भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 91

91.1

अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम्
यत्प्रदानान्नरो याति सोमलोकमनुत्तमम् ॥

91.2

दशभिः पलसाहस्रैर् उत्तमो रजताचलः
पञ्चभिर्मध्यमः प्रोक्तस् तदर्धेनाधमः स्मृतः ॥

91.3

अशक्तो विंशतेरूर्ध्वं कारयेच्छक्तितस्तदा
विष्कम्भपर्वतांस्तद्वत् तुरीयांशेन कल्पयेत् ॥

91.4

पूर्ववद्राजतान्कुर्वन् मन्दरादीन्विधानतः
कलधौतमयांस्तद्वल् लोकेशानर्चयेद्बुधः ॥

91.5

ब्रह्मविष्ण्वर्कवान्कार्यो नितम्बो ऽत्र हिरण्मयः
राजतं स्याद्यदन्येषां सर्वं तदिह काञ्चनम् ॥

91.6

शेषं तु पूर्ववत्कुर्याद् धोमजागरणादिकम्
दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम् ॥

91.7

विष्कम्भशैलानृत्विग्भ्यः पूज्यवस्त्रविभूषणैः
इमं मन्त्रं पठन्दद्याद् दर्भपाणिर्विमत्सरः ॥

91.8

पितॄणां वल्लभो यस्माद् धरीन्द्राणां शिवस्य च
पाहि राजत तस्मात्त्वं शोकसंसारसागरात् ॥

91.9

इत्थं निवेद्य यो दद्याद् रजताचलमुत्तमम्
गवामयुतदानस्य फलं प्राप्नोति मानवः ॥

91.10

सोमलोके स गन्धर्वैः किंनराप्सरसां गणैः
पूज्यमानो वसेद्विद्वान् यावदाभूतसंप्लवम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc