भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 86

86.1

अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्
यस्य प्रदानाद्भवनं वैरिञ्चं याति मानवः ॥

86.2

उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः
तदर्धेनाधमस्तद्वद् अल्पवित्तो ऽपि शक्तितः
दद्यादेकपलादूर्ध्वं यथाशक्त्या विमत्सरः ॥

86.3

धान्यपर्वतवत्सर्वं विदध्यान्मुनिपुंगव
विष्कम्भशैलास्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत् ॥

86.4

नमस्ते ब्रह्मबीजाय ब्रह्मगर्भाय ते नमः
यस्मादनन्तफलदस् तस्मात्पाहि शिलोच्चय ॥

86.5

यस्मादग्नेरपत्यं त्वं यस्मात्पुण्यं जगत्पते
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम ॥

86.6

अनेन विधिना यस्तु दद्यात्कनकपर्वतम्
स याति परमं ब्रह्म लोकमानन्दकारकम्
तत्र कल्पशतं तिष्ठेत् ततो याति परां गतिम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc