भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 92

92.1

अथातः सम्प्रवक्ष्यामि शर्कराशैलमुत्तमम्
यस्य प्रदानाद्विष्ण्वर्क रुद्रास्तुष्यन्ति सर्वदा ॥

92.2

अष्टाभिः शर्कराभारैर् उत्तमः स्यान्महाचलः
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ॥

92.3

भारेण वार्धभारेण कुर्याद्यः स्वल्पवित्तवान्
विष्कम्भपर्वतान्कुर्यात् तुरीयांशेन मानवः ॥

92.4

धान्यपर्वतवत्सर्वम् आसाद्यामरसंयुतम्
मेरोरुपरि तद्वच्च स्थाप्यं हेमतरुत्रयम् ॥

92.5

मन्दारः पारिजातश्च तृतीयः कल्पपादपः
एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि नियोजयेत् ॥

92.6

हरिचन्दनसंतानौ पूर्वपश्चिमभागयोः
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले ॥

92.7

मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत्
गन्धमादनशृङ्गे तु धनदः स्यादुदङ्मुखः ॥

92.8

प्राङ्मुखो वेदमूर्तिस्तु हंसः स्याद्विपुलाचले
हैमी सुपार्श्वे सुरभिर् दक्षिणाभिमुखी भवेत् ॥

92.9

धान्यपर्वतवत्सर्वम् आवाहनविधानकम्
कृत्वा तु गुरवे दद्यान् मध्यमं पर्वतोत्तमम्
ऋत्विग्भ्यश् चतुरः शैलान् इमान्मन्त्रानुदीरयन् ॥

92.10

सौभाग्यामृतसारो ऽयं पर्वतः शर्करायुतः
तस्मादानन्दकारी त्वं भव शैलेन्द्र सर्वदा ॥

92.11

अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः
देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल ॥

92.12

मनोभवधनुर्मध्याद् उद्भूता शर्करा यतः
तन्मयो ऽसि महाशैल पाहि संसारसागरात् ॥

92.13

यो दद्याच्छर्कराशैलम् अनेन विधिना नरः
सर्वपापैर् विनिर्मुक्तः स याति परमं पदम् ॥

92.14

चन्द्रतारार्कसंकाशम् अधिरुह्यानुजीविभिः
सहैव यानमातिष्ठेत् तत्र विष्णुप्रचोदितः ॥

92.15

ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्
आयुरारोग्यसम्पन्नो यावज्जन्मार्बुदत्रयम् ॥

92.16

भोजनं शक्तितः कुर्यात् सर्वशैलेष्वमत्सरः
सर्वत्राक्षारलवणम् अश्नीयात्तदनुज्ञया
पर्वतोपस्करान्सर्वान् प्रापयेद्ब्राह्मणालयम् ॥

92.17

आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः
सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः ॥

92.18

सोमसूर्यादयो यस्य तेजसा विगतप्रभाः
भवन्ति शतशो येन शत्रवश्चापराजिताः
यथेच्छारूपधारी च मनुष्यो ऽप्यपराजितः ॥

92.19

तस्य भानुमती नाम भार्या त्रैलोक्यसुन्दरी
लक्ष्मीवद् दिव्यरूपेण निर्जितामरसुन्दरी ॥

92.20

राज्ञस्तस्याग्र्यमहिषी प्राणेभ्यो ऽपि गरीयसी
दशनारीसहस्राणां मध्ये श्रीरिव राजते ॥

92.21

नृपकोटिसहस्रेण न कदाचित्स मुच्यते
कदाचिदास्थानगतः पप्रच्छ स पुरोधसम्
विस्मयेनावृतो राजा वसिष्ठमृषिसत्तमम् ॥

92.22

भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा
कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम् ॥

92.23

पुरा लीलावती नाम वेश्या शिवपरायणा
तया दत्तश्चतुर्दश्यां गुरवे लवणाचलः
हेमवृक्षादिभिः सार्धं यथावद्विधिपूर्वकम् ॥

92.24

शूद्रः सुवर्णकारश्च नाम्ना शौण्डो ऽभवत्तदा
भृत्यो लीलावतीगेहे तेन हेम्ना विनिर्मिताः ॥

92.25

तरवः सुरमुख्याश्च श्रद्धायुक्तेन पार्थिव
अतिरूपेण सम्पन्ना घटयित्वा विना भृतिम्
धर्मकार्यमिति ज्ञात्वा न गृह्णाति कथंचन ॥

92.26

उज्ज्वालिताश्च तत्पत्न्या सौवर्णामरपादपाः
लीलावती गिरेः पार्श्वे परिचर्यां च पार्थिव ॥

92.27

कृत्वा ताभ्याम् अशाठ्येन गुरुशुश्रूषणादिकम्
सा च लीलावती वेश्या कालेन महतापि च ॥

92.28

कालधर्ममनुप्राप्ता कर्मयोगेण नारद
सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम् ॥

92.29

यो ऽसौ सुवर्णकारस्तु दरिद्रो ऽप्यतिसत्त्ववान्
न मौल्यमादाद्वेश्यातः स भवानिह साम्प्रतम् ॥

92.30

सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः
यया सुवर्णकारस्य तरवो हेमनिर्मिताः
सम्यगुज्ज्वालिताः पत्न्या सेयं भानुमती तव ॥

92.31

उज्ज्वालनादुज्ज्वलरुपमस्याः संजातमस्मिन्भुवनाधिपत्यम्
यस्मात्कृतं तत्परिकर्म रात्राव् अनुद्धताभ्यां लवणाचलस्य ॥

92.32

तस्माच्च लोकेष्वपराजितत्वम् आरोग्यसौभाग्ययुता च लक्ष्मीः
तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्दशधा कुरुष्व ॥

92.33

तथेति सत्कृत्य स धर्ममूर्तिर् वचो वसिष्ठस्य ददौ च सर्वान्
धान्याचलदीञ्छतशो मुरारेर् लोकं जगामामरपूज्यमानः ॥

92.34

पश्येदपीमानधनो ऽतिभक्त्या स्पृशेन्मनुष्यैरपि दीयमानान्
शृणोति भक्त्याथ मतिं ददाति विकल्मषः सो ऽपि दिवं प्रयाति ॥

92.35

दुःस्वप्नं प्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यैः
यः कुर्यात्किमु मुनिपुंगवेह सम्यक् शान्तात्मा सकलगिरीन्द्रसम्प्रदानम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc