भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 87

87.1

अतः परं प्रवक्ष्यामि तिलशैलं विधानतः
यत्प्रदानान्नरो याति विष्णुलोकं सनातनम् ॥

87.2

उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिः स्मृतः
त्रिभिः कनिष्ठो विप्रेन्द्र तिलशैलः प्रकीर्तितः ॥

87.3

पूर्ववच्चापरान्सर्वान् विष्कम्भानभितो गिरीन्
दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनिपुंगव ॥

87.4

यस्मान्मधुवधे विष्णोर् देहस्वेदसमुद्भवाः
तिलाः कुशाश्च माषाश्च तस्माच्छान्त्यै भवत्विह ॥

87.5

हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम्
भवादुद्धर शैलेन्द्र तिलाचल नमो ऽस्तु ते ॥

87.6

इत्यामन्त्र्य च यो दद्यात् तिलाचलमनुत्तमम्
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥

87.7

दीर्घायुष्यं समाप्नोति पुत्रपौत्रैश्च मोदते
पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc