्
सूक्ष्मवस्त्राणि देयानि शुक्ला गावः सकाञ्चनाः ॥

93.148

अवश्यानि वशी कुर्यात् सर्वशत्रुबलान्यपि
अमित्राण्यपि मित्राणि होमो ऽयं पापनाशनः ॥

93.149

विद्वेषणे ऽभिचारे च त्रिकोणं कुण्डमिष्यते
द्विमेखलं कोणमुखं हस्तमात्रं च सर्वशः ॥

93.150

होमं कुर्युस्ततो विप्रा रक्तमाल्यानुलेपनाः
निवीतलोहितोष्णीषा लोहिताम्बरधारिणः ॥

93.151

नववायसरक्ताढ्य पात्रत्रयसमन्विताः
समिधो वामहस्तेन श्येनास्थिबलसंयुताः
होतव्या मुक्तकेशैस्तु ध्यायद्भिरशिवं रिपौ ॥

93.152

दुर्मित्रियास् तस्मै सन्तु तथा हुंफडितीति च
श्येनाभिचारमन्त्रेण क्षुरं समभिमन्त्र्य च ॥

93.153

प्रतिरूपं रिपोः कृत्वा क्षुरेण परिकर्तयेत्
रिपुरूपस्य शकलान् यथैवाग्नौ विनिष्क्षिपेत् ॥

93.154

ग्रहयज्ञविधानान्ते सदैवाभिचरन्पुनः
विद्वेषणं तथा कुर्वन् नेतदेव समाचरेत् ॥

93.155

इहैव फलदं पुंसाम् एतन्नामुत्र शोभनम्
तस्माच्छान्तिकमेवात्र कर्तव्यं भूतिमिच्छता ॥

93.156

ग्रहयज्ञत्रयं कुर्याद् यस् त्वकाम्येन मानवः
स विष्णोः पदमाप्नोति पुनरावृत्तिदुर्लभम् ॥

93.157

य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
न तस्य ग्रहपीडा स्यान् न च बन्धुजनक्षयः ॥

93.158

ग्रहयज्ञत्रयं गेहे लिखितं यत्र तिष्ठति
न पीडा तत्र बालानां न रोगो न च बन्धनम् ॥

93.159

अशेषयज्ञफलदं निःशेषाघविनाशनम्
कोटिहोमं विदुः प्राज्ञा भुक्तिमुक्तिफलप्रदम् ॥

93.160

अश्वमेधफलं प्राहुर् लक्षहोमं सुरोत्तमाः
द्वादशाहमखस् तद्वन् नवग्रहमखः स्मृतः ॥

93.161

इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञाभिषेकः
परिपठति य इत्थं यः शृणोति प्रसङ्गाद् अभिभवति स शत्रूनायुरारोग्ययुक्तः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc